SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। [दुर्निक्षेपकमेतत्पुत्रक मा साहसं करिष्यसि । अत्र निहितानि मन्ये हृदयानि पुनर्न लभ्यन्ते ॥1 दुर्निक्षेपकमेतत्पुत्रक मा साहसं कार्षीः । अत्र निहितानि मन्ये हृदयानि पुनन लभ्यन्ते ॥५४॥ . आत्मनो वचने विश्वासार्थ स्नेहतः संबोधयति-हे पुत्रक! तस्याः सविधे हृदयनिक्षेपरूपमेतत्साहसं मा कार्षीः मा करिष्यसि । प्राकृते मायोगे लुड्लकारनियमाभावेन 'करिजासु' प्रयुक्तम् । यतः एतदुर्निक्षेपकम्, यो निक्षेपः (न्यासः) पुनर्न लभ्यते, लोके स दुर्निक्षेप इति व्यवह्रियते । अत्र अस्यां रूपचातुर्यादिशालिन्यां नायिकायां न्यासीकृतानि हृदयानि पुनर्न लभ्यन्ते । अन्यासु नायिकासु दत्तं हृदयं कदाचन प्रेमरूपद्रव्यस्य परा. वर्तने परावर्ततेऽपि । विदग्धायामस्यां तु न तदाशेति वैदग्ध्यं सुदृढप्रेमत्वं च ध्वन्यते । हृदयानीति बहुवचनेन 'परमविदग्धा बहवोपि यदि मानसान्यात्मनः समर्पयेयुस्तर्हि तेपि वशंवदा भवेयुः, किं पुनस्त्वमेव' इति आकर्षकतातिशयो ध्वन्यते । साहसपदेन ‘एवंविधया दुर्लभया वामया प्रेमकल्पना साहसमात्रम्' इति प्ररोचनातिशयो व्यज्यते । तथाच 'रूपलावण्य-वैदग्ध्यादिभिः परममनोहरा सेयमवश्यमनुसर्तव्या' इति वाच्येऽपि निषेधे विधिरूपेण व्यज्यते । रतावसाने मौग्ध्येन शून्यं स्थिताया नायिकायाः सुरतादपरितोषमाकलय्य विलक्ष नायकं तस्याश्चिररततादोषनिवृत्त्यर्थं दूती बोधयति णिव्वुत्तरआ वि वहू सुरअविरामट्टिइं अआणन्ती । अविरअहिअआ अण्णं पि किं पि अस्थि त्ति चिन्तेइ ॥५५॥ [निर्वृत्तरतापि वधूः सुरतविरामस्थितिमजानती। अविरतहृदयान्यदपि किमप्यस्तीति चिन्तयति ॥] निर्वृत्तरतापि वधूः सुरतविरामस्थिति न जानन्ती । अविरतहृदयाऽन्यदपि च किश्चिदिहास्तीति चिन्तयति ॥ ५५॥ __ संजातसुरतसुखापि मुग्धतया सुरतविरतौ या स्थितिस्तां न जानन्ती वधूस्त्वदनुरागवशेन अविरतं अविश्रान्तं हृदयं यस्या ईदृशी सती, इह अस्मिन्समारम्भे अन्यदपि किञ्चिदस्तीति चिन्तयतीत्यर्थः । तथा च सेयं त्वत्प्रेमवशंवदा मौरध्यादेव तवान्यविधसुखलालसया निभृतं स्थिता, नाऽपरितोषेणेति भावः। एतेन तवेच्छानुपालनतत्परा मुग्धा त्वत्समागमसुखिता च सेयमिति दूत्या द्योत्यते ॥ विटजनं प्रोत्साहयितुं कुटनी वेश्याप्रेमप्रशंसामवतारयति णन्दन्तु सुरअसुहरसतनावहराइँ सअललोअस्स । बहुकैअवमग्गविणिम्मिआई वेसाण पेम्माई ॥ ५६ ॥ [नन्दन्तु सुरतसुखरसतृष्णापहराणि सकललोकस्य । बहुकैतवमार्गविनिर्मितानि वेश्यानां प्रेमाणि ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy