________________
२ शतकम् ]
संस्कृतगाथासप्तशती।
मा प्रतिपक्षसुखं कुरु दयितमनुनय प्रसादलोभयुतम् ।
अतिनीतगुरुकमानाद्राशिरिव क्षीयसे पुत्रि ॥५२॥ वात्सल्यभाजनत्वेन हे पुत्रि! प्रतिपक्षस्य सपत्नीजनस्य अवसरदानेन सुखं मा कुरु । किं वा युवयोः कलहदर्शनेन ईर्ष्याशीलः प्रतिपक्षजनो मोदते, अत एव तस्य मनोनुकूलं मा कुरु । प्रसादलोलुपं प्रियमनुनय । त्वत्कृतानुनयप्रतीक्षी सोयं त्वदनुनयेन भृशं वशंवदः स्यादिति भावः । अतिनीतात् अतिगृहीतात् गुरुकान्मानाद् राशिरिव क्षीयसे । अतिभूमि नीतेन मानेन हृदयदाहात्साम्प्रतमेव क्षीणा भवसि, भविष्यति तु का कथेति भावः। मूलानुरोधेन भविष्यदर्थ एव चेदिष्टस्तर्हि 'क्षेष्यसि हे पुत्रि राशिरिव' पाठः कार्यः । मानपदं श्लिष्टम् । तथा च गृहीतेन अतिगुरुणा मानेन द्रोणाढकादिपरिमाणेन यथा माषादिराशिः क्षीयते, तोलने सति न्यूनीभवति तथेत्यर्थः । यदि परिमाणं [ परिमीयते अनेन, लोहनिर्मितं परिमाणसाधनम् 'बाट' ] गुरु ( अधिकं महत् ) भवेत्तर्हि राशेर्मानं न्यूनं भवत्येवेति भावः । “माषादिराशिरुपरि पाषाणादिना नियन्त्रितो यथा क्षीयते” इति त्वस्फुटार्थेव गङ्गाधरटीका । एष मानी त्वत्कृतानुनयलुब्धो न त्वामनुनेष्यति, तदेतद्विचारयस्वेति तां प्रति सूच्यते । नायिकाया विरहवेदनामावेद्य तत्संगमाय त्वरयन्ती दूती तत्कान्तमाह
विरहकरवत्तदूसहफालिजन्तम्मि तीअ हिअअम्मि । अंसू कजलमहलं पमाणसुत्तं व पडिहाइ ॥ ५३ ॥ [विरहकरपत्रदुःसहपाध्यमाने तस्या हृदये।
अश्रु कजलमलिनं प्रमाणसूत्रमिव प्रतिभाति ॥] तस्या हृदये दुःसहवियोगकरपत्रपाट्यमाने हि ।
प्रतिभाति बाष्पसलिलं कजलमलिनं प्रमाणसूत्रमिव ॥ ५३॥ दुःसहविरहरूपेण करपत्रेण क्रकचेन विदार्यमाणे तस्या हृदये कजलेन श्यामं प्रवहत् नयनसलिलं विपाटनधारायाः सामञ्जस्यार्थ कृतं प्रमाणसूत्रमिव प्रतिभाति । वृक्षस्कन्धावपाटकाः क्रकचधारासारल्यार्थं कृष्णं मानसूत्रं पूर्व विन्यस्यन्तीति व्यवहारः। प्राकृते पूर्वनिपातानियमाद्दुःसहपदं विरहकरपत्रादुत्तरं प्रयुक्तम् , मत्कृतच्छायायां तु न तथा नियमभङ्गः। विरहिण्याः कञ्जलसमासञ्जनं तु नायकानुरागदार्थेन 'इदानीमायात एव' इति विश्रम्भमूलकमुत्कण्ठातिशयमभिव्यनक्तीति बोध्यम् । तथा च भवदागमनदृढविश्वासेन सजा सेयं चिराद्विरहवेदनाव्याकुलिता संप्रति सत्वरमेवानुकम्पनीयेति ध्वन्यते ।
कस्याश्चन विदग्धनायिकायाः कृते परमोत्कण्ठितं नायकं निषेधमुखेनाधिकं प्ररोचयन्ती वयःप्रौढा दूती सचातुर्यमाह
दुणिक्खेवअमेअं पुत्तअ मा साहसं करिजासु । एत्थ णिहिताइँ मण्णे हिअआई पुणो ण लब्भन्ति ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org