________________
७४
काव्यमाला।
बन्धादुपरमख, कुत्रापि मा रज्य।' अननुरक्तस्य निषेधायोगात् शृण्वन्तं जारं प्रत्यनुरागः प्रेमबन्धे मम कीदृग्दाळमिति प्ररोचना च सूच्यते।
कांचिन्नायिकां प्रति नायकमभिमुखीकर्तु चतुरा दूती तस्या नखक्षतावलोकनकौतुकमाह
अजाएँ णवणहक्खअणिरीक्खणे गरुअजोवणुत्तुङ्गम् । पडिमागअणिअणअणुप्पलचिअं होइ थणवट्टम् ॥ ५० ॥ [आर्याया नवनखक्षतनिरीक्षणे गुरुकयौवनोत्तुङ्गम् ।
प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम् ॥] आर्याया नवनखपदनिरीक्षणे गुरुकयौवनोत्तुङ्गम् ।
प्रतिमागतनिजनयनोत्पलार्चितं भवति कुचपृष्ठम् ॥ ५० ॥ गुरुकं च यौवनेनोत्तुङ्गं च आर्याया वरस्त्रियाः स्तनपृष्ठं स्तनोपरितनो भागः । वदनमण्डलमवनाम्य नवनखक्षतनिरीक्षणसमये । प्रतिमया प्रतिबिम्बरूपेण गते ये नयनोत्पले ताभ्यामर्चितमिव भवति। पूर्णयौवनामेतादृशीं सुन्दरीमन्यैरुपभुज्यमानां सहस इति कामुकं प्रत्याकूतम् । प्रथमानुरागानन्तरं नखक्षतमित्युदाहृता सेयं गाथा कण्ठाभरणे (५ परि.)।
स्त्रीषु नाधिकमनुरज्यन्तं नायकमभिमुखयितुं विपरीतरतानभिज्ञा नायिकां च तत्र शिक्षयितुं काचिती भगवतः श्रीकृष्णस्य लक्ष्म्याश्च कामकलासेवनपाटवं नमस्कारव्याजेनाह
तं णमह जस्स वच्छे लच्छिमुहं कोत्थहम्मि संकन्तम् । दीसइ मअपरिहीणं ससिबिम्ब सूरबिम्ब छ ॥ ५१ ॥
[तं नमत यस्य वक्षसि लक्ष्मीमुखं कौस्तुभे संक्रान्तम् । ____ दृश्यते मृगपरिहीनं शशिविम्बं सूर्य बिम्ब इव ॥] तं नमत यस्य वक्षसि रमामुखं कौस्तुमेभिसंक्रान्तम् ।
मृगहीनं शशिबिम्बं विलोक्यते सूर्यबिम्ब इव ॥ ५१ ॥ विपरीतरतावस्थायां यस्य वक्षसि कौस्तुमे मणौ अभिसंक्रान्तं प्रतिबिम्बितं लक्ष्मीमुखं सूर्यबिम्बेऽनुसंक्रान्तं मृगपरिहीनं निष्कलङ्क शशिबिम्बमिव दृश्यते, तं नमतेत्यर्थः । भगवन्तौ लक्ष्मीनारायणावपि परस्परप्रेमानुबन्धसुन्दरं बन्धविशेषबन्धुरं च सुरतसुखमुपभुजाते, किमन्ये संसारिण इति नायको प्रति खाकूतमभिसूच्यते।। प्रियतमानुनयपराङ्मुखीं कलहान्तरितां प्रौढा दूती प्रियानुनयार्थमाह
मा कुण पडिवक्खसुहं अणुणेहि पिअं पसाअलोहिल्लम् । अइगहिअगरुअमाणेण पुत्ति रासि व छिजिहिसि ॥ ५२ ॥ [मा कुरु प्रतिपक्षसुखमनुनय प्रियं प्रसादलोभयुतम् । अतिगृहीतगुरुकमानेन पुत्रि राशिरिव क्षीणा भविष्यसि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org