________________
२ शतकम् ] संस्कृतगाथासप्तशती।
७३ प्रातः शयनागारतो निर्गच्छन्त्याः प्रियायाः परिवृत्त्याऽवलोकनवर्णनेन स्वसौभाग्यं प्रथयन्नायक आह
णिदालसपरिघुम्मिरतंसवलन्तद्धतारआलोआ । कामस्स वि दुबिसहा दिहिणिवाआ ससिमुहीए ॥ ४८ ॥
[निद्रालसपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोकाः । __ कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः ॥] निद्रालसपरिपूर्णत्तिर्यग्वलदर्द्धतारकालोकाः ।
दुर्विषहाः शशिमुख्या दृष्टिनिपाताः स्मरस्यापि ॥ ४८ ॥ सुरतजागरानिद्रालसः, अत एव परिघूर्णन् परिभ्राम्यन् , अनुरागातिशयात्तिर्यग्वलन् अर्द्धतारकाऽऽलोको येषु तादृशाः शशिवदनाया दृष्टिप्रपञ्चाः कामस्यापि दुर्विषहा धैर्यच्युतिं कुर्वन्ति, किं पुनरस्मादृशानां कामातुराणामिति भावः । स्मरः सर्वान्मोहयति परं तदृष्टिस्तमपि वशीकरोतीत्यतिशयो व्यज्यते । रात्रिं साधु रममाणे मयि सा विधुवदना प्रातस्तथाविधमनुरागमनोहरं दृष्टिनिपातबहुमानं प्रादादिति स्वसौभाग्यसूचनं चरमं व्यङ्ग्यम् । निद्राव्यभिचारिण उदाहरणे परिगृहीता सेयं गाथा सरखतीकण्ठाभरणे भोजेन (५ परि.)।
चिरप्रोषितनिजप्रियागमने निराशतां प्रदर्शयन्ती काचित् शृण्वन्तं जारं प्रत्यनुरागं हृदयोपालम्भव्याजेनाभिसूचयति
जीविअसेसाइ मए गमिआ कहँ कहँ वि पेम्मदुद्दोली । एहिं विरमसु रे उड्डहिअअ मा रजसु कहिं पि ॥ ४९ ॥ [जीवितशेषया मया गमिता कथं कथमपि प्रेमदुर्दोली।
इदानीं विरम रे दग्धहृदय मा रज्यस्त्र कुत्रापि ॥] प्रेम्णो मया कथंचिहुर्दोली जीवशेषया गमिता।
रे दग्धहृदय विरमेदानी मा रज्य कुत्रापि ॥४९॥ प्रियविदेशगमने चिरकालाद्विरहक्षीणतया जीवितशेषया प्राणमात्रावशेषया मया प्रेम्णो दुर्दोली तस्य (प्रियस्य ) मम च प्रणयस्य परस्परानुबन्धेनातिदुर्मोच्यो ग्रन्थिः कथंचित् कथं कथमपि [इदानीमागमिष्यतीति प्रत्याशया, सखीजनसान्त्वनेन, आत्मवधपातकभयाद्वा ] गमिता निर्वाहिता । पाशानामन्योन्यबन्धेन दृढीकृतो दुहेच्यो प्रन्थिदुर्दोलीत्युच्यते । 'गमिता' इति भूतकालिक-'क्तेन' एतावत्कालं प्रेमबन्धो निर्वाह्य समापितः, नाधुना निर्वोढुं शक्यत इति प्रियागमने नैराश्यं सौभाग्यं दृढानुरागिता चात्मनोभिव्यज्यते । प्रेमबन्धे तादृशविरहदाहमनुभूयापि पुनरन्यत्रानुरज्यसीति सनिर्वेदमाह'रे दग्धहृदय ! पुनः पुनर्विरहवेदनाभिमुखगामित्वादभिक्रोशनीय ! इदानीं विरम । प्रेम
सं. गा. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org