________________
काव्यमाला।
न परिजानाति । अवश्यमियं मुग्धा या किल कुसुम्भवाटिकायां नायकस्य कामशास्त्रप्रयोगपट्टिकाऽभूदिति' सापत्न्यमभिव्यज्यते । 'शशप्लुतं पञ्च नखव्रणानि सान्द्राणि तञ्चूचुकचिह्नमाहुः' इति कामशास्त्रम् ।
काप्यात्मनः सुदृढानुरागं प्रदर्श्य मन्दस्नेहं नायकमभिमुखीकर्तुं मरणभयमभिव्यअयन्त्याह
उम्मूलेन्ति व हिअअं इमाइँ रे तुह विरजमाणस्स । अवहीरणवसविसंठुलवलन्तणअणद्धदिट्ठाई ॥ ४६॥
[उन्मूलयन्तीव हृदयं इमानि रे तव विरज्यमानस्य । ___ अवधीरणवशविसंष्ठुलवलन्नयनार्धदृष्टानि ॥] उन्मथयन्तीवान्तरमिमानि रे तव विरज्यमानस्य ।
अवधीरणसुविसंष्ठुलविवलन्नयनार्द्धदृष्टानि ॥ ४६॥ रेशब्दः साक्षेपसंबोधने । सुदृढानुरागायां मयि विरज्यमानस्य तव अवधीरणवशेन सुविसंतुलम् अत्यन्तमबद्धलक्ष्यं यथा भवति तथा विवलत् परावर्तमानं नयनार्धं येषु, एतादृशानि इमानि प्रत्यक्षमनुभूयमानानि दृष्टानि अवलोकनानि मम अन्तरं हृदयमुन्मूलयन्तीव । विरागस्तु तव दूरे, विरागसूचकेनावलोकनेनाप्युन्मूलितहृदयाऽहं मरणोन्मुखी भवामीति गूढं सूचितम् । इमानीत्युक्त्या ‘पश्य ! प्रत्यक्षमेव मयि त्वं विरागं प्रकाशयसि, अहं च तव तादृशमवलोकनमात्रमपि न सोढुं क्षमा' इत्यनुरागातिशयोऽभिव्यञ्जितः। रे' इति संबोधनेन ‘त्वत्प्रेमाधीनजीवितामपि मां न सम्यक्परिचिनोषि' इताभिव्यज्यते । बहुवल्लभतया विरलदर्शनं नायकं काचिदात्मनो विरहविकलतामेवमाह
ण मुअन्ति दीहसासंण रुअन्ति चिरंण होन्ति किसिआओ। धण्णाओं ताओं जाणं बहुवल्लह वल्लहो ण तुमम् ॥ ४७ ॥ [न मुञ्चन्ति दीर्घश्वासान्न रुदन्ति चिरं न भवन्ति कृशाः।
धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम् ॥] न रुदन्ति हन्त न कृशा भवन्ति नोज्झन्ति दीर्घनिःश्वासान् ।
धन्यास्ताः किल यासां बहुवल्लभ ! वल्लभो न त्वम् ॥ ४७ ॥ बयो वल्लभा यस्य तत्संबोधनम् । यासां किल त्वं वल्लभो न, [ केवलं त्वमेवानुरागं प्रकाशयसि न ता इत्यर्थः] रोदनादिदुःखानभिज्ञतया ता एव धन्याः। अस्माभिस्तु त्वयि निहितानुरागाभिः सर्वमिदमनुभूयत इति भावः। तथा च 'बहुवल्लभोपि त्वमेव विचारय, बहीषु वल्लभासु कास्त्वय्यनुरज्यन्ति ? मादृशीषु च तव विरहरौक्ष्यं कियदुचितम्' इति निपुणमभिव्यज्यते । कामबाधया वाच्याऽप्रस्तुतप्रशंसायां माने विरुद्धमित्यत्र चोदाहृता सेयं गाथा सरस्वतीकण्ठाभरणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org