Book Title: Dwatrinshada Dwatrinshika Prakran Part 8
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• स्थिरात्मसिद्धिः .
२१०९ सर्वथाऽभावीभूतस्य क्षणस्योत्तरसदृशक्षणजननाऽसामर्थ्यादिति ।।९।। मर्हति। न च सन्ततेरवस्तुत्वेऽपि ज्ञानक्षणस्य पारमार्थिकत्वेन तदव्यवहितोत्तरं स्वसदृशज्ञानजनकत्वोपगमान्नायं दोष इति वाच्यम्, बौद्धमते निरन्वयक्षणभङ्गुरचित्तक्षणाऽभ्युपगमेन स्वोत्पत्त्यव्यवहितोत्तरं सर्वथा अभावीभूतस्य = निरन्वयनष्टस्य क्षणस्य = विज्ञानक्षणस्य उत्तरसदृशक्षणजननाऽसामर्थ्यात् = स्वोत्तरवर्ति-स्वसदृशविज्ञानक्षणोत्पादशक्त्यसम्भवात्, अतिशयाऽऽधायकत्वेनाऽभिमतादेव सहकारिचक्रात् कार्योत्पत्तौ एकान्तक्षणभिदेलिमचित्तसन्ततौ मानाऽभावाच्चेति व्यक्तं न्यायालोके (न्याया.प्रकाश-१पृ.१८)। ____ तदुक्तं धर्मसङग्रहण्यां श्रीहरिभद्रसूरिभिः अपि → अन्नो वेएइ सुहं अण्णो दुक्खं पवत्तए अण्णो । पावेति वेदती सुमरती य पत्तेयमन्नो तु ।। अन्नो करेइ कम्मं फलमन्नो भुंजती तु मोक्खत्थं । कुणइ पयासं अन्नो पावेति य तंपि अण्णो तु ।। अच्चंतभेदतो इय सव्वोऽवि ण संगतो ततो सम्मं । मोत्तूण दिट्ठिरागं आलोएज्जा बुहो एतं ।। संताणातो अह सो ववहारो सव्व एव जुत्तो तु । सो संताणीहिंतो अन्नोऽणन्नोत्ति वत्तव्यं ।।
6 (धर्मसं. २३२-२३५) इति ।
तदुक्तं स्याद्वादकल्पलतायामपि → 'अनुपप्लवा चित्तसन्ततिर्मुक्तिः' इति बौद्धबुद्धिरपि न सूक्ष्मा, सन्ततेरवस्तुत्वेनाऽसाध्यत्वात् । न च सन्ततिपतितक्षणानामेव पूर्वोत्तरभावेन हेतु-हेतुमद्भावात् तत्साध्यत्वम्; संसाराऽनुच्छेदप्रसङ्गात्, सर्वज्ञज्ञानचरमक्षणस्याऽपि मुक्तज्ञानप्रथमक्षणहेतुत्वेन तत्सन्ततिपातित्वात् ।
अथ न हेतु-फलभावमात्रादेकसन्ततिव्यवस्था, अपि तूपादानहेतुफलभावात् । न च सर्वज्ञज्ञानस्य चर-मक्षण उपादानम्, आलम्बनप्रत्ययो हि सः, समनन्तरप्रत्ययश्चोपादानमिति चेत् ? न, तुल्यजातीयस्योपादानत्वे मुक्तचित्त-सर्वज्ञज्ञानयोः तुल्यजातीयताऽनपायात् । सर्वज्ञज्ञानचरमक्षणस्याऽऽद्यमुक्तचित्ताऽनुपादानत्वे तस्याऽनुपादानस्यैवोत्पत्तेः जागराऽऽद्यप्रत्ययेऽप्युपादानाऽनुमानोच्छेदात्, अन्वयिद्रव्याऽभावे बद्धमुक्तव्यवस्थाऽनुपपत्तेः - (स्या.क.९/४- पृष्ठ.९) इति ।
एतेन निरन्वयनाशकल्पना निराकृता, यतः सान्वयनाशित्वं ह्यनुवृत्त-व्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् । न हि भेदाऽविशेषेऽपि घट-पटादिष्विव स्थास-कोशादिषु विलक्षणैव प्रतिपत्तिः, मृदेकत्वसंवेदनात् । न च मृदेकत्वेऽपि स्थास-कोशादीनामेकैव संवित्तिः, आकारभेदसंवेदनात् । नापि सर्वस्य શકે. સ્થિર આત્મા બૌદ્ધસંમત નથી. શુદ્ધ જ્ઞાન તો ક્ષણિક છે તથા સંતતિ અવાસ્તવિક છે. તો “અહીં મલિન જ્ઞાનસંતતિ ચાલુ હોવાથી તે સંસારી છે તથા ત્યાં શુદ્ધ જ્ઞાનસંતતિ ચાલુ હોવાથી તે મુક્ત છે.” આ પ્રમાણે બૌદ્ધ મત મુજબ કહી શકાતું નથી. તથા ઉત્તરકાળમાં ઉત્પન્ન થનાર જ્ઞાનક્ષણ પ્રત્યે પૂર્વની જ્ઞાનક્ષણ કારણ પણ બની શકતી નથી. કારણ કે પૂર્વજ્ઞાન ક્ષણનો તો સર્વથા નાશ થઈ ગયો છે. સર્વથા અભાવસ્વરૂપ બનેલી પૂર્વજ્ઞાનક્ષણમાં પોતાના જેવી બીજી જ્ઞાનક્ષણને ઉત્પન્ન કરવાનું સામર્થ્ય જ હોતું નથી. માટે આત્માને ન માનવાથી જ્ઞાનક્ષણની પરંપરા ચાલુ રહે તે પણ શક્ય બનતું નથી. તેવી અવસ્થામાં આલયવિજ્ઞાનની સંતતિ = મુક્તિ આવું કહેવું કેવું હાસ્યાસ્પદ અને વિડંબનારૂપ બની જાય ? તે બાબતને વધુ વિસ્તારથી જણાવવાની હવે જરૂર નથી રહેતી. (૩૧/૯)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org