Book Title: Dwatrinshada Dwatrinshika Prakran Part 8
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
•
मुक्तेः परमप्रयोजनतास्थापनम् •
२१४१
'मुख्यप्रयोजनविषयकेच्छाविषयत्वेन च मुख्यप्रयोजनत्वमविरुद्धमिति भावः ।। २२ ।। स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि । शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् ।।२३।। स्वत इति । एवमपि स्वतोऽपुमर्थता,
नन्वेवं दुःखहेतुसकलकर्मक्षयाऽविनाभाविपरमानन्दार्थितयैव मुमुक्षुप्रवृत्त्यङ्गीकारे कृत्स्नकर्मक्षयस्य मुख्यप्रयोजनत्वमनुपपन्नमेवेति चेत् ? मैवम्, मुख्यप्रयोजनविषयकेच्छाविषयत्वेन च = 'कृत्स्नकर्मक्षयद्वारा ज्ञानाचारादिसाध्यो दुःखविरहो मे भूयादि ति या प्रधानप्रयोजनगोचरा इच्छा तद्गोचरत्वेन हि कृत्स्नकर्मक्षयस्याऽपि व्यवहारनयमतेन मुख्यप्रयोजनत्वं = परमपुरुषार्थत्वं अविरुद्धं = लौकिक-शास्त्रीयव्यवहाराऽविरुद्धं एव इति भावः ।
यद्वा कल्पान्तरेण प्रकृतग्रन्थोऽवतार्यते । ननु प्रायश्चित्तादिस्थले 'दुःखं मे मा भूयात्' इत्युद्देशे दुःखद्वेषस्यैवोल्लेख्यत्वेऽङ्गीक्रियमाणे दुःखविरहस्य काम्यत्वसिद्ध्या तत्रैव पुरुषार्थत्वं सिध्येत्, न तु कर्मध्वंसे इति चेत् ? अत्रोच्यते, पूर्वोक्तरीत्या ( द्वा. द्वा.३१/२० पृ.२१३२) दुःखद्वेषोदयोत्तरं दुःखसाधनद्वेषोदयनियमवद् दुःखविरहकामनाऽनन्तरं दुःखसाधनप्रतियोगिकध्वंसकामनोत्पादाऽवश्यम्भावात् तयोः कार्यकारणभावात् । पूर्वं क्रमाऽनुवेधोपलम्भेऽप्युत्तरकालमनुस्यूतैकोपयोगगोचरताया दुःखाभाव-दुःखसाधनध्वंसयोरुपलम्भोऽप्यप्रत्याख्येयः । इत्थञ्च मुख्यप्रयोजनविषयकेच्छाविषयत्वेन = आत्यन्तिकैकान्तिकदुःखाभावलक्षणपरमप्रयोजनगोचरकामनागोचरतया दुःखसाधनसकलकर्मध्वंसस्य मुख्यप्रयोजनत्वं = परमपुरुषार्थत्वं स्वीक्रियमाणं अविरुद्धं युक्त्याऽऽगमाऽविरुद्धमेव । न हि परमप्रयोजनकामनागोचरस्याऽपरमप्रयोजनत्वमभिमतं विदुषां इति भावः । उपयोगस्य क्रमिकाऽक्रमिकोभयस्वभावत्वं तु पूर्वमिहैव ( द्वा. द्वा. ११/२९ पृ.८२१, द्वा.द्वा.३१/२१ पृ. २१३८) प्रदर्शितमेवेति न कोऽपि विरोधाऽवकाशसम्भव इति यावत् तात्पर्यमनुसन्धेयम् ।।३१/२२ ।।
=
अत्रैव ग्रन्थकारः पुनर्मुग्धाऽऽशङ्कामपाकरोति- 'स्वत' इति । ननु एवमपि = क्रमिकाऽक्रमिकोभयस्वभावोपयोगाऽङ्गीकारेणाऽऽत्यन्तिकैकान्तिकदुःखाऽभावलक्षणमुख्यप्रयोजनगोचरेच्छाविषयत्वेन दुःखથાય ? આ પ્રશ્નનો જવાબ ‘દુ:ખજનકકર્મનાશ થાય તો જ' વિવેકીની જાણ બહાર નથી હોતો. માટે મુખ્યપ્રયોજનભૂત કાયમી દુઃખવિરહની ઈચ્છાની સાથે દુઃખજનકકર્મધ્વંસની ઈચ્છા ભળી જશે. માટે દુ:ખવિરહકામનાની વિષયતા દુ:ખવિરહની જેમ દુ:ખજનક કર્મધ્વંસમાં પણ આવી જશે. આમ મુખ્યપ્રયોજનગોચર કામનાની વિષયતા દુ:ખજનકકર્મધ્વંસમાં રહેલી હોવાથી કર્મક્ષય પણ મુખ્યપ્રયોજન બને તો કોઈ વિરોધ નથી. આ પ્રમાણે પ્રસ્તુતમાં ગ્રંથકારશ્રીનો આશય છે. (૩૧/૨૨) ૢ ર્મ જ મુખ્ય દુઃખ છે જૈન આ
ગાથાર્થ :- તો પણ કર્મક્ષયમાં સ્વતઃપુરુષાર્થતા નહિ બને- આવી દલીલ જો તમે કરો તો તેનો જવાબ એ છે કે કર્મમાં પણ શક્તિરૂપે મુખ્યદુઃખપણું સ્વીકારવામાં આવે તો સ્યાદ્વાદમાં શું બાધિત थाय ? अंधे नहि. (3१/२3)
ટીકાર્થ :- અહીં નૈયાયિક દલીલ કરે છે કે ‘દુઃખાભાવકામનાનો વિષય કર્મધ્વંસ છે’ – આવું ૨૨મી
१. मुद्रितप्रतौ 'मुख्यप्रयोजना विषय...' इत्यशुद्धः पाठः ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org