Book Title: Dwatrinshada Dwatrinshika Prakran Part 8
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
असङ्गानुष्ठानोपायपरामर्शः
२१४५
वलितत्वात् कर्मक्षयस्य । नन्वेवं सुखेच्छया वैराग्यव्याहतिरित्यत आह- असङ्गे = असङ्गाऽनुष्ठाने तदुपक्षयात् = सुखेच्छाया अपि विरमात् निराबाधं च वैराग्यं “ मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः” ( योगशतक - २० वृ. उद्धृत) इति वचनात् ।
•
जैनमत एव मुमुक्षोः अखण्डसुखेच्छया प्रवृत्तिसाम्राज्यं = स्वरसतो मोक्षौपयिकयोगाऽनुष्ठानकदम्बकाऽस्खलितत्वं सङ्गच्छते । न हि सुखेच्छां विना प्रेक्षावतां प्रवृत्तिः सम्भवति, चिकित्सादावपि दुःखध्वंसनियतसुखार्थितयैव प्रवृत्तेः । न चैवं सुखस्थलेऽपि दुःखाऽभावाऽर्थितयैव प्रवृत्तिरित्यविनिगमः इति वाच्यम्, तत्र दुःखध्वंसस्याऽनावश्यकत्वात्, तदत्यन्ताऽभावादेरसाध्यत्वात् । न च सर्वत्र सुखस्य दुःखनान्तरीयकत्वोपलब्धेरनागतदुःखभिया मुक्तिसुखमपि त्यज्यते मुमुक्षुभिरिति शङ्कनीयम्, यतो न खल्वयं समाचारः प्रेक्षावतां यद् दुःखभिया सुखपरित्याग इति, अपि तु ते तात्त्विकं सुखं दुःखाद् विभिद्योपाददते, दुःखसाधनञ्च वर्जयन्ति । न हि मृगाः सन्तीति शालयो नोप्यन्ते इति न्यायोऽत्र दृश्यः । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते इति न्यायोऽप्यत्राऽनुयोज्यः । इदञ्चाऽभ्युपगमवांदेनोक्तम् ।
वस्तुतस्तु आनन्दस्य निरुपाधिकाऽऽत्मस्वभावत्वाद् मुक्तौ परमानन्दसत्त्वेऽपि न जातु दुःखोदयसम्भवः, तत्सामग्रीविरहादित्यवधेयम् ।
नन्वेवं प्रेक्षावतामस्खलितप्रवृत्त्यौपयिक्या सुखेच्छया स्वीक्रियमाणया वैराग्यव्याहतिः प्रसज्येत इति अतः आशङ्कातो ग्रन्थकृद् आह- असङ्गाऽनुष्ठाने प्रीति-भक्ति-वचनाऽनुष्ठानाऽभ्यासपरिपाकक्रमेण सम्प्राप्ते सति प्राथमिकयोगप्रवृत्त्युपायभूतायाः सुखेच्छाया अपि विरमात् = स्वकार्यसम्पादनेन चरितार्थतया विगमात् वैराग्यं च तात्त्विकं निराबाधं ज्ञेयं असङ्गाऽनुष्ठानमहिम्ना च मोक्षगमनमनपायम् । एतेन नित्यसुखरागेण मोक्षाय घटमानो न मोक्षमधिगच्छेत्, नाधिगन्तुमर्हतीति । बन्धनसमाज्ञातो हि रागः । न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यते ← ( न्या. भा. १/१ / २२ पृ. ६६ ) न्यायसूत्रभाष्यकृतो वात्स्यायनस्य वचनमपि समाहितम्, प्रथमभावेन रागतो मोक्षानुष्ठानप्रवर्तनेऽपि चन्दनगन्धन्यायेन सदनुष्ठानस्याऽऽत्मसाद्भवनेऽसङ्गदशायां मूलतो मोहोच्छेदेन परमानन्दमयमुक्तिप्राप्तिसम्भवात् ।
કામનાવિષય બને છે જ. માટે જૈનમાન્ય મોક્ષ પરમપુરુષાર્થ બની શકે છે. તથા અખંડ સુખની કામનાથી કર્મક્ષયના ઉપાયભૂત જ્ઞાનાચારાદિમાં મુમુક્ષુની પ્રવૃત્તિ પણ સારી રીતે થઈ શકશે.
# તાત્વિક વૈરાગ્ય સંગતિ હ
“જો સુખની ઈચ્છાથી કર્મક્ષયના ઉપાયોમાં પ્રવૃત્તિ કરવામાં આવે તો વૈરાગ્ય હણાઈ જશે. કારણ સુખકામના વૈરાગ્યનાશક છે.”- આવી દલીલ પ્રસ્તુતમાં ન કરવી. કારણ કે અસંગ અનુષ્ઠાન આવે ત્યારે સુખકામના પણ રવાના થઈ જાય છે. માટે ત્યારે તાત્ત્વિક વૈરાગ્ય પણ સંગત થાય છે તથા અસંગ અનુષ્ઠાન પણ અટકશે નહિ. માટે મોક્ષ મળી જશે. અસંગ અનુષ્ઠાનની અપેક્ષાએ શાસ્ત્રમાં લખેલ છે કે ‘શ્રેષ્ઠ મુનિ મોક્ષ અને સંસાર બન્ને પ્રત્યે નિઃસ્પૃહ હોય.' સાંસારિક સુખની કે મોક્ષસુખની સ્પૃહા ઉત્તમ સાધુને ન રહે. માટે પ્રારંભ દશામાં રહેલી મોક્ષસુખકામના બાધક નથી. જો આવું ન માનો
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org