Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः६
PAN
ISTEVANI
OTHREE
शासनसम्राजामिह समुदाये मेरुपर्वतीपम्ये ।। कल्पतझर्नन्दनवनसत्कोऽयं नन्दतान सुचिरम् ।।
षष्टी शाखा (उत्तरायणम् वि.सं. २०५७
सङ्कलनम् कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ६
s sessmasanee
chana
A
APU
NonS
Namas
202
SO
S
O
PANEERING
mita
K
Del
ANSWRENAME
-RAMAIIMS
imeaHARASAN
MIRRENT
JANAMAN
SHESPsi
UAR
शासनसम्राजामिह समुदाये मेरुपर्वतीपम्ये ॥ कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥
षष्ठी शाखा (उत्तरायणम्) वि.सं. २०५७
सङ्कलनम् कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ॥ षष्ठी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् ॥)
सङ्कलनम् : कीर्तित्रयी।
8688003888888888888888
सर्वेऽधिकाराः स्वायत्ताः ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
88888888888888888888888888833333338383838388
वि. सं. २०५७, ई.सं. २००१ मूल्यम् - संस्कृतसाहित्यरुचिः ॥
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्यायमंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - ३८० ००७
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
Co. अतुल एच्. कापडिया A/९, जागृति पलेट्स, महावीर टावर पाछळ, पालडी, अमदावाद - ३८० ००७. फोन : 079-6588879
मुद्रणम् : सचिन एन्टरप्राइझ, अमदावाद ।
फोन : 079-7497047 मोबाईल : 9825011414
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम् ॥
किल बहवो जना अस्माकं पृच्छन्ति यद् “भवन्तः किमर्थं संस्कृतभाषायामेव पत्रिका प्रकाशयन्ति ? किमिति च प्रादेशिकभाषायां न लिखन्ति ? तत्र लेखने हि बहूनामपकारः सम्भवति । संस्कृतभाषां तु केचिदेव विद्वांसः पठितुमर्हन्ति परन्तु प्रादेशिकी भाषां हास्मादृशा बहवो जनाः पठितुं शक्ता" इति ।
तत्र प्रथमं तावत् न वयं प्रद्धियर्थं लोकरञ्जनाय वा लिखामः न वा वयं लेखने सक्ताः । किन्तु गीवाणवाणीप्रीतिप्रेरिताः सन्तः स्वाध्यायार्थमेव लिखामः ।
किञ्च प्रादेशिकाया भाषायास्तु प्रभूता लेखका विद्यन्त एव । कदाचित् तद्वाचकानां सङ्ख्याऽपि तेभ्योऽल्पीयसी स्यात् । किन्तु संस्कृतविषये त्वत्र उभयेषामपि लेखक-वाचकानां दुष्काल एव दृश्यते ।
संस्कृतस्य माहात्म्यं तु ये तद् बोधन्ति पठन्ति च त एव सम्यक्तया ज्ञातुं समर्थाः । एडमूको हि गुडगुणान् कथं वा वर्णयेत् ? स हि गुडमास्वाद्य एव सन्तुष्टो भवति । अस्माकं परिस्थितिरप्येतादृशी एव । तथाऽपि सर्वतो निरीक्ष्यते चेत् एषा भाषा "जाति-देश-काल-समयानवच्छिन्ना सार्वभौमी " इत्यस्माकं प्रतिभाति । ___ अन्ततो गत्वा नाऽस्माकमेषः प्रयासः जनोपकाराय किन्तु स्वोपकाराय स्वान्तःसुखाय चैवेति ॥ ॐकारसूरि आराधना-भवनम्
कीर्तित्रयी सूरत
88585603035520000
302888
8862
588888888888888888888
3383386888888888
388888
3
20838388
Page #5
--------------------------------------------------------------------------
________________
अनुक्रमः
पृष्ठम्
कृतिः
कर्ता
१३ स्तवनानुवादः
विजयशीलचन्द्रसूरिः
श्रीजिनमहावीरोनत्रिंशकम् ।
डॉ. आचार्यरामकिशोरमिश्रः
२
विजयशीलचन्द्रसूरिः
| ॐ
श्रीधर्माष्टकम् वैराग्यविंशतिः
प्रवर्तकश्रीमुनियशोविजयः प्रवर्तकश्रीमुनियशोविजयः
PROIf
तुदन्ति मामलम् !!
मुनिः भुवनचन्द्रः 'चिन्मय' अभिराजराजेन्द्रमिश्रः । अभिराजराजेन्द्रमिश्रः ।
गलज्जलिका- न चन्दनं वने - वने !!
एस्. जगन्नाथः
Page #6
--------------------------------------------------------------------------
________________
कृतिः
मुक्तकाव्यम्
किमर्थम् ?
कियती सम्भावना करतलसर्षपम्
काव्यानुवादः
आस्वाद
अनुवादः
प्रभुमहावीरस्य करुणागर्भिता साधना
'पत्रम
कर्ता
मुनिरत्नकीतिविजयः
मुनिरत्नकीर्तिविजयः
अभिराजराजेन्द्रमिश्रः
किमर्थमेतावती अधोगतिः ? मुनिधर्मकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
तत्त्वज्ञः अतत्त्वज्ञः वा ? मुनिकल्याणकीर्तिविजयः
विजयशीलचन्द्रसूरिः
चिन्तनधारा मुनिरत्नकीर्तिविजयः ३६
मुनिधर्मकीर्तिविजयः
को नरः श्रेष्ठः
मुनिधर्मकीर्तिविजयः
मांसाहारं त्यजन्तु दीर्घं च जीवन्तु मुनिकल्याणकीर्तिविजयः
अनुक्रमः
पृष्ठम्
२५
२७
३०
३४
३९
४४
४८
५१
५७
५८
Page #7
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
कर्ता
पृष्ठम्
कथा
कथायां बोधः रूपककथा काणः किं वदेत् ? वैराग्यम् यशोलिप्सा संस्कृतिः ?
विजयशीलचन्द्रसूरिः मुनिरत्नकीर्तिविजयः मुनिकल्याणकीर्तिविजयः
अभिराजराजेन्द्रमिश्रः अभिराजराजेन्द्रमिश्रः सन्तोषः आनन्दः शास्त्री
स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती
७६
रङ्गमञ्चः मोहजित् अथवा प्रेमपरीक्षा
05 मर्म - नर्म कि
Page #8
--------------------------------------------------------------------------
________________
अनुक्रमः कर्ता पृष्ठम्
कृतिः
प्राकृतविभाग
संवेगमंजरीकुलयं
मुनिकल्याणकीतिविजयः
१०१
पत्रम्
मुनिकल्याणकीर्तिविजयः
१०४
सा.हेमपूर्णाश्रीः
१०७
w
चरमजिणेसर-सिरिमहावीरपहुणो तवस्स संकलणं धातुद्धी
मुनिधर्मकीर्तिविजयः
१०८
Page #9
--------------------------------------------------------------------------
________________
EXCOMSONOMSONOMSOONSOONIOPIOISONIONISOK
ISORBE
INE
A
YOSI COTO SOTOSUOTO
प्रार्थना अस्मिन् दुःषमपञ्चमारसमये सन्ताप-पापाकुले श्रीसङ्घो बहुतुच्छवैरिनिवहै वित्रासितो वर्तते । कृत्वा शीघनिवारणं करुणया तेषां समेषामहो ! श्रीशद्धेश्वरपार्श्वनाथजिनराट् सधेऽस्तु शान्तिप्रदः ॥
शार्दूलविक्रीडितम् ॥ किल विंशतिर्जिनपतिवरा यतिततिवृता यस्मिन् गिरौ परिलेभिरेऽक्षयसम्पदं विगतापदं परम पदम् । तं दुरितदारणमघनिवारणमात्ममङ्गलकारणं सम्मेतशिखरं तीर्थप्रवरं सादरं प्रणमाम्यरम् ॥
हरिगीतम् ॥
वाmama
colosi colosilicatos colosi COSIOSK
skorosilicato il colosilicatosicaosicOTOS COMO COTOSTOT
INMEANIAAAAAAAAAAAAAAAEENA
E
E
Page #10
--------------------------------------------------------------------------
________________
श्री शान्तिनाथजिनस्तवनम् सस्तवनानुवादः शान्तिजिनेशः सत्यः स्वामी शान्तिकर: कलिकाले जिनवर ! त्वं मम मनसि त्वं मम हृदये ध्यायाम्यखिले काले जिनवर !..... दर्शनमाप्तं भ्रमता भवाब्धौ आशां पूरय काले
जिनवर !..... ज्योतिर्विमलं राजति हृदयं ग्लौरुदितोऽम्बरमाले जिनवर !..... मम हृदयं तव चरणे लीनं मीनवदिह कीलाले
जिनवर !..... देवः शान्तीश्वरसदृशो नहि स्वर्गे भुवि पाताले जिनवर !.....
अनुवादकः -विजयशीलचन्द्रसूरिः શ્રીજિનરંગ-કવિકૃત શાંતિનાથ-સ્તવના શાન્તિ જિનેશ્વર સાચો સાહિબ, શાન્તિકરણ ઇણ કલિમેં હો જિનજી, તું મેરા મનમેં તું મેરા દિલમેં ध्यान ५३ ५८. ५८ साउन, तुं भे२॥ मन तुं भे२. हिममें.... मम ममता में हरिश पायो, म॥२॥ पूरी में पस हो..... निर्भत न्योत वहन. ५२. सोडे, निस्यो न्यु यं. ७६समें डो..... भेरी मन तुम साथै सानो, मीन से युं ०४९में हो..... 'निरं' हे प्रभु न्तिानेश्वर, हीही हेव ससमें हो......
Page #11
--------------------------------------------------------------------------
________________
पविशतिशत(२६००)तमजन्मवर्षे भगवतां श्रीजिनमहावीराणां वन्दनम्
डो. आचार्यरामकिशोरमिश्रः,
संस्कृतविभागाध्यक्षः,
म. मा. डिग्री कोलिज, खेकडा (बागपत) उ.प्र. २०११०१
__ श्रीजिनमहावीरोनत्रिंशकम् तस्मै नमो भगवते महते जिनाय ।
वन्दे जिनं जगति जैनसमाजपूज्यम्, पञ्चज्ञमत्र च मुनि त्रिशलातनूजम् । यं जैनधर्मजनकं मनसा स्मरामि, तस्मै नमो भगवते महते जिनाय ॥१॥ श्वेताम्बर: प्रथम आदिगृहस्थभोगी, पश्चादयं स्वतपसाऽत्र दिगम्बरोऽभूत् । यं जैनदेवमधुना हृदये भजामि, तं वर्धमानमथ साधुवरं नमामि ॥२॥ ज्ञानप्रदश्च जनताशुभचिन्तको यः, स्वामी च कुण्डलपुरस्य निवासिवीरः । जैनप्रवर्तकमुनि यमहं च वन्दे, जीवेऽपि पश्यति स ईश्वरमत्र मन्दे ॥३॥
Page #12
--------------------------------------------------------------------------
________________
योऽभूद्धि नेत्रयुगसायक (५८२) वर्षपूर्वम्, शुक्लत्रयोदशमधाविह वैक्रमाब्दात् । आध्यात्म्यसाधुमथ देशजसाधुवर्गे, वीरं नमामि तमहं मुनिमत्र सर्गे ॥४॥ राज्येऽस्य गर्भसमयाद्धनधान्यवृद्धिम्, व्यापारवृद्धिमपि राज्यधनस्यवृद्धिम् । दृष्ट्वा पिता यमवत्खलु वर्धमानम्, पुत्रं त्वमन्यत स तं परमेशदानम् ॥५॥ सीमासु कुण्डलपुरस्य बभूव शान्तिः, मैत्री बभूव जनतासु शशाम वैरम् । वीरं जगाद जननी भुवि निर्भयं यम्, वन्दे मुनीन्द्रमिह तं त्रिशलातनूजम् ॥६॥ भाषोपदेशकवाय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥७॥
अध्यापकाश्च यमवदन् च कुशाग्रबुद्धिम्, विद्यार्थिजीवनदिनेषु च सम्मतिं तम् । यः साधनासमयकष्टसहस्रभोगी, तस्मै नमो भगवते त्रिशलासुताय ॥८॥
(१) ५८२ + (२) २०५८ = २६०० शततमजन्मवर्षम्। (३) शुक्लत्रयोदशमधौ = चैत्रमासे शुक्लपक्षे त्रयोदश्यां तिथौ भगवतो महावीरस्य जन्म २०५८ वैक्रमाब्दात् ५८२ वर्षपूर्वमभूत् अत इदं २६०० शततमजन्मवर्षम् ।
Page #13
--------------------------------------------------------------------------
________________
प्रासादवासमिह खानल(३०)वर्षदेश्यः, सम्पूर्णयौवनसुखानि विहाय योगी। चक्रे तपो वनगतो हि दिगम्बरो यः, संस्मर्यते स तपसा वनष्टभोगी ॥९॥ सत्यं त्वसङ्ग्रहमहिंसकतां च लोके, कल्याणहेतव इतीदमुपादिशद् यः । सिद्धार्थपुत्रमधुना यमहं स्मरामि, तं वर्धमानमथ साधुवरं नमामि ॥१०॥ अस्तेयमत्र पुनरन्तमनेकतायाः, एकत्वमेव जनजीवनसौख्यहेतोः । यश्चाऽब्रवीदिह सदाचरणं त्वकोपम्, तस्मै नमो भगवते महते जिनाय ॥११॥ यः कर्मणा च मनसा च हृदा च वाचा जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्म स्मरामि, तं वर्धमानमिह वीरमहं नमामि ॥ १२ ॥ सांसारिकादिसुखसङ्ग्रहमुक्तिचेताः, जीवात्मवान् स भगवानपरिग्रही यः । सेवे हृदि स्वमनसा त्रिशलात्मजं यम्, तस्मै नमो भगवते महते जिनाय ॥१३॥
Page #14
--------------------------------------------------------------------------
________________
यः स्वीचकार जडचेतनमूलरूपम्, तस्मिन् कदापि न च यो निकूतिं चकार । यं सत्यवादिनमहं हृदये स्मरामि, तं वर्धमानमिह वीरमहं भजामि ॥ १४ ॥ सिद्धार्थराजतनयाय महाजिनाय, वीराय जैनविभवे त्रिशलासुताय, जैनप्रवर्तक वराय मुनीश्वराय, तस्मै नमो भगवते महते जिनाय ॥१५ ॥ राजस्तदङ्गनृपतेर्दधिवाहनस्य पुत्र्या मुदाऽक्रियत चन्दनबालयाऽत्र । यस्याऽतिकष्टतपसो व्रतपारणा हि वीरं धरामि तमहं हृदये महान्तम् ॥१६॥ साऽऽसीच्च तज्जनकशत्रुकूता हि दासी तद्धस्तभोजनमवाप्य समुद्धृता या । दासीप्रथा तदनु येन विनाशितेह वीरं स्मरामि तमहं त्रिशलात्मजातम् ॥१७॥ तस्यै प्रदत्त इह येन समाजमानः, साध्वी हि साधुमहिलाप्रमुखा कृता सा । स्त्रीसाधुसङ्घमपि यः कृतवान् समाजे, पूज्यं तमेमि शरणं मुनिवर्धमानम् ॥ १८ ॥
Page #15
--------------------------------------------------------------------------
________________
देशं महाविषधरस्य तपोवने यः, दुष्टप्रताडनमनार्यभयं च शान्तः । ध्यानेन नो गणितवानभयश्च योगी, वीरं नमामि तमहं भुवि भोगरोगी ॥१९॥ कालाऽब्धि(४३)वर्षपरिधाविह शालमूले, वैशाखशुक्लदशमीयचतुर्थयामे, कैवल्यमाप्तमूजुकीयतटे हि येन, तेन प्रभावितमिदं त्रिशलात्मजेन ॥ २० ॥ योगेन सत्यवचसा यमहिंसया च, ध्यानेन जीवदयया च तितिक्षया च, स्वात्मानमेव कूतवानिह यो हि तीर्थम्, तीर्थङ्करं तमथ जैनविभुं नमामि ॥२१॥ संश्रावकेषु महिलानरसंघदाय, साध्वीति साधुरिति तीर्थविवर्धकाय, तीर्थडुरेषु चरमस्थितिभूषिताय, तस्मै नमो भगवते महते जिनाय |ો ૨૨ . चित्तेन कर्मविधिना कटुभाषणेन, भागग्रहेण च विदूषणशोषणाभ्याम्, पीडा जनस्य कथिता भुवि येन हिंसा, स्वान्ते स्मरामि जिनवीरमहिंसकं तम् ॥२३॥
-
Page #16
--------------------------------------------------------------------------
________________
सार्धं द्विजैर्मुनिवरैर्निजधर्मसंघे, शूद्राः समादरयुता विहिता हि येन । तं जातिवर्णसमुदायविरोधिमुख्यम्, वन्दे जिनेन्द्रममरं मुनिवर्धमानम् ॥ २४ ॥ आध्यात्मिकाय जनवर्णविभेदहाय, धर्मार्थशिक्षकवाय च वर्गहाय, ध्यानाय योगनियमादिकपालकाय, तस्मै नमो भगवते महते जिनाय ॥ २५ ॥ नेत्राऽश्व(७२)संख्यकवया य उदारचित्तः, पावापुरे शरदि कार्तिकमास्यमायाम्, प्राणान् विहाय प्रमेशपदं वाप्नोत्, वीरं नमामि तमहं हि जिनं महान्तम् ॥२६॥ सिद्धो महापुरुष आत्मपरो मुनिर्यः, ज्योतिर्मयश्च प्रमेश्वरमान्ययोगी, निर्वाणलाभमकरोदिह साधुचेताः, सिद्धार्थपुत्रमथ तं हृदि धारयामि ॥२७ ॥ कल्याणदाय जगतीजनसौख्यदाय, विश्वासदाय जनचिन्तनकर्मकाय, तीर्थप्रवर्तकवाय च धार्मिकाय, तस्मै नमो भगवते महते जिनाय ॥२८ ॥
Page #17
--------------------------------------------------------------------------
________________
शून्यद्वयोत्तरसाऽऽत्मक (२६००)जन्मवर्षे, यद्वन्दनं विरचितं त्रिशलासुतस्य । तत्पाठकाय भुवि यस्त्वभयं ददाति, तस्मै नमो भगवते महते जिनाय ॥२९॥
60७
केचिद् मृता अपि जनाश्चरित्रैश्चित्रकारिभिः । जीवन्त इव् जायन्ते कीर्तिरेवाऽविनश्वरी ॥
(श्रीमल्लिनाथमहाकाव्ये)
Page #18
--------------------------------------------------------------------------
________________
ताथरतातः
RAA
AR
ANKARI
N
IWAANTRA
HONORMAHAR
विजयशीलचन्द्रसूरिः
(छन्दः शिखरिणी) कदाऽहं सिद्धाद्रौ भव-भुवनधिद्वीपसदृशे, सुरक्षन्नात्मानं कलुषविषयग्राहनिवहात् ।
अभीकः सन् दुष्टान्मकरनिकरात् क्रोधप्रमुखाद् - वसामि स्वामिन् ! ते मधुरतमनामस्मृतिपः ॥ १ ॥
कदाऽहं दाहं मे विषमविषयाग्निप्रजनितं, स्थितं चित्ते, सिध्दाचलतिलक ! हे नाथ ! भगवन् ! ।
वीवर्तिष्यामि त्वदभिधसुधाशीतलरस - च्छटाभिः सेसिञ्चन्नखिलमपि शक्तः शमयितुम् ॥२॥
युगादीशस्याऽस्मिन् विमलगिरिराजे शिवकरे, विराजन्तीं मूर्तिं विहितभविस्फूर्तिमनिशम् ।
प्रपश्यत् साफल्यं मम न यनयुग्मस्य भगवन् ! कदाऽहं कुर्वे त्वच्चरणशरणो दोषहरण ! ॥ ३ ॥
Page #19
--------------------------------------------------------------------------
________________
क्दाऽहं स्वात्मानं मलिनभवगादयदयात्समुद्धर्तुं स्वामिन् ! निखिलखिलनाशिन् ! जिनवर ! ।
श्रयिष्ये श्रीसिद्धाचलसुगिरिनिःश्रेणिममलां, समारोहायाऽस्मिन्निव विरचितां मुक्ति निलये ॥ ४ ॥
कदाऽहं तीर्थशे प्रमरमणीये क्षितितले, युगादीशध्याने निहितनिजचेता अविरतम् ।
अशेष मुक्त्वाऽथो विषयजनितोपाधिविसरं, प्रवत्स्यामि स्वामिन् ! भवभवभयत्रायक ! विभो ! ॥५॥
पवित्रेऽत्र क्षेत्र विमलगिरिसन्नामनि जनिं, त्वदीयप्रासादे शशिविशद ! नाभेय ! भगवन् ! ।
समायातैः संधैस्तव गुणनुतिर्या प्रविहिता, क्दाऽहं शृण्वन् तां सफलमखिलं नाथ ! विदधे ॥ ६॥
अज्ञानी यत् कृतं कर्म क्षिपेत् वत्सरकोटिभिः । तज्ज्ञानी गुप्तिसम्पूर्णः क्षिपेदुच्छ्वासमात्रतः ॥
(श्रीमल्लिनाथमहाकाव्ये)
Page #20
--------------------------------------------------------------------------
________________
25
ॐ
श्रीधर्माष्टकम्
श्रीविजयनेमिसूरिसत्कः प्रवर्तक श्रीमुनियशोविजयः
(छन्दः स्रग्धरा)
धर्मात् सगोत्रजन्मा भवति नु भविकः क्षेमकारी जनानां धर्माद्धान्यैश्च शर्मावह इह भवति प्राणभूद् विश्वविश्वे । धर्माद् ध्यानैः सुकर्माग्रग इह गदितो गुण्यपुण्याग्रणीश्च धर्माद धन्यः सुवर्मावह इह भवति त्राणशक्तो नराणाम्
l
धर्माद् बाल्येऽपि लाल्यो भवति तु सततं पालनीयो जनानां धर्माद् दावेऽपि विष्टो भवति धृतिगतो भ्रान्तिभित् कान्तिधारी । धर्मात् पुण्योऽपि गुण्यो नमति च सततं पादपद्मं परत्र धर्माद्दीनोऽपि लीनो भवति तु भुवने स्वर्गसौख्ये सदैव
११
રો
धर्माद् दुःखेऽपि लीनो भवति तु सततं शर्मसीमावलीनो दीनो मीनोऽपि धीनो धरति हि धृतितः सर्वसम्पत्तिपत्तिम् । धर्माद् ध्यानेऽपि गाने भवति च सततं धीधनो धैर्यधारी धर्माज्ज्ञानेऽपि ताने इह हि वितनुते बुद्धिवृद्धिं विविद्वान् ॥३॥ धर्माद् दुःखस्य धारा भवति न हि पुनर्दुःखकारा नराणां धर्माद् दारा न कारागृहमिव भविनामत्र विश्वेऽपि विश्वे । धर्माद् धीशस्य धीरस्य च न हि भवति व्याघ्रवर्गोऽपि भीकृत् धर्मात् स्फारा च सारा सततमिह सतां सर्वसम्पत्तिसत्तिः ॥४॥
Page #21
--------------------------------------------------------------------------
________________
(छन्दः शार्दूलविक्रीडितम्) . धर्माद् धैर्यधरो वरो हि भवति श्रेयस्करोऽहोहरो धर्माद् रूपमनोहरो धनधरो धर्येषु धीरो नरः । धर्माद् वीरतरो विपत्तिहरणो भद्रङ्को भीहरो धर्माद् भाग्यविभूतिभूतिवितरो विद्वद्वरोऽयं नरः धर्माद् वर्णनपात्रमत्र भवति श्रेयरसुगात्रस्तथा धर्मात् सर्वनरा वराः प्रतिदिनं ध्यायन्ति सद्ध्यानतः । धर्माच्चैव नरैस्तु सततं स्वाराधनीयो धनी धर्माद् धर्मधुरंधरस्त्विति जनाः संवर्णयन्ति क्षितौ धर्माद् धर्मकथाप्रथासु कुशलो धर्माच्च नीरोगको धर्मान्मानधरो वरो भयहरो भीष्मे भवाम्भोनिधौ । धर्माद् दाढ्यधरो वो गतदरो भव्योऽतिनव्यो नरो धर्मात् सर्वसुशर्मवर्मकरणो धीमान् सदा धर्मतः धर्माद् धर्मकरो वो ननु नरः सन्नीतितः स्फीतिभूत् धर्मात् तारतरो वरो भवति सुस्फूर्तिप्रतानो नरः । धर्माद् दानदयादमेषु हृदयं देदीयमानो द्रुतं धर्मात् तापततिप्रतानहरणः सौम्यः शशीव द्रुतम्
દો
॥७॥
॥
eG-
Page #22
--------------------------------------------------------------------------
________________
वरायविंशतिः
-श्रीविजयनेमिसूरिसत्कः
प्रवर्तकमुनिश्रीयशोविजयः (छन्दः शिखरिणी) मदज्वालामाला दहति हृदयं मे प्रतिदिनं तथा क्रोधो योधो दृढतरशरान् मुञ्चति परान् । पुनर्मायाच्छाया त्यजति न तु मां दुर्गतिततिः पराधीनो दीनो विभुचरणमेवेति शरणम् ॥१॥
तपस्तप्तं दत्तं विविधमपि दानं न सफलं न तद् ध्यानं ज्ञानं प्रसरति न यत्र प्रतिदिनम् । नृणां भव्यो नव्यो विविधशमसार: सुखकर:
जिनैः ख्यातः प्रातः प्रमतरवैराग्यविषयः ॥२॥ गुरोभक्तेः शक्तेर्न फलमपि भव्यस्य भवति पुनर्जेया मेया वृततरविविद्याऽपि विफला। तदा दान्तिः क्लान्तिप्रतिपतनकारे न कुशला यदि त्राता भ्राता भवति न च वैराग्यविषयः ॥३॥
पिता माता भ्राता भवति न च पाताऽपि भविनां सुहृद् वा दुर्हद् वा न हि हितकरो भव्यभविनाम् । न कोटीशो धीशो भवति धृतिदो दीनभविनां जिनं धीरं वीरं विषयवियुतं तं त्विह विना ॥४॥
Page #23
--------------------------------------------------------------------------
________________
सुधासाराकारा भवति भविनां बाह्यदृशिनां सदाऽन्तर्दृष्टीनां रुधिररसमूत्रादिमलिना । कटाक्षैर्या लक्षैर्जडमतिजनानन्दकरणा न सा कान्ता कान्ता भवति विबुधानां प्रतिदिनम् ॥५॥
स्तनौ पीनौ लीनौ कनकलशौ चेति गदितौ मुखं श्लेष्मावासं तदपि शशभूत्तुल्यमुदितम् । क्षरन्मूत्रक्षुण्णं करिवकराकारजघनं
कविक्रूरैः काकै रिति तु गुरुता तत्र गदिता ॥६॥ विधा-तापार्तानां प्रकटपटुतातो विरहिणां न देवेन्द्रश्चन्द्रश्चतुर इह चित्तेषु तनुते । सुकौशल्यं शल्यं विविधमिह देहेषु दधतां जयत्येकश्छेकरसुरमणिरिव श्रीजिनपतिः ॥७॥
इह द्वेष-क्लेशक्चथितमतयः केऽपि कृतिनः पुनः केचित् किञ्चिच्चितिविरहिता मूढमतयः । अहो ! दीना लीना दुरितततिदोषेषु सततं
असारे संसारे निजमपि हितं बिभ्रति नहि ॥८॥ यदा दीर्णे जीर्णे रुचिरिह जनानां परवशे सुख्खे दुःखैर्मूङ्घरभिमततया संस्थितवति । तदा लिप्ते क्षिप्ते न हि भवति शान्तिः क्षितितले यतो द्रिष्टैः श्लिष्टैन विषमविषैर्वाभिरिह सा ॥९॥
न कर्ता वा हर्ता भवति दुरितानां प्रतिदिनं सदा त्रस्यद् भ्रश्यद् दुरितदवदोषं दरहरम् । विनेशं विश्वेशं प्रकटमहिमादीप्तयशसं इति ध्येयं गेयं श्रयत शरणं श्रीजिनपतिम् ॥१०॥
१४
Page #24
--------------------------------------------------------------------------
________________
विना दिना मीना व्यपगतजले व्याधिकलिता इव त्राता भ्राता भवति भविनामन्य इह तत् । सुवैराग्यैर्भाग्यैरिह निहततापैरपि परं न तस्मादस्माकं भवति हितदं वीतविषयैः ॥११॥
दिने दृष्टं पीने परतरदिने तन्न भवति निशायां रम्यायां पतितमपि न प्रातरवति । न पूर्वाह्णप्राप्तं भवति पमध्याह्नविषयं
अनित्यं तन्नित्यं विविधविषयान् विद्धि विबुध ! ॥१२॥ सदा दाहः कारागृहमिह जनानां क्षितितले धने चित्ताक्रान्ता जगति तु वने यान्ति विजने कुपुत्राः क्रोधार्ता विदधति विरागं भदवने सुशस्त्रीणां स्त्रीणां भयत इह चेतोभ्रमभूतः ॥१३॥
न पुत्री स्वीकी जनकगदितं नीतिशतकं न च भ्राता त्राता दुरितदलितानां भवभूताम् । न माता वा सातामिह भवभूतां कर्तुमुदिता
न जाने क्च स्थाने भवति भविनामत्र सुसुखम् ॥१४॥ पिताऽस्ति भ्राताऽस्ति प्रियतर इहाऽस्ति प्रकटतः सुपुत्रः सर्वत्र पुनरपि च पुत्री गुणवती । धनं धान्यं मान्यं प्रथितमिह पुण्यावहतया परं कल्लोल्लोलोदितजलविलोलोपममिदम् ॥१५॥
प्रचण्डाधिर्व्याधिर्दहति हृदयं भव्यभविनां पुनर्लोकाश्शोकाकलितकृतयः केऽपि कुटिलाः । न भव्या वा नव्या इह सुखलवं बिभ्रति पं भवेऽस्मिन् दुर्दावे दलितहृदया दीनमनुजाः ॥१६॥
१५
Page #25
--------------------------------------------------------------------------
________________
पुनः केचित् काञ्चिद् दिशमिह गता दुःखदलिता परे प्राज्ञाः पापैरविरतिविहीना वनतले । कुटुम्बक्लेशेन क्चथितमतयः केऽपि कुहरे इति स्वान्ते ध्यान्ते सति न भवति प्राज्ञपटुता ॥१७॥
पुरा पुण्यो गुण्योऽभवदिह नृपालोऽपि सगर: सदा चक्री वक्रीकृतविविधनेत्रः क्षितिपतिः । परं पुत्रत्राणाप्रभुरिह सदा दुःखदलितो
गतस्त्राता भ्राता इति भवति नैवाऽत्र भविनाम् ॥१८॥ परा लक्षा दक्षा दधतु दमनं देहदहनं असारा साऽपारा भवतु भविनां भीतिभजना। जिनोक्तानां तासां वचनरचनानां प्रभजना यदास्थाऽपास्ता चेद् भवति भववैराग्यविषये ॥१९॥
दधयोतोद्योतोदलिततमसं दर्पदलनं जिनं श्रेष्ठं ज्येष्ठं झगिति जनजन्मोज्झसनकम् । सदा त्रस्यद् भ्रश्यद् भवभयभरं भाविभरितं ।
भजन्तु भ्राजन्तु प्रभजनजयाच्छ्रीजिनपतेः ॥२०॥ परे पापाः सर्पा इव विषमवेगैर्विदधते सदा दुःखज्वालां न हि हृदयशालां तदपि ये । पुनश्चिन्ताक्रान्तां जगति कुरुते सूरिमहितः स शं देयाज्जीयाद् वरविजयनेम्याह्वयगुरुः ॥२१॥
निरारम्भो दम्भोद्दलनकरणः पापहरणः पृथिव्यां पुण्यायां प्रथित इह पुण्यैः प्रकटितः । असौ सूरिः सूरीश्वरभूतपदाम्भोजकलितो नं भव्यान्नव्यान् सुखमिह सदैव प्रकुरुताम् ॥२२॥
१६
Page #26
--------------------------------------------------------------------------
________________
सदा दक्षा रक्षाकरणविषये शासनतरोः पुनर्मायाच्छायारहितहृदया दीनशरणाः । भवाम्भोधौ बोधौ विहिततरचित्ताश्च चतुराः सुकौशल्याः शल्यादलनकरणे नेमिगुरवः ॥२३॥
लभेयं लोकेऽस्मिन्नतिविततदुःखैर्विदलिते कथङ्कारं सारं जिनविहितधर्मं परमहम् । असौ नो चेच्चेतोवरतरविशुद्धिप्रणिदधो जयत्येक श्लोकः स तु विजयनेमिर्यतिपतिः ॥ २४ ॥
तपागच्छे स्वच्छे वरविजयनेम्याह्वयगुरोः प्रतापाच्च व्यापात् समशशिसमस्फूर्तिकलितात् । सुवैराग्यैर्भाग्यैरिति च रचना रातु रचिता सदा दान्ति शान्तिं दलिततमसां दीर्घदृशिनाम् ॥ २५ ॥
वैराग्यविंशतिरिति स्फुटमेव विज्ञैर्वाच्या विभेदकरणी हरणी मदस्य । यस्मात् भवेऽत्र भविनां भवनाशिनीयं वैराग्यवासितविशिष्टविभूतिभाजाम् ॥ २६ ॥ ( वसन्ततिलका)
॥ इति श्रीमत्तपागच्छाचार्य-चारित्रचूडामणिवर्यचरणचञ्चरीकायमाणप्रवर्तक यशोविजयविरचिता वैराग्यविंशतिः समाप्ता ॥
coka৩
१७
Page #27
--------------------------------------------------------------------------
________________
प्रभाते
मन्दाक्रान्ताऽतुहिनरुचिता ताम्रधाम्नेव कोपान् - मन्दं मन्दं विगलितमदा शर्वरी क्वाऽपि लीना । मन्दं मन्दं विहसितमितः पङ्कजैः सुप्रभाते किं नो हृष्यन्त्युदयसमये सज्जनाः सज्जनानाम् ? ॥१॥
२ काव्यनिकुअम्
व्योमद्वारे दधति विशदां कुङ्कुमाभां सुशोभामीषच्छाखाचलनमिषतः संव्यजत्सु द्रुमेषु । पक्षिव्राते विदधति मुदा बन्दिगानं प्रभाते मन्दाक्रान्तं प्रविशति रविर्विश्वसम्राड् जगत्याम्
व्योमालिङ्गि ग्रसितवसुधं सूचिभेद्यं तमिस्रं मन्दाक्रान्तं तरणिकिरणैर्भिद्यमानं समीक्ष्य | कूजन्त्येते विटपिषु खगाः प्रीतचित्ताः प्रभाते सत्यं दोषापगममुदिताः सन्ति सत्पक्षिणो हि उड्डीयन्ते दिशि दिशि खगाः सप्रमोदं कणार्थं प्रातः काले पशुगण इतः प्रस्थितश्चारिकार्थम् लोकः सर्वो निरलसमनाः स्व-स्वकार्ये प्रसक्तस्तेजोराशावुदयति रवौ कोऽत्र भो ! नोत्सहेत ?
१८
- मुनिः भुवनचन्द्रः 'चिन्मय'
રો
રૂપે
in
Page #28
--------------------------------------------------------------------------
________________
गलज्जालका तुदन्ति मामलम् !!
- अभिराजराजेन्द्रमिश्रः ह्यो यदीयपादकण्टकाः समुद्धृता मया कण्टकीभवन्त एव ते तुदन्ति मामलम् ॥१॥ यद् गृहं निवारितं प्रदीप्तवह्नितो मया पावकीभवन्त एव ते दहन्ति मामलम् ॥२॥ स्वाशिषा प्रवर्धिताः प्रसह्य ये मया सदा तापसीभवन्त एव ते शपन्ति मामलम् ॥३॥ येऽप्यसीमशंसया मया तुरङ्गमीकूताः रासभीभवन्त एव ते धुवन्ति मामलम् ॥ ४ ॥ यल्ललाटलेखपुष्पिका मयैव कल्पिताः नायकीभवन्त एव ते दिशन्ति मामलम् ॥ ५ ॥ लेखनानि यत्कृतानि शोधितान्यहो मया कोविदीभवन्त एव ते हसन्ति मामलम् ॥६॥ ये प्रचण्डकम्पनेऽपि सुस्थिरा मया कृताः क्षेपकीभवन्त एव ते क्षिपन्ति मामलम् ॥ ७ ॥ कीदृशस्समागतोऽधुना विपर्ययो युगे ? ये सुहृत्तमास्त एव वञ्चयन्ति मामलम् ॥ ८ ॥
eGo
१९
Page #29
--------------------------------------------------------------------------
________________
Kamsadersaw
गलज्जलिका न चन्दनं वने - बने !!
- अभिराजराजेन्द्रमिश्रः ।
सत्यमेव दृश्यते सुभाषिते पुरातने नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥१॥
वारिणा समं प्रयाति दुग्धमेकरूपताम् किन्तु तैलमिश्रितं तदेव नैति मित्रताम् सौहृदं विक स्वरं न जीवति प्रवञ्चने नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥ २ ॥
धर्म एव रक्षति स्वयं स चेत्सुरक्षितः जायते विसारिणी विभा प्रदीपकुक्षितः अञ्जनं क्च सम्भवेन्महेश्वरे निरञ्जने ? नो मणिगिरौ-गिरौ, न चन्दनं वने - वने ॥३॥
सत्यपालनेन वर्धते सदा मनोबलम् जीवनञ्च जायते निरर्गलं निराकुलम् मङ्गलं व कल्प्यते सति त्रिलोकरावणे ? नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥ ४ ॥
अत्ययानपाकरोति सात्त्विकी सहिष्णुता वृद्धिमीयते तया ध्रुवं निसर्गजिष्णुता आर्जवं महीयते न जातु रीतिलचने नो मणिगिरौ - गिरौ, न चन्दनं वने - वने ॥ ५ ॥
२०
Page #30
--------------------------------------------------------------------------
________________
यन्महाघमत्र दृश्यते तदात्मरक्षितम् निर्गुणौषधं वनेषु के न कुत्र भक्षितम् द्योतते क्षणप्रभाऽपि नैव सा घने - घने नो मणिर्गिरौ - गिरौ, न चन्दनं वने - वने ॥६॥
यो मनुष्य : प्रस्य मौनं न समवबुध्यते स तस्य शब्दान् नैव समवगमिष्यति ।
- मार्टिन ल्युथर
Page #31
--------------------------------------------------------------------------
________________
पटह:
एस्. जगन्नाथः
एस्. जगन्नाथः
सहायकसंशोधकः, प्राच्यविद्यासंशोधनालयः, मैसूरु-५७०००५ 1. पूर्वं कश्चन राजा नरपतिनिचये गर्जनमिदमारभत
"स्मरत प्रपितामहमार्या ! मे तीक्ष्णं वेदनमप्यनुभवत । प्रणतं शत्रुषु शीर्षं यस्यावनतग्रीवानस्मानकरोत् तद्धटनाग्निज्वालाप्रशमनशस्तं किञ्चित् क्रियतां नो चेत्
तन्नः शौर्यं प्रति थूकृतिकृत् ॥" 2. अग्रे भूम्या: पत्युः कश्चन हृदयोद्भूतां वाणीमगदत्
"काले कस्मिन्नपि संभूतं किमपि कथं तव हृज्वरमसृजत् ? सकलं विस्मर, तव स प्रपितामह उद्भवति क्षमाप ! किमधुना ? यस्त्वद्रोषज्वलनोद्दीप्तिं जनयेत् स मनोधैर्येण विना
कालान्तरितो रिपुरपि विधिना ||" 3. तद्वाक्याङ्करनखरं कटुतमलपितं केनचिदुदसारि द्राक्
“प्रतिकारस्याकरणं भव्यतरमिति कविभिनिर्णीतं प्राक् । संप्रति चिन्तय कं प्रति दृष्टिस्फूर्जथुरास्फोटं विदधातु ? प्रलं वैरं निजमस्तित्वं मृत्या कस्यावनिप ! जहातु ?
प्रीति: प्रेतव्रजगा भातु ॥?" 4. प्रथमब्राह्मी मानुषपाले शत्रुविसृष्टं शूलं जातं
परमपरस्य श्रुतियुगलामृतधारालसदभिषेकीभूतम्। शमवाक्कारिणि राज्ञो वीक्षणमशनिप्रतिमं पतितं घोरं, हृदयक्षोभिनि मनुजे समभूनयनं बहुसंचितघृतसारम् । प्रेतकदम्बकमहसत् क्रूरम् ॥ 5. राष्ट्रेऽन्यस्मिन् वार्ता प्रसृता नासीद् भीरुस्तस्मिन् कोऽपि त्रिदशाधीशान् स्वान् गणयद्भिस्तत्रत्यैरुत्साहः प्रापि। संगरनामकदर्शनसूत्रश्रेणिव्याख्यारचनाचतुरैः सहसास्फोटितशौर्यक्रोशितविजयोत्स्फूर्जनगर्जनमुखरै? संगरकुतुकै सुकृतिप्रवरैः ॥
२२
Page #32
--------------------------------------------------------------------------
________________
6. प्रासरदाश्वे वैतण्डे चोदन्तः कर्णक्रकचसदृक्षः 'किमयं पतित: शब्दग्रहपथ आयोधनमिति शब्दो रूक्ष ? समराध्वरतो हाऽस्मान् सज्जनसुमणिः पुजितसुकृतविपाक: पिशितभुगीश्वरनामकऋत्विग्रचितादस्मात् त्राता स्यात् कः ?
तमसि स्फुरताद् येनालोकः ॥' 7. इत्थंकारं सैन्य-ग-घोटक-गजगणहृदये चिन्ता जाता
कोऽप्यन्येङ्गितविज्ञश्रुतियुगधारी नासीत् तत्र श्रोता। 'खलजनमतिगतभूतोच्चाटनपटुतरतन्त्रं पुण्यनिधानं समरं स्थगयितुमादृतकार्यं दृश्यास्मास्मजीव-सुमानं '
तुरगेभाशादृगियं नूनम् ॥ 8. मनुजोक्तिक्रम एवास्ते यदि समरस्थगने शक्त्या शून्य किं धीमार्गस्तिर्यग्जीविन आर्यव्राते युक्त्या मान्य ? करिणा किमनुत्पाट्ये विटपिनि शूरत्येणकचक्षुकोण ? क्वचिदतिनिबिडायामन्धकृतौ म्लायति दीपोऽप्यक्ष्णा काण: प्रभवति मौढ्ये, बोधो गौण ! ॥ 9. काञ्चनवर्मच्छायापीता सैन्यजनाननरुचिरतिविशदा
धनुरिषुभरदोर्युगली रुधिरालोकनकुतुका समभूद् भयदा खड्गाद्यायुधसंहतिरथ यमनखरश्रेणीबीभत्साऽऽसीत् प्रेतप्रकृतिव्रज्यागमनं स्फारक्रूरं यानमलावीत्
कुलिपिं धातुः सुलिपिरनंसीत् ! 10. 'हंहो स्वान्तं शोणितखेलालोकनकौतुकभूर्यपराद्धं !
प्रधनसमाप्तौ किं जीविष्यति कोऽपि विधातुं मृतकश्राद्धम् ?' मध्येमार्ग संशयकणिकामिति हृदि जातां सेनाधिपतिः श्रियमिव करतलमिलितां दूरे मूढो विजहौ दुर्भावरति:कजलदीपोभयमिश्रमतिः ||
H
asinadiase
sika
२३
Page #33
--------------------------------------------------------------------------
________________
11. गगने गृधैर्भुवि च सृगालैः सैनिकयानमथावालोकि.
प्रमदप्रकटनपटुभिरमोदि , कुवाक्यं यमराप्रियमश्लोकि। ये संत्यक्षत्प्राणास्थिवसामांसविकल्पनविकरालमुखा: पतितपर्युषितनरकुणपादनपूर्वानुमितमन सरदसुखा:
कालादत्तायुधजीवसखा ॥ 12."ये मन्नयनाध्वाग्रे जन्म प्राप्य क्रीडामग्ना जाता
शालासु च यैरध्ययनं कृतमथ ये स्फारोद्योगै? स्फीता कण्ठः सूक्त्यमृताो येषां, प्रथते सुतरां देशिकभावः क्रूरं मारणयज्ञममीषां द्रष्टास्मी"ति क्लिश्नद्ग्रीवः
सपदि म्लानो दिनपो देव४ ॥ 13. उभयदलस्थितबुधविहिताभिर्यद्यपि युद्धस्थगनपराभिः
प्राप्त स्वागतमवनीशश्रुतिकुहरद्वारे साधुगिराभिः । किन्तु विवेकाणुरपि बतासीन्न महामोहपिशाचकदासे खद्योतः किं दीपयति भुवं दर्शे कालाम्बुदनिबिरीसे ?
न सुधाबिन्दुः किल यमवासे || 14. ताडनमारणकालिकतालायितकटुनिर्हादप्रदघातं व्रणित-नियमाणानननिःसृतरोदनगीतक्रन्दनजातं प्रेताधीश्वरसेवकसमुदयविरचित हल्लीसकसमुपेतं मृधमारब्धं शमधन-घोरं बहुशः प्रीतपिशाचद्रातम् ।
मृतमृतं, हा ! विषमुद्भूतम् || 15. व्रणितैः कैश्चिन्नृभिरात्मानं यमदंष्ट्राया मोचितवद्भिः स्वीयं विजयं पटहारूढं कल्पयितुं सङ्कल्पितवद्भिः पटहक-ताडी तत्राकारित आत्मविजयघोषितमादिष्टम् । एति च तस्मिन् नष्टामोदैविपुलविषादैस्तैराण ! कष्टं , तस्य करयुगं- छिन्नं दृष्टम् !
२४
Page #34
--------------------------------------------------------------------------
________________
-
-
किमर्थम?
--मुनिरत्नकीर्तिविजयः।
मुक्तकाव्यम्
“मनुष्यः”
अन्नं भक्षयति यतः स बुभुक्षितो भवति,
जलं पिबति यतः स तृषितो भवति,
वाणिज्यं करोति यतः स धनाभिलाषी भवति,
धनोपार्जनं करोति यतः तत् सुखस्य साधनं तस्य,
रात्रिंदिवं च
परिश्रमं स कुरुते यतः कुटुम्बस्याऽऽधारोऽस्ति सः,
सर्वेऽपि व्यवहाराः परिवारस्याऽपि समाजस्याऽपि च
स परिपालयति यतः स्वस्याऽपि भविष्यमस्ति,
तदा च कश्चिज्जन उपयोग्यपि स्यात्,
स्वपिति यतः स श्रान्तो भवति,
तस्य २५
Page #35
--------------------------------------------------------------------------
________________
गमनमागमनं च स्थितिरुपवेशनं च प्रवेशो निर्गमनं च
यत्किमपि प्रवृत्तिजातं तत्सर्वमपि सप्रयोजनमेवाऽस्ति,
अत एव च
‘स न उन्मत्तः' इति कथ्यते, कथयितुं शक्यते वा।
किन्तु ‘स जीवति'
किमर्थम् ? इति तु प्रश्नार्थ एवाऽद्यपर्यन्तम् न तेनाऽद्यापि तस्योत्तरं शोधितम् !
कदाचित् स्मरत्यपि न सः।
अहो ! कीदृशीयं दुर्दशा !
यः परं न क्षमते स स्वमार्गभाविनं सेतुं ध्वंसयति ॥
- ज्यो िहर्बर्ट्स
२६
Page #36
--------------------------------------------------------------------------
________________
कियती सम्भावना ?
-मुनिरत्नकीर्तिविजयः।
मुक्तकाव्यम्
मनुष्य एक एव, किन्तु सम्भावनास्तत्राउनेकाः,
प्रथमं तु
स
कुटुम्बरय सभ्यो भूत्वा अवतरति,
पश्चाच्च, शनैःशनैः (स योग्यः स्यान्नाऽपि वा, तथापि)
कौटुम्बिकं तस्य पदं
आयुषा सहैव
सततं वर्धते । पुत्रत्वं अपहाय स पतिर्भवति,
क्रमशश्च जामाता, पिता, श्वसुरः, पितामहः, सर्वं भवति - भवितव्यमेव तेन !
तत्र यदि सोऽभिलषेत् यत्
मया मम समाजस्य, मम ग्रामस्य नगस्य वा सेवा कर्तव्या
तदा
२७
Page #37
--------------------------------------------------------------------------
________________
यदि च विद्यते तरिमन् किमपि सत्वं
तर्हि तादृशं स्थानं मानं वा
स प्राप्नुयादपि (एतच्छक्यम्)
पश्चाच्च, तत्क्षेत्रे साफल्ये (!) प्राप्ते सति सेवाभावः (!) तस्य वर्धते ।
तदनुसारेण च स्वराज्यस्य स्वराष्ट्रस्य च सेवायामेव
जीवनं समर्पयितुं (!)
उत्सहेताऽपि;
यदि च स्यात् किमपि चातुर्यं (!) तस्य
तर्हि, स्वभावनानुरूपं स्थानमपि स प्राप्नुयात् (एषाऽपि सम्भावना)
तथा च स्वं धन्यमपि मन्येत ।
तदनु च अन्यत् सर्वं,
स्वकीयं कर्तव्यमकर्तव्यं
२८
Page #38
--------------------------------------------------------------------------
________________
-
हितमहितं (सज्जनदृष्ट्या) मानमपमानमपि च, विस्मरति ।
यतो निर्विघ्नः स्वकल्याणस्य (!) मार्गः
तेन प्राप्तः, अतस्तत्रैव जीवनं स परिपूर्णं करोति (कर्तुं वाञ्छति, यतः, “स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः")
अत्र, एतासां सम्भावनानां मध्ये
भवानेव कथयतु यत् ___ 'मनुष्यः' भवितुं कियती सम्भावना तस्य ? (न केवलमाकूत्या; आकृत्या तु स मनुष्य एव, किन्तु
प्रकृत्या) दृश्यते किं काऽपि सम्भावना ?
एवं च “स ‘मनुष्यः' भवेत् खलु कदापि ?"
Page #39
--------------------------------------------------------------------------
________________
करतलसषेपम्
- अभिराजराजेन्द्रमिश्रः ।
मुक्तकाव्यम्
सविश्वासं मयोक्तमासीत् मध्येजनसमवायं यत्कस्मिंश्चिद् दिने कन्दलयिष्यति सर्षपं मम करतले दर्शयिष्याम्यहं तच्च
सर्वान् जनान् ! हन्त तदेव घटितम् ! कन्दलितं सर्षपं मम करतले नैकथा प्रत्युत वारं - वारम् मम प्रतिवेशे निवसत् पामरप्रकृतिडिण्डिको निरक्षरोऽशिष्टो व्याजशातनपरायणः सोपानात्सोपानमधिरोहन् राजनयाट्टालिका निर्वाचन जित्वा यस्मिन् दिने सांसदो जातः सांसदीभूय च मन्त्री... प्रथमवारं तस्मिन्नहनि मम करतले स्वेऽङ्कुरितं सर्षपं दृष्टम् ! निश्चप्रचं सर्षपमेवासीदिदं हरितपर्णं पीतपुष्पसमन्वितञ्च !!
३०
Page #40
--------------------------------------------------------------------------
________________
ततश्च निशितबुद्धावध्यवसायपरायणे सुचरिते मम सूनौ लिखितपरीक्षोत्तीर्णे सत्यपि मौखिक्यामुपेक्षिते ममैव पुत्रस्य सहाध्यायी जडबुद्धिर्लक्षपतिकुलदीपको यदा केनचिददृष्टपुण्योदयबलेन प्राशासनिकवाक्परीक्षोत्तीर्णस्सन् जिलाधिकारिपदमधिरूढः हन्त तदा भूयोऽपि करतले मम तदेव सर्षपं जातम् हरितपर्णं पीतपुष्पसमन्वितम् !! सर्षपशोभानिर्वर्णयितारो जनाः मामदृष्टपुण्योदयबलस्य रहस्यं विशदयाञ्चक्रुः तदासीलक्षपतेरुत्कोचदानं
चयनकर्तृभ्यो युधिष्ठिरेभ्यः !! अथेदानीं तृतीयमवसरं करतलसर्षपकन्दलनस्य प्रकाशयिष्ये !
Page #41
--------------------------------------------------------------------------
________________
विश्वविद्यालयीयकुलपतिपदनिमित्तं के नचिद् गुणपक्षधरेण चयनसमितिसदस्येन ममैव नाम प्रस्तावितम् मम प्रतिष्ठायां नाऽदृश्यत कोऽपि प्रत्यवायः कुलाधिपतिरपि ममैव् पक्षे प्रीतोऽश्रूयत प्रन्त्वकस्मादेव समाचारपत्रेषु प्राकाश्यमुपगतं तन्नाम यद् दृष्ट्वैव नगरं स्तब्धं जातम् शिक्षिताश्च जडीभूताः !!
तलामाङ्गीकरणे सन्त्यनेकाः किंवदन्त्यः करालटेण्टायास्तां कथां को नु वर्णयेत् ? सोऽधुना कुलपतीभूय प्रवल्गते अहञ्च तत्प्रजाकल्पो नित्यमेव तस्मै नमोवाकं व्याहरामि पुनरपि करतलारूढसर्षपं सर्वान् दर्शयन् उद्भ्रान्तश्चरामि !!
Page #42
--------------------------------------------------------------------------
________________
SATTA
Jatut
'प्रत्येकं अलङ्करणंस्वदोषनिहनवाय'
IDO
Jaba
३३
Page #43
--------------------------------------------------------------------------
________________
काव्यानुवादः
એક આફ્રિકન કવિતા
1002020202020202020202020RRO202202020202021
હવે તે સલામતીપૂર્વક મૃત્યુ પામ્યો છે ચાલો તેના થોડા વખાણ કરીએ તેની કીર્તિનાં સ્મારકો રચીએ
તેના માટે પ્રાર્થનાઓ ગાઈએ. મૃત્યુ પામેલા વીરો ભારે સગવડ કરી આપે છે:
તેમની જિંદગી પરથી આપણે ઘડી કાઢેલી મૂર્તિઓને પડકારવા તેઓ કદી ઊભા પણ થઈ શકતા નથી. અને વળી, વધારે સારી દુનિયા રચવા કરતાં
સ્મારકો બાંધવા સહેલાં છે. તો હવે તે સહીસલામત રીતે મૃત્યુ પામ્યો છે ત્યારે
આપણે નિરાંતને જીવે આપણાં સંતાનોને શીખવશું
કે તે મોટો માણસ હતો. જાણીએ છીએ કે
જે કારણ માટે તે જીવ્યો તે તો હજીયે એમનું એમ જ છે. "જે સ્વપ્ર માટે તે શહીદ થયો તે હજીયે સ્વપ્ર છે, મરેલા માણસનું સ્વપ્ર.
આફ્રિકન કવિ : કાર્લ વેન્ડેલ હાઇન્સ અનુવાદ : જયા મહેતા (‘કાવ્યવિશ્વ' પ્રથમ આવૃત્તિ, પૃ. ૧૫૫)
३४
Page #44
--------------------------------------------------------------------------
________________
काव्यानुवाद: काफिक
एका आफ्रिकीया कविता स सम्पूर्णरूपेण मृत्युं प्राप्तवान् अस्ति अधुना आगच्छन्तु तस्य अल्प-प्रचुरां प्रशस्ति कुर्मः तस्य कीर्तः मन्दिराणि रचयामः तस्य कृते शान्ति प्रार्थयामः। यतः दिवंगताः सत्पुरुषा अतीव आनुकूल्यं सम्पादयन्ति तेषां चरितं अवलम्ब्य अस्माभिः कल्पिताः तेषां प्रतिमाः निषेद्धं तिरस्कर्तुं वा ते कदाचिदपि नैव उत्तिष्ठन्ते । अथ च, श्रेष्ठतरसृष्टेः निर्माणापेक्षया कीर्तिमन्दिराणां रचना नितान्तं सुकरा । तस्मात् यदा सः सर्वांशैः अस्तं गतवान् वर्तते अधुना तदा वयं निःशङ्कतया शिक्षयिष्यामः अस्मदीयसन्तानान्, यत् ‘सः धीरोदात्तो नायक आसीत्' इति । यद्यपि वयं जानीमहे यत् सः यस्मै प्रयोजनाय निजजीवनं गमयामासिवान् तत् प्रयोजनं तु अद्यापि तथैव-[ असिद्धं अनिराकृतं च ]- स्थितं वर्तते । यस्य स्वप्नस्य च सिद्धयर्थं सः वीरोचितं मरणं स्वीकृतवान् तत् स्वप्नस्तु अद्यापि स्वप्न एव विद्यतेमृतस्य मनुजस्य स्वप्नः !
अनुवादक:- विजयशीलचन्द्रसूरिः
BOROWDROPORQ20202020202020202020202020202
Page #45
--------------------------------------------------------------------------
________________
आस्वादः
संसार: !
एकं घटनाचक्रम् ॥
ईप्सितानामनीप्सितानां, निश्चितानामनिश्चितानां च घटनानां चक्रम् ।
घटना यथा सङ्घटयन्ति तथा विघटयन्त्यपि च ।
यदैकत्र सङ्घटनं भवति तदा ततोऽन्यत्र विघटनमपि भवत्येव । यथा - यद्येकत्र वल्मीकं क्रियते तदाऽन्यत्र गर्ताऽपि जायत एव ।
न घटनाः परिवर्तन्ते अपि तु पुनरावर्तन्ते, मानवानामेव किन्तु परिवर्तनं भवति ।
संसारे जीवनेऽपि च पुनरावर्तनं भवति सततं घटनानाम् । तदेव च दर्शयति यद् - अस्ति मनुष्येषु बुद्धिः, न किन्तु बोध: कश्चित् ।
भिन्न-भिन्न घटना काश्चिदन्या किन्तु जीवनस्य शिक्षणार्थं भिन्न-भिन्नानि प्रकरणानि सन्ति। घटनाजन्यं सुखं दुःखं वा त्वस्माकं मनसो रुच्यरुच्योश्च परिणामोऽस्ति । तच्चाऽत्यन्तं स्थूलः परिणामः तस्या: । वस्तुतस्तु घटना: शिक्षयन्ति आन्तरिकं च बोधं जागरयन्ति । सुखिनो वा दुःखिनो वा यदा वयं भवामस्तदा त्वस्माकं चित्ते केन्द्रवर्ती स्वार्थ एव विद्यते । स च स्वार्थो यदा पुष्टो भवति घटनाभिस्तदा वयं सुखमनुभवामः यदा च क्षतो भवति तदा दुःखमनुभवामः ।
यतः स्वार्थस्तु वर्तमानमेव लक्षयति । यदा च वयं बोधं प्राप्नुमो घटनाभ्यस्तदा विद्यतेऽस्माकं चित्ते स्वहितम् । हितं च जीवनं लक्षयति ।
बहुलतया संसारस्था आत्मानः सुखिनो वा दुःखिनो वैव भवन्ति किन्तु शिक्षणं बोधं वा न प्राप्नुवन्ति । अत एव च घटनानां पुनरावर्तनं भवति । संसारोऽपि चैवमेवाऽनुवर्तते ।
कालः किलाऽगम्यपारोदधितुल्योऽस्ति । अनन्तैरात्मभिः सम्बद्धा अनन्ताश्च घटना अस्मिन्नवहन् प्रवहन्ति चाऽस्खलितम् । घटनानुषङ्गिकाणि सुखानि दुःखानि चाऽप्यस्मिन्नेव
चिन्तनधारा
- मुनिरत्नकीर्तिविजयः ।
३६
Page #46
--------------------------------------------------------------------------
________________
कालोदधौ विलीनानि जातानि । अनेकाश्च सुखदा दुःखदाश्चाऽनुभवाः कालमाश्रित्य परिवर्तमानानामस्माकं स्वार्थानां मध्ये विध्वस्ताः । अन्येषां जीवनमाश्रित्य घटिता घटना अपि विस्मृताः स्वकीये च जीवने प्रवृत्ता घटनाश्चाऽपि स्मृतिशिष्टाः सञ्जाताः सन्ति ।
घटनाश्चिरंजीविन्यः सञ्जायन्ते शिक्षणेन सद्बोधेन वा । सुखं दुःखं वा त्वत्यन्तं क्षणिकोऽल्पजीवी च तज्जातोऽनुभवोऽस्ति ।
अस्तु रामायणं वा महाभारतं वा, तदप्यन्ततोगत्वा घटना एव खलु । तद्धटनाकाले तत्पश्चाच्च तत्कालीनलोकमानसस्य स्थितिः कीदृशी जाताऽऽसीत्, तत्त्वनुभवेन कल्पनया च ज्ञातुं शक्यम् । किन्तु, अद्य तु साऽपि घटना इतिहासरूपेणैव प्रसिद्धाऽस्ति । ___ घटनाकाले तत्पश्चाच्च सानुकूलं प्रतिकूलं वाऽनुभवन् मनुष्योऽपि, स्वजीवने यदा स्वार्थो मुख्यायते तदा, सर्वमन्यत् विस्मृत्य स्वकार्ये एवोद्युक्तो भवति तथा, यथा न किञ्चिदपि घटितमेव ! तस्यैवैतद् परिणामं यद् रामराज्यस्य सत्याचरणस्य वा वार्ताः तु इतिहासस्य पृष्ठेष्वेव स्थिता विराजन्ते । किन्तु मानवीयजीवने तस्या गन्धलेशोऽपि प्रायो नाऽन्वभूयते वर्तमानकाले। कदाचित् कतिषुचित् स्थलेषु संस्काराणां संस्कृतेश्च वार्ता विधानं च श्रूयेतेऽपि किन्तु कुत्राऽस्त्याचरणम् ?
किंप्रमाणा घटना इत्यस्यैव नास्ति महत्त्वं किन्तु कियन्मात्रां संवेदनां साऽस्माकं जागरयति इत्यत्राऽस्ति परिवर्तनस्याऽऽधारः।
या घटना संवेदनां न स्पृशति प्रत्युत मन एव मर्यादां करोति, सा भवतु घटना कियत्यपि बृहती, रामायणतुल्याऽपि महाभारततुल्याऽपि वा, किन्तु सा स्वल्पमल्पकालीनं च सुखं दुःखं वोत्पादयति किन्तु न कश्चित् फलविशेषं सा प्रदत्ते । जीवनं परिवर्तयितुं तु न सा शक्नोति । या च संवेदनां स्पृशति घटना सैव बोधं जागरयति जीवनं च परिवर्तयति। ___ अस्माकं संवेदना कुण्ठिता नष्टप्राया च सञ्जाताऽस्ति, तत्त्वाश्चर्येण सहाऽऽघातजनकमप्यस्ति । एको युग आसीत् यदा मस्तकोपरि एकमपि श्वेतं कुन्तलं दृष्ट्वा तं च यमस्य दूतं मत्वा जीवनं प्रति जनाः सावधानाः समजायन्त, मनोहरमपि सन्ध्यारङ्गं पवनेन विशीर्णं जातं पश्यन्तः सन्तः संसारात् पराङ्मुखा अपि ते भवन्ति स्म; वसन्तसमये पत्र-पुष्प
३७
Page #47
--------------------------------------------------------------------------
________________
फलादिभिः समृद्धमपि वृक्षं शरदृतौ शुष्कं काष्ठप्रायं च सञ्जातं निरीक्ष्य तेषां संसारस्याऽनित्यताया भानं जायते स्म । इत्यादिभिः, ये चाऽस्माकं मनसि सामान्या एव प्रतिभान्ति, तैः प्रसङ्गैरपि राज्यादिपर्यन्तां सर्वामपि सम्पदं क्षणेनैव त्यक्त्वा परमनिरीहा भूत्वा साधुवृत्तं स्वीकर्तुं प्रवर्तन्ते स्म।।
प्रत्येकं परिस्थितेर्घटनाया वा स्वकीयं सत्यं विद्यत एव । तदेव च सत्यं तान् तादृशान् जागृतसंवेदनान् जनान् स्वाभिमुखान् जीवनं च प्रति सावधानान् विधत्ते।
इदानीं तु न केवलमेतादृश्योऽपि त्वेताभ्योऽप्यधिका अनेका घटना नित्यं घटन्ते एव। शोभना अपि घटन्तेऽशोभना अपि । यद्यस्त्यस्माकमभिगमः स्वार्थलक्षी तर्हि किञ्चित् सुखं वा दुःखं वा निष्पाद्य घटना विस्मृता भविष्यति । यदि नास्ति कोऽपि सम्बन्धो घटनया सहाऽस्माकं तर्हि खेदं वाऽनुकम्पनं वा सा जनिष्यति । किन्तु यदि नामाऽस्ति जीवनलक्षी अस्माकमभिगमस्तहि या काऽपि घटना भवतु लघीयसी वा बृहती वा, अस्माभिः सम्बद्धा वाऽसम्बद्धा वा, सा संवेदनां झङ्कत्याऽस्मान् सत्यं सन्मार्ग वा प्रति नेष्यत्येव ।
परोक्षस्य का वार्ता ? अस्मदृष्टिसमक्षमपि कति कति घटना घटिताः ? ता अपि, वायुयानस्य स्यात् बस्यानस्य वा स्यात् रेल्यानस्य वा स्यात्, विस्मृति प्राप्ताः, विश्वयुद्धस्य करालाऽपि घटना इतिहासस्थैव सञ्जाताऽधुना, अतिवृष्टि-दुर्भिक्ष-भूकम्पादीनामाघातोऽपि विलीनो जातः, अरे! नेपालदेशस्य सम्प्रत्येव घटितो नृशंसोऽपि हत्याकाण्डः किं स्मृतिशेषो न सञ्जातो लोकमानसात् ?
एवमपि भवति बहुशो यद् घटनाभिर्निष्पन्नो रागो वा द्वेषो वा मानसे स्थिरो भवति किन्तु बोधस्य जागृतेर्वा का कथा? सुखस्य दुःखस्य वा भाव एव नास्ति संवेदना किन्तु जागृतिः प्रबुद्धत्वं चाऽस्ति संवेदना ।।
एतादृश्या संवेदनाया आधिपत्यं किं नामाऽस्माकं न सम्भवेत् ननु ? 'कदा?' - इति तु संशोध्यं सञ्चिन्त्यमस्माभिरेव यथाशीघ्रम् ।
eGo
३८
Page #48
--------------------------------------------------------------------------
________________
आस्वाद
किमर्थमेतावती अधोगतिः ?
मुनिधर्मकीर्तिविजयः । दृश्यतेऽधुना खलु सर्वत्र पतनमेव । न निरीक्ष्यते कुत्राऽपि पतनं विना किमपि । दृग्गोचरीभवति देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य चेति सर्वस्याऽपि क्षेत्रस्याऽधोगतिरेव।
किं कारणमत्र?
अद्यपर्यन्तं बहु श्रुतं, बहु दृष्टं तथा बह्वनुभूतमपि । तत एतदनुभवेन मयाऽस्य पतनस्य कारणं चिन्तितं- "परस्परं दोषाणामाच्छादनवृत्तिस्तथा पक्षपातवृत्तिश्चेति।"
अत्र प्रथमकारणस्य मूलस्य यदा विमर्शः क्रियते तदा विज्ञायते यद् राजकीयक्षेत्रे सामाजिकक्षेत्रे धार्मिकक्षेत्रे वा सर्वत्र तव दोषो मयाऽऽच्छाद्यते तथा त्वया मे दुर्गुणः आवियते इत्येकैव पद्धतिः प्रचलति ।
सर्वेषामपि क्षेत्राणामधिकारिणोऽग्रणीजनाः मान्यजनाश्च सदाऽहङ्कारपुष्ट्यर्थं स्वसन्मानार्थमात्मख्यात्यर्थं प्राप्तपदस्य रक्षणार्थं चैव प्रयतन्ते । स्वयमाचरिताः अनर्थाः दुष्टकार्याणि च न ज्ञायन्ते केनाऽपि, तदर्थ च सर्वदा जागृताः सावधानाश्च भवन्ति ते । तथैवोपर्युक्ताः तेऽधिकारिणः सदा सज्जनेभ्यो दूरमेव तिष्ठन्ति,प्रत्युताऽऽत्मनः प्रंशसाकारिभिः मिथ्याप्रशंसकैश्च सहैव मैत्रीभावं विरच्च्य दोषाच्छादने कुशलान् जनानेव स्वस्याङ्गगतान् निकटवासिनश्च कुर्वन्ति; यतः पश्चात् स्वेच्छाचारेणाऽऽचरितुं शक्नुवन्ति । एवमेतादृशाः निकटवासिनोऽपि सर्वदा स्वाधिकारिणां प्रशंसामेव कुर्वन्ति तथाऽधिकारिभिः विहितमशुभमपि कार्यं स्वकौशल्येन लोके प्रशंसनीयरूपेण प्रसिद्धीकुर्वन्ति। एवं दुर्गुणाच्छादनवृत्त्याः परम्परया दुर्गुणवृद्धिरेव भवति। ___ अथ स्वस्याऽधिकारिणः साहाय्येनोत्तराधिकारिणोऽपि स्वतन्त्राः भवन्ति । पश्चात्तेऽपि स्वेच्छानुसारेण निराबाधमनिष्टकार्यं कुर्वन्ति । अत्र न कोऽपि परस्परं "त्वया दुष्टं कृतमि"ति
३९
Page #49
--------------------------------------------------------------------------
________________
वक्तुं समर्थो भवति, यतो द्वयोरपि चित्ते मलिनवृत्तिः पापं चाऽस्ति । एषा प्रणालिकाऽस्माभिरनुभूयते एव यद् राजकीयक्षेत्रे शैक्षणिकक्षेत्रे धार्मिकक्षेत्रे वा तस्य तस्य क्षेत्रस्य नियमविरुद्धं लोकविरुद्धं चाऽसभ्यवर्तनं यदि नाम कोऽपि कुर्यात् तदा तस्य कार्यस्य विरोधी यदि जनैः क्रियेत तथाऽपि तत्क्षेत्राधिकारी तमसभ्यवर्तनं कुर्वन्तमधिकारिणं न किमपि कथयितुं समर्थो भवति; यतोऽद्यपर्यन्तं तेनाऽप्येवमेव कृतम् । यदि चेत्तेन विरोधः क्रियते, तदा तस्योत्तराधिकारिणो मनसि द्वेषः उत्पद्यते । तथा च सति स उत्तराधिकारी तस्य क्षेत्राधिकारिणोऽनिष्टकार्यं समाजे लोके च प्रसिद्धयेत् तर्हि तस्याऽयशो भवेत् प्रत्युत स्वपदात् भ्रष्टो भवेदिति भीत्या न किमपि करोति न च कारयति सः क्षेत्राधिकारी । सर्वेष्वपि क्षेत्रेषु "कनिष्ठो ज्येष्ठस्य, ज्येष्ठः कनिष्ठस्य च ' ' इति सर्वेऽपि अधिकारिणः परस्परं दोषाच्छादनं कुर्वन्ति ।
एतादृक्कार्यकरणे नाऽन्यत् किमपि कारणं, किन्तु स्वार्थबुद्धिरेव एतादृशमशुभं कार्यं कर्तुं प्रेरयति । मया तस्य साहाय्यं न क्रियेत तदा भविष्यत्काले मदीये कार्ये सोऽपि साहाय्यं न करिष्यतीति अस्मांक तुच्छया स्वार्थबुद्धया समस्तस्याऽपि समाजस्य राज्यस्य कुटुम्बस्य वाऽतीवाऽहितं भवति। अस्माभिः क्षणिकसुखार्थं स्वस्य महत्त्वाकाङ्क्षायाः पुष्टयर्थं आत्मनः पदप्रतिष्ठार्थं च देशादीनामवहेलना क्रियते किन्तु एतन्नोचितम् ।
किञ्च - दोषाच्छादनस्य प्रवृत्त्या भवत्येवं यत् सर्वत्र दुष्टवृत्तिरेव प्रसरेत्, तथैव सर्वेष्वपि क्षेत्रेषु विपुलप्रमाणेन दुर्जनानामेव वृद्धिः भवेत् । ततः सदा सज्जनाः शिष्टपुरुषाः सत्कार्यकरणात् सर्वजनहितार्थप्रवृत्तेः दूरमेव संतिष्ठेरन् अथ कदाचित् यदि नाम कोऽपि शिष्टपुरुषः कस्यापि दुर्जनस्य दुष्टकार्यं निरोद्धुमुत स्वयं सत्कार्यं कर्तुं प्रवृतिमान् भवेत् तर्हि स दुर्जन: तस्य परिहासं कुर्यात्,असत्यमाक्षेपादिकमारोप्य तस्य दुर्गुणानेव मृगयेत । प्रान्ते तं सज्जनं- शिष्टपुरुषं तत्क्षेत्राद् बहिःकर्तुमेव सदा प्रयत्नं कुर्यात् ।
एवं च सति प्रतिष्ठितपुरुषाणां सज्जनानां चित्ते कदाचिदशुभविकल्पाः उद्भवेयुः यद् “मयाऽद्यपर्यन्तं सत्कार्यमेव कृतं, देशस्य समाजस्य हितकरकार्येष्वेव सदा सहयोगो विहितः तथाऽपि ममोपेक्षैव भवति, अवगणनैव भवति । तथा च तैः दुर्जनैः सदा देशस्य समाजस्य
4
४०
Page #50
--------------------------------------------------------------------------
________________
धर्मस्य च विद्रोह एव कृतः दुष्टमेव कार्यमाचरितं, तथाऽपि तेषामेव प्रशंसां कुर्वन्ति, तानेव पूजयन्ति सन्मानयन्ति च जनाः ततो मयाऽप्येवमेव करणीयमि"ति । एवं सज्जना अपि कदाचिद् दुर्भाग्यबलेन दुष्टकार्य प्रशस्य तदशुभकार्येषु सहयोगं दद्युः तर्हि सर्वत्र सज्जनानामभाव एव भवेत् ।
अतो यद्यत्र दुष्टपुरुषाः अयोग्यजना वा एव सर्वेषामपि क्षेत्राणामधिपतयो भवेयुः तर्हि तत्क्षेत्राणां विकासः कथं संभवेत् ? एतादृस्थितौ अशक्य एव विकासः । एवं च तावद् देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य च पतनमेव भवेद् यावत् परस्परं दोषाच्छादनवृत्तिः विद्यते।
अथ द्वितीयकारणे दृष्टिपात:
भारतदेशस्य राजकीये शैक्षणिके क्रीडाक्षेत्रे धार्मिकक्षेत्रे चेति कस्मिन्नपि क्षेत्रे न पक्षपातः संभवेदिति अशक्यम् । एतेषु क्षेत्रेषु प्रधानाधिकारिभ्यः आरभ्य चरमाधिकारिपर्यन्तं सर्वेऽपि
अधिकारिणः पक्षपातवृत्तिं धारयन्ति । ___अधुना त्वीदृशी स्थितिः वर्तते यद् चेत् युष्माकं कैश्चिदपि अधिकारिभिः सह सम्बन्धः स्यात् तर्हि कस्याऽपि क्षेत्रस्य महदपि कार्यमस्खलितं सरलतया च भवेत् किन्तु न भवेत् सम्पर्कः तर्हि सामान्यमपि कार्यं धनराशिव्ययेनाऽतीव परिश्रमेण चाऽपि न सिद्धयेत् । एषा वृत्तिः सर्वत्र निराबाधं प्रचलति । तत एवाऽधुना वयं सर्वेषु क्षेत्रेषु दरिद्राः किङ्कराश्च स्मः।
एतस्याः पक्षपातवृत्तेः एकं सूत्रमस्ति- यान् प्रति सद्भावो ममत्वमस्ति, तादृशां प्रियजनानां दुर्गुणा अपि गुणत्वेन दृश्यन्ते तथाऽप्रियजनानां गुणा अपि दुर्गुणरूपत्वेन निरीक्ष्यन्ते। अधुनाऽपि तत्सूत्रस्याऽनुसरणं सर्वत्र सर्वैः क्रियते, तत एवाऽधुना तस्य क्षेत्रस्याऽधिकारिणः शक्तिविहीनानज्ञजनानपि स्वस्य सम्बन्धिन एवोत्तराधिकारिरूपेण स्थापयन्ति । एवं भूते सति पक्षपातवृत्तेः वशात् देशे समाजे च स्थितानां शक्तिसम्पन्नानां बुद्धिमतां जनानां च चातुर्यस्य शक्तेश्च यथार्थमुपयोगो न भवति । एवं पक्षपातवृत्त्या सर्वेष्वपि क्षेत्रेषु प्रेक्षावन्तः शिष्टजनाश्च किङ्करत्वमनुसरन्ति । तथा दुष्टजनाः अशिक्षिताः निम्नजनाश्चोत्तमपुरुषाणामुपरि शासनं कुर्वन्ति । उत्तरप्रदेशे एतवृत्तिः प्रत्यक्ष प्रमाणीभूयते एव । अहो ! एष को न्यायः?
४१
Page #51
--------------------------------------------------------------------------
________________
किञ्च-कथं परदेशीयाः अस्मभ्योऽधिकं शक्तिसम्पन्नाः ? ' तत्र जना: विशिष्टबुद्धिमन्तो दृष्टिसम्पन्नाश्च तेषु देशेषु विपुलानि अद्यतनसाधनानि सन्ति' इति वयं मन्यामहे, किन्तु सा तु भ्रमणा । अस्माकं देश: सर्वदृष्टया समृद्धः तथा जना अपि प्राज्ञाः सन्ति । तथा न च तेभ्योऽस्माकं शक्तिः न्यूना न चाऽस्मदीयाः जनाः दृष्टिविकलाः, न च तेभ्यो न्यूनानि साधनानि। सर्वप्रकारेण अस्माकं देशो महानस्ति । तथापि कथं वयं हीना: ? सर्वक्षेत्रेषु दरिद्रा: ?
एकमेव कारणं, विवेकशून्यत्वमिति । अस्माकं देशे भारते व्यक्तिस्थितगुणस्य तन्निष्ठशक्तेश्च न पूजा, अपि तु व्यक्तेः । अन्यदेशे तु व्यक्तिनिष्ठशक्तेः आदरोऽस्ति । तत्र कनिष्ठजनैरपि यदि शुभं कार्य कृतं स्यात्तर्हि तेषां यथार्थ सन्मानं प्रोत्साहनं चाऽपि क्रियते, एवं कदाचिद् राजप्रधानैरपि अपराधः कृतः स्यात्तर्हि तेषामप्युचितो दण्डो भवत्येव । अस्माकं देशे खलु विपरीतवर्तनमस्ति । केवलं पक्षपात एव दृश्यन्ते । उच्चस्थाने स्थितैः प्रधानपुरुषै: कृतो महानपि अपराध: क्षम्यः तथा च सामान्यजनस्य सूक्ष्मोऽपि अपराधोऽक्षम्यः । कियत्कालं पूर्वमेवाऽस्माभिरनुभूतम् । यदा गुर्जरदेशे भूजादिनगरेषु भूकम्पोऽभूत्, तदा सामान्यजनैः अत्यन्ततुच्छजनैरपि स्वशक्त्या भूकम्पपीडितजनानां धनेन शरीरेण च साहाय्यं कृतं, किन्तु परमस्थाने विलसद्भिः अधिकारिभिः किं कृतम् ? न काचिदपि स्वकीया सेवा कृता, किन्तु अन्यैः जनैः तेषां पीडितानां साहाय्यार्थं यद्वस्त्रं धनं खाद्यवस्तु च दत्तं तत् सर्वमपि वस्त्रादिकं तैः स्वयमेव भूकम्पपीडिताः इत्येवं मत्वा निर्लज्जं निर्दयं स्वगृहे पूरितम् । एतत्तु सर्वेऽपि जनाः जानन्त्येव; तथाऽपि ते निर्दोषाः ? पुनः ते एवाऽस्माकं रक्षका: ? महदाश्चर्यं जायते । एतद्वृत्त्यैवाऽस्माकं देशः सर्वेभ्यः सर्वदृष्टया हीनो दरिद्रश्चाऽस्ति ।
किञ्च प्राय: अधुना विदेशेषु प्रमुखसंस्थायां भारतीया एव अग्रगण्याः सन्ति । लभ्यते वैदेशिकैः अस्माकं पक्षपातवृत्तेः लाभः । ते भारतीयसंस्थाभिः तिरस्कृतशिक्षितजनान् बुद्धिमतः स्वदेशे विविधैः प्रलोभनैः आकर्षन्ति । एतदेवाऽस्माकं दुर्भाग्यं यत् अस्माकमेव प्राज्ञपुरुषाणां उपयोगो न क्रियतेऽस्माभिः । अतः एतस्याः पक्षपातवृत्त्याः देशे समाजे दुर्बला: अज्ञा: दुष्टजनाश्चैवाऽधिकारित्वमनुभवेयुः तर्हि कथं भवेत् विकास: ?
४२
Page #52
--------------------------------------------------------------------------
________________
प्रान्ते मूलतो यदि दोषाच्छादनवृत्तिः पक्षपातवृत्तिश्च न नश्येतां तहि देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य चोन्नतेः कल्पनाऽपि न शक्या, अपि तु मृगतृष्णैवाऽस्ति । अस्माकं अधोगतिरेव तावद् यावदेते द्वे वृत्ती अस्माभिः पुष्येते ।
eGo
- एका शुध्दिः प्राक्तन्यां शाखायां 'दधातु तुष्टिं मयि विस्तरो गिराम्' इति लेखे तीर्थकराणां पञ्चत्रिंशद् वाणीगुणा: वर्णिताः सन्ति । तत्र अष्टाविंशतितमो गुण: "अद्भुतत्वम्" इतिनामा अस्ति । तत्स्थाने विदुषामभिप्रायेण "अद्रुतत्वम्" इत्यस्माकं उचितः प्रतिभाति । यतस्तदनन्तरो हि गुणः "अनतिविलम्बिता'' इतिनामा अस्ति । तत्सहावस्थानेन च अयं गुणः "अद्रुतत्वम्" एव भवितव्यः । तद्भावार्थश्चैवम् -
अद्रुतत्वम् द्वयोः शब्दयोर्वाक्ययोश्च उच्चारणे त्वराविरहितं जिनपुङ्गवानां प्रवचनभणितं भवति । यतो यदि तत्र त्वरा भवेत् तदा श्रोतृणां सम्यक् श्रवणं न भवेत् । तथा तदर्थबोधोऽपि न भवेदिति ।
Page #53
--------------------------------------------------------------------------
________________
ॐ58
आस्वादः प्रभुमहावीरस्य करुणागर्भिता साधना ।
मुनिधर्मकीर्तिविजयः। आत्मनो विशुद्धगुणानां प्रकटीकरणार्थं या क्रिया सा साधना। आत्मनो गुणैः सह तादात्म्यभावमवाप्तुं यो प्रयत्नः क्रियते स साधना। आत्मन आत्मना सह मिलनमिति साधना। आत्मनो निरीक्षणमिति साधना। यया कयाऽपि प्रवृत्त्या क्रियया चाऽऽत्मनो हितं साध्यते सा साधना।
यया शुभप्रवृत्त्याऽपि केषाञ्चिदपि जीवानामहितमशुभं वोद्भवति सा प्रवृत्तिः न कथ्यते साधना, अपि तु केवलं क्रियाकाण्डमेव । __ साधनां साधयितुं तस्याः पूर्वाभ्यासः आवश्यकोऽस्ति । एतत्तु वयं सर्वेऽपि जानीमहे यद्विश्वस्य सर्वेष्वपि क्षेत्रेषु तत्कार्यस्याऽनुभवं विना दुःशक्या कार्यसिद्धिः । यदि चेद्विमानचालकः (पायलोटः) पूर्वानुभवमृते विमानयानमुड्डयेत तर्हि स आत्मना सहाऽन्येषामपि जीवानां घातं कुर्यात्, ततोऽनुभवाभ्यासोऽवश्यं पालनीयः । तथैव यस्याऽस्ति स्पृहांऽऽग्लवैद्यो भवितुं तेन बहुवर्षपर्यन्तमदृष्ट्वा रात्रिदिवं वाऽभ्यासः करणीयः । तत्पश्चाद् यावद्वर्षद्वयमांग्लवैद्यस्य अभ्यासस्याऽनुभवोऽभ्यसनीयः । तत्र यदि चेदुत्तीर्णो भवेत्तहि स आंग्लवैद्यरूपेण विख्यातो भवति । तथैवाऽत्रापि साधनायाः अभ्यासोऽप्यवश्यमेव कर्तव्यः ।
"एवं भवेत्तर्हि कथं दीक्षायाः पश्चात् क्षणार्धेनैव कुटुम्बपरिवारभोगविलाससुखादिसर्वमपि तथा सर्वथा शरीरस्य रागमपि निराकृत्य श्रीमहावीरविभुः उत्कृष्टसाधनां हस्तगतां कर्तुं समर्थीभूतः" इति केषाञ्चिन्मनसि प्रश्न उत्पद्यते । तदा तैरेवं ज्ञेयं यन्महावीरप्रभोः उत्कृष्टसाधनायाः मूले पूर्वषड्विशतिभवानां कृता साधना समाविष्टाऽस्ति। प्रथमभवादारभ्य षड्विंशतितमभवपर्यन्तं क्रमशः प्रत्येकं भवेषु आध्यात्मिकदृष्ट्या भगवत आत्मसाधनायाः विकास एव दृश्यते । तद्वशादेवाऽन्तिमभवे उत्कृष्टसाधना सहजीभूता।
सप्तविंशतितमभवेऽपि गर्भावासे एव भगवता साधनायाः प्रारम्भोऽकारि। "न भवेन्मातुः
४४
Page #54
--------------------------------------------------------------------------
________________
दुःख' मिति मत्वा श्रीमहावीरभगवान् चलनस्पन्दनरूपं सर्वमप्यङ्गव्यापारं संहृत्य निश्चलीभूतः । तदा गर्भस्य निष्पकम्पं निरीक्ष्य माता त्रिशलादेवी व्याकुला जाता, तथाऽत्यन्तमार्तध्यानं प्राप्तवत्यपि । ततो विभुना मातुरेतादृशीं स्थिति ज्ञात्वाऽङ्गस्पन्दनं कृतं, तथा तदैव संकल्पोऽपि स्वीचकार स्वयमेव यन्मातरपितरयोरुपस्थितौ न दीक्षा प्रतिपत्तव्या मया।
एतेनाऽपि प्रसंगेन ज्ञायते यत् प्रभोः चित्ते कीदृशी करुणाऽऽसीत् । सूक्ष्माऽपि क्रिया न तादृशी करणीया यया भवेद दुःखी कोऽपि । तथैव गर्भावासत आरभ्य यावद्दीक्षापर्यन्तं संसारे स्थित्वाऽपि केनाऽपि सह न रुचिः अरुचिर्वा, रागो द्वेषो वा संघर्षो वा कृतः; एतादृशी न काऽपि प्रवृत्तिरादृता यतः केषाञ्चिदपि जीवानां चित्ते ग्लानिरपि भवेत्, एषैव साधना । अत्र सर्वस्यामपि घटनायां पूर्वभवानां साधनाया एव प्रभावः । अन्यथा पूर्वभवानां साधनामृते दीक्षायाः पश्चात् क्षणमात्रेणैवैवंरीत्या सहजभावेन ममतां कुटुम्बमोहं राज्यसुखं च विहाय समतायाः साधनाऽशक्या।
श्रीमहावीरविभोः साधना करुणागर्भिताऽऽसीत् । करुणां विना साधना अशक्या । करुणैव जिनशासनस्य साधनायाश्च मूलमस्ति। दया अनुकम्पा चेत्यभिधानेनाऽपि करुणोद्घष्यते। आस्तां मनुष्यादिकं प्रत्यपि तु सूक्ष्मादपि सूक्ष्मजीवं प्रत्यात्मीयतैव करुणा। अपराधिषु जीवेष्वपि न प्रातिकूल्येन वर्तनं करुणा।
सर्वैः जीवैः स्नेहिनः उपकारिणश्च जनान् प्रति तु करुणा विधीयते, किन्तु विरोधिनो निन्दकानपकारिणोऽवहेलनाकारिणश्च जीवान् प्रत्यपि करुणा करणीया, मनसाऽपि च नैतेषां जीवानामशुभचिन्तनं कार्यम् । एतत्तु केवलं जिनशासने महावीरस्य साधनायां चैवोपलभ्यते, नान्यत्र कुत्रचिदपि । भगवत ईदृशी करुणैव विश्वे तथा निखिलदर्शनेष्वपि जिनशासनस्य सर्वोपरित्वं प्रमाणीकरोति ।
न करुणां विना धर्माराधना साधना च शक्या । तथाऽपि यद्यत्र भोगसुखार्थं स्वर्गार्थं पुत्रादीष्टसिद्धयर्थं धर्मार्थं च जीवानां हिंसा क्रियेत तत्र धर्मः कथं स्थीयते ? यस्य मूले केवलं हिंसैव विद्यते स कथमपि कदाऽपि धर्म इति न व्यपदिश्यते । करुणारूपं मूलमेव
४५
Page #55
--------------------------------------------------------------------------
________________
नास्ति यत्र तत्र कथमुद्गच्छति साधनावृक्षः? तत एव भगवताऽऽद्यं करुणाऽऽदृता। प्रभोरेतदेव
वैशिष्ट्यमन्येभ्यो भिन्नं यत्प्रथमं तेनाऽऽचरणं कृतं पश्चादुपदेशो दत्तः। ____ भगवतां संपूर्णजीवने करुणायाः एव वैशिष्ट्यं दृश्यते । प्रथमे नयसारभवे मार्गभ्रष्टमुनीनां द्रव्यदया कृता, तत्प्रभावेण सम्यक्त्वं तथा तीर्थकरत्वस्य बीजमपि प्राप्तम् । एवं अन्तिमभवे करुणायाः परमोत्कर्षः संलक्ष्यते। ततो भगवतां करुणागर्भितायाः साधनायाः सर्वोत्कृष्टत्वं दर्शयन्नेकः प्रसंगः सार्यते -
एकदा ग्रामानुग्रामं विहरता श्रीमहावीरभगवता दृढभूमौ 'पेढाला' भिधानग्रामस्य बहिः पेढालोद्याने पोलासचैत्येऽपानकोपवासत्रय (अट्ठमभक्तप्रत्याख्यान) पूर्वकं एकरात्रिकी महाप्रतिमाऽऽरब्धा।
तदा सौधर्मेन्द्रसभायां सिंहासनासीनो देवेन्द्रो विभुं प्रेक्ष्य तत्क्षणमेव नमस्कृत्य स्तोतुं प्रवृत्तः । “भो ! भो ! त्रिदशाः ! एष भगवान् महावीरप्रभुः शङ्ख इव निरञ्जनः, गगनमिव निरालम्बनः, समीरण इवाप्रतिबद्धः, सागरसलिलमिव शुद्धहृदयः, पुष्करपत्रमिव निरुपलेपः, मन्दर इव निष्प्रकम्पः, भारण्डपक्षीवाऽप्रमत्तः, इहपरलोकेऽप्रतिबद्धः, जीवितमरणयोः निरवकाङ्क्षी विद्यत । एतं भगवन्तमेतद्धर्मध्यानात् संक्षोभयितुं न देवा अपि क्षमन्ते । कदाचिन्भेरुं चालयेत् किन्त्वेतं महावीरं तध्य्यानात् चालयितुं न केऽपि समर्था'' इति । ___ एवं श्रुत्वाऽहङ्कारनिधिः ईर्ष्याव्याकुलश्च संगमको नाम देव आह - भवान् कथमेवं वदति ! ये लीलया मेरुमप्युत्खनन्ति, तदर्थमेष कः ? ततः कथमप्येतं विभुं ध्यानात् संक्षोभयिष्यामीति प्रतिज्ञां कृत्वा तदैव भगवतः पमीपमागत्योपसर्ग कर्तुमारब्धवान् । तेनैकस्यामेव निशीथिन्यां भिन्ना भिन्नाः विंशतिरसह्या उपसर्गाः कृताः। __ प्रथमं प्रभोः निकटमागत्य प्रलयकालः इव प्रबलः पादादारभ्याऽक्षिपर्यन्तं धूलिनिवहो व्यकुर्वत् । तद्वशात् भगवान्निरुच्छवासो जातः । तथाप्यविचलितचित्तं ज्ञात्वा चण्डतुण्ड: पिपीलिकाविसरः कृतः । एवं तीक्ष्णमुखा: दंशाः विवृताः, नकुलाः कृताः, भुजगाः प्रसारिताः । एतैः विभोः संपूर्णः कायः चालनीकृतः । एवमनेके उपसर्गाः कृताः, किन्तु विभुं निश्चलं वीक्ष्य प्रान्ते प्रभ रुपरि मेरुगिरिमपि चूर्णीकर्तुं समर्थं कालचक्रं मुक्तम् । तथाऽपि ध्यानमग्न एव स्थितो भगवान् । ततश्चित्ते संगमस्याऽतीव कोपः संजातः । एतादृशानां भीमोपसर्गाणां
४६
Page #56
--------------------------------------------------------------------------
________________
कल्पनाऽपि कम्पयत्यस्मादृशान् जीवान् तादृशाः विंशतिः घोरोपसर्गा एकस्यामेव क्षपायां कृताः तेन संगमेन।
तथाऽपि न जाने किं न तस्य चेतसि संतोषो जातः, ततस्तेनाऽभव्येन दुष्टसंगमेन पुनरुपसर्गा आरब्धाः । यदा यदा भगवान् भिक्षार्थं गतवान् तदा तदा तेनाऽऽहारोऽनेषणीयः कृतः; एवं षण्मासपर्यन्तं कृतम् । ततो भगवता जलमाहारं च विना षण्मासकालो व्यतीतः ।
प्रान्ते भूर्युपसगैरपि भगवन्तमविचलितं ज्ञात्वा भग्नाहङ्कारः संगमः देवेन्द्रभयात् प्रभुपादयोः पतित्वा "प्रभो ! मेऽपराधः क्षन्तव्यः' इति प्रार्थितवान् । एवं विभुं प्रणम्य स्वर्ग प्रति प्रस्थितः संगमः।
एतत्प्रसङ्गेन ज्ञायते करुणागभितायाः साधनायाः माहात्म्यम् । नैकेष्वुपसर्गेषु कृतेष्वपि तस्य मनसाऽप्यशुभं न चिन्तितं, अलं वचसा कायेन च । अत्रैतदेव ज्ञेयं यत् श्रीमहावीर रनन्तशक्तेः अपूर्ववीर्यस्य च स्वामी आसीत् । येन अङ्गुष्ठमात्रेण लीलया मेरुगिरिरपि प्रकम्पितः तहि तदर्थं एष संगमस्तु तृणसन्निभः आसीत् । तथाऽपि तस्य नाऽशुभं कृतं कारितं च । शक्तौ सत्यामपि न करणीयमन्येषां प्रातिकूल्यमेतदेव प्रभोः यथार्थसाधनायाः रहस्यमस्ति । प्रभोः नाऽत्र करुणा स्थगिताऽपि त्वितोऽप्यधिका करुणाऽत्र दृश्यते यद्यदा संगमः क्षमा याचित्वा स्वर्गं प्रति गतवान् तदा प्रभोः नयनाभ्यां जलबिन्दुः निःसृतः, यतो मदीयं सांनिध्यं प्राप्नुवन्तो बहवो जीवाः शिवङ्गताः किन्तु केवलमेष संगम एव बोधिं न प्राप्तवान्। अहो ! श्रीमहावीरप्रभोः करुणा, अहो! श्रीमहावीरविभोः साधना। प्रभोः एतादृश्याः करुणायाः वर्णनं निरूपयन् कलिकालसर्वज्ञपूज्यपादश्रीहेमचन्द्रसूरीश्वर आह -
कृतापराधेऽपि जने कृपामन्थरतारयोः । ईषद्बाष्पाभ्योभद्रं श्रीवीरजिननेत्रयोः॥
एवं यत्र करुणा तत्रैव साधना शक्या । करुणाविहीनायाः साधनायाः मूल्यं किञ्चिदपि नास्ति । अन्ते षड्विशतिजन्मशताब्दीवर्षे करुणागर्भितायाः साधनायाः पथदर्शकस्य श्रीमहावीरभगवतः चरणे कोटिशः प्रणिधानानि मे भवन्तु ।
४७
Page #57
--------------------------------------------------------------------------
________________
आस्वादः
तत्त्वज्ञः अतत्त्वज्ञः या ?
224888322880870888
-मुनिकल्याणकीर्तिविजयः जानन्ति केचिन्न च कर्तुमीशाः कर्तुं क्षमा ये न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कर्तुं ते केऽपि लोके विरला भवन्ति ॥
___ (हृदयप्रदीपषट्त्रिंशिका - २) इह हि वैचित्र्ययुते प्रपञ्चे बहवो विचित्रा - विचित्राशया - विचित्रकार्यकर्तृकाश्च जनाः समुपलभ्यन्ते । बहवश्च निजनिजचिन्तितं निजनिजविलसितं चैव निश्चप्रचं सत्यमुचितं चेति मन्वानाः स्वीयजीवनं यापयन्ति । आजीवनं च उचितानुचितयोः कार्याकार्ययोविवेकं कर्तुमशक्ता गतानुगतिकतया औरभ्रके प्रवाहे प्रवहन्ति । केचिदेव उचितानुचितविवेकं कर्तुं पारयन्ति । ततोऽपि स्तोका एव विवेकानुसारं निजवर्तनं समाचरितुं समर्थाः भवन्ति । अतः प्रायेण जगतो जीवाः सामान्यतश्चातुविध्यं भजन्ते । तथा हि -
१. केचिज्जनाः तत्त्वं जानन्ति तदनुसारं चाऽऽचरणमपि कर्तुं प्रभवन्ति । २. केचिज्जनाः तत्त्वं जानन्ति किन्तु तदनुसारं कार्यं कर्तुं न प्रभवन्ति । ३. केचित्तु तत्त्वानुसारं समाचरणं कर्तु शक्ता अपि तत्त्वं न जानन्ति । ४. बहवश्च तत्त्वमपि न जानन्ति तदनुगामिनो भवितुमपि न समर्थाः ।
इह हि तत्त्वं निजनिजभूमिकानुसारं भिन्नभिन्नव्याख्याभाक् भवति, तथाऽपि अत्र वयं सामान्यतः 'सम्यग् ज्ञानं' इति तस्य व्याख्यां कुर्मः । ततश्चाऽधस्ताद् उपरि पश्यामस्तदा लोकेऽत्र बहवो जनास्तथाविधप्रज्ञावैकल्यात् तत्त्वं नैव जानन्ति यावत् ते इदमपि न जानन्ति यत् 'तत्त्वं' नाम किञ्चिदस्ति जगति । तथा ते तथाविध शारीरिक-मानसिक-क्षमताविहीना अपि सन्ति अतोऽनाभोगेनाऽपि तत्त्वानुगामि आचरणं कर्तुमशक्तास्ते।
तथा, जनानां प्रभूतो भागस्तादृशः सुसज्जः शक्तिशाली चाऽस्ति यः तत्त्वानुसारं जीवितुं
४८
Page #58
--------------------------------------------------------------------------
________________
शक्तः, किन्तु स तत्त्वबोधं निजक्षमतां च नैव जानाति, अतोऽन्यासु दिक्षु महोद्यमं कुर्वतोऽपि तस्य सम्यग्ज्ञानानुगं समाचरणं न सम्भवति ।
केचित् तु जनाः यथाकथञ्चिद् निजबुद्धयतिशयेन शास्त्राद् गुरुमुखाद् वा यथास्थितं तत्त्वं सुतरां जानन्ति किन्तु तत् कर्तुं न प्रभवन्ति, यतो हि तथाविधया शारीरिक-मानसिकक्षमतया विकलास्ते।
तथा इह जगति विरला एव केचित् सन्ति ये तथाविधप्रज्ञोत्कर्षेण स्वयमेव तत्त्वं सम्यक्तया ज्ञात्वा, तत्प्राप्त्युपायान् विचार्य, तथोपायानुसारं आचरणं च कृत्वा तत्त्वं संसाधयितुमपि सक्षमाः । यदुक्तम् -
श्रेयोर्थिनो हि भूयांसो लोके लोकोत्तरे च न। स्तोका हि रत्नवणिजः स्तोकाश्च स्वात्मसाधकाः ॥ (ज्ञानसारः २३/५)
इयं तु तत्वज्ञमीमांसा कृता । अस्या आधारेण किञ्चिद् अतत्त्वज्ञसम्बन्धिविचारणमपि कुर्मः। ___एतद्विषयेऽपि चतुष्प्रकारा जना लोके दरीदृश्यन्ते -
१. अतत्त्वस्य ज्ञातारः तदनुसारं चाऽऽचरितारः । २. अतत्त्वस्य ज्ञातार: किन्तु तत् कर्तुमक्षमाः। ३. अतत्त्वस्याऽज्ञातारोऽपि तत् कर्तुं क्षमाः। ४. अतत्त्वस्याऽज्ञातारस्तदकर्तारश्च ।
इह लोके ह्यनादिकालाद् अकृत्यकरणसंस्कारवासितत्वात् प्रभूता जनाः अतत्त्वं - अनुचितकृत्यं कर्तुं सम्यक्तया जानन्ति, तथा निःशङ्कं हस्तलाघवेन च तद् आचरन्त्यपि।
केचित् तु अकृत्यं कर्तुं सम्यक्तया जानन्ति किन्तु मानसिक-दैहिक-सामाजिकआर्थिकादिसामर्थ्यविकलत्वात् तदाचरणेऽक्षमाः । इह द्वौ प्रकारौ संभवतः। पश्यामस्तावत् - १. येषां पार्वे धनं नाऽस्ति, अथवा ये शरीरशक्तिविहीनाः, अथवा आद्ययोर्द्वयोः सत्त्वेऽपि
ये धृष्टतादिगुण(?)सन्दोहरहितास्ते अकृत्यज्ञा अपि तदाचरणे न क्षमाः। २. केचित्तु एतैः सर्वैः कारणजातैरविकला अपि अनुचितकृत्यं कर्तुमक्षमाः । अत्राऽपि
४९
Page #59
--------------------------------------------------------------------------
________________
द्वौ प्रकारौ चिन्तयामः । तथाहि - (i) केचित् सर्वाभिरपि शक्तिभिः सुसज्जा अपि अनुचितकृत्यजनितं दुःखविपाकं जानन्ति ।
अतः स्वयमेव ते ततो विरमन्ते । (ii) केचित् तु पूर्वोक्तसामर्थ्यसहिता अपि, अनुचितं चिकीर्षवोऽपि च पूर्वमेव ततो
विरतत्वात्, लोकलज्जया प्रतिष्ठाहानिभयेन चाऽनुचितं नाऽऽचरन्ति । (यदि यथेप्सितोऽवसरः प्राप्येत तर्हि कुर्युरपि।) अतः ज्ञातारोऽपि अतत्त्वस्याऽकर्तार एते। तथा स्तोका एव केचित् ये अनुचितमाचरितुं सर्वसामर्थ्ययुता अपि तथाविधपुण्यातिशयेनैव अतत्त्वं न जानन्ति । अतस्तत् न कुर्वन्ति । कदाचित् अनुचितज्ञाने तु कुर्वन्त्यपि ।
परन्तु ये अतत्त्वं सर्वथा न जानन्ति सर्वथा च तत्करणसामर्थ्यहीना अपि, ते तु इह लोके अतिविरलाः सन्ति ।
वयमत्र कस्यां कोटौ अन्तर्भूता इति तु अस्माभिरेव निर्णेतव्यम् । इति ॥
आतपच्छाययोर्यद्वत् सहाऽवस्थानलक्षणः । विरोधस्तद्वदत्रापि विज्ञेयः सुखवाञ्छयोः ॥
(श्रीमल्लिनाथमहाकाव्ये)
५०
Page #60
--------------------------------------------------------------------------
________________
नमो नमः श्रीगुरुनेमिसूरये ॥
पत्रम्
-मुनिधर्मकीर्तिविजयः
आत्मीयबन्धो ! चेतन! धर्मलाभोऽस्तु।
सगुरुवरं सर्वेऽपि मुनयः ससातं वर्तन्ते। विविधक्षेत्राणां विहारयात्रां पूर्णीकृत्य सूरतनगरे चतुर्मास्यर्थं आगताः स्मो वयं सर्वेऽपि । त्वयाऽपि आराधनायाः दिनेषु विशेषेण धर्माराधना करणीया। __ "मनो लाभदायि अलाभदायि वा" इति चर्चा कृता । अधुना मनः एव लक्ष्यीकृत्याऽस्मिन् पत्रे किञ्चिल्लिखामि। ___ अस्माकं सर्वेषां संसारिजीवानां चित्तं प्रतिक्षणं विनाऽवरोधमविरतं अटति । ततः एवाऽवलम्बते समस्तसंसारस्याऽस्तित्वं केवलं शुभकार्यमशुभकार्यं चेति द्वयोः तत्त्वयोः उपर्येव । सदा शुभमशुभं कार्यं भवत्येव । तत्कार्यानुसारेणाऽऽत्मा सर्वदा कर्मवृन्देनाऽऽश्लिष्यते एव। चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थप्रणेतृपूज्यपादः श्रीहरिभद्रसूरिः आह
सव्वावत्थासु जओ पायं बन्धो भवत्थजीवाणं । भणितो विचित्तभेदो पुव्वायरिया तहा चाहु ॥
(पञ्चाशकप्रकरणम् १६ - ३९) अत्राऽस्माकं दुर्भाग्यं त्वेतद् यत्कर्मबन्धनस्य पश्चादपि मया किं कृतं, किं प्रोक्तं किमाचरितमित्यपि न ज्ञायतेऽस्माभिः । ततः सदा जागृतिपूर्वकं एव व्यवहार: करणीयः । ___ अस्माभिः एकं सूत्रं रचितं "सत्कार्यात् पुण्यं बध्यते तथैव चाऽशुभाचरणेन पापं बध्यते" इति । बाह्यदृष्ट्यैतत्सूत्रं सत्यं किन्तु एतावन्मात्रेण न समाप्ति स्वीकरोति कर्मबन्धनम् । यत इह जिनशासने न केवलं कर्मबन्धस्याऽऽधारो दृश्यमानस्य कार्यस्योपरि, अपि तु मनसोऽध्यवसायस्य उपरि अस्ति । यादृशी परिणतिः तादृशी फलावाप्तिः । बाह्यदृष्टया निरीक्ष्यमाणं
Page #61
--------------------------------------------------------------------------
________________
सत्कार्यमपि पापबन्धं कारयेत्, यतो जिनमतस्य कर्मपद्धतिः अतिसूक्ष्मा गहना चास्ति । एवं सर्वेभ्यो दर्शनेभ्यो भिन्नाऽपि कर्मपद्धतिः। एतत्कारणादेव जिनशासनस्य कर्मप्रणालिकामनुसृत्य चत्वारि तत्त्वान्यभ्यसनीयानि ।
१. जीवने स्वकृतस्य सत्कार्यस्य सदाऽनुमोदना कर्तव्या। २. जीवने न कदाचिदपि आत्मना कृतशुभकार्यस्य पश्चात्तापः कार्यः । ३. जीवने न कदाचिदपि कृताशुभकार्यस्याऽनुमोदना करणीया। ४. जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः ।
भ्रातः । न शक्यते कर्तुं जीवने सदा सत्कार्याणि । किन्तु यदा दैवात् शुभक्षणे सत्कार्यं भवेत् तदा तस्याऽनुमोदना करणीयैव । शुभकार्ये कृते सति मनसि शुभभावना भावनीया "धन्योऽस्मि अहं, मम प्रबलात् भाग्योदयात् अद्यैतादृशः सुन्दरोऽवसरः उपलब्धः, एवमेव सदा मया शुभकार्याणि कर्तव्यानी"ति । एवं पुनः पुनः सर्वदा कृतसुकृतस्याऽनुमोदना करणीया शुभभावेन, न तु मानेन। अत्रेदमपि विशेषेण ज्ञेयं यदनुमोदनाया: व्याजेनाऽहङ्कारो न चित्ते प्रविशेत्, यतो द्वयोर्मध्ये भेदो ज्ञातुं न शक्यते।
अथ सत्कार्ये कृतसुकृतस्याऽनुमोदनायां चैतदेवाऽन्तरं यत्, सुकृतस्य प्रभावेन शुभपुण्यबन्धस्तु भवत्येव। किन्तु तस्याऽनुमोदनया यः पुण्यबन्धोऽभवत् तस्याऽनुबन्धो भवति । यथा यथाऽनुमोदनायाः प्रमाणमधिकं भवति तथा तथाऽनुबन्धोऽपि विशेषो भवति । ततो यावान् पुण्यबन्धोऽभूत् सत्कार्यकरणकाले, तत्तोऽधिकतरो बन्धोऽनुमोदनाद्वारेण भवति । अत एवाऽत्र जिनसमये नाऽतीव प्राधान्यं कार्यस्य किन्तु मनसोऽध्यवसायस्य प्राधान्यमस्ति। यतोऽनुमोदनासमये चित्तस्य परिणतिः वैशिष्टयेन निर्मला निर्मलतरा च भवति, तन्निर्मलपरिणतिवशात् पुण्यबन्धोऽपि विशेषो भवति । एवं यदि कार्यं लघु तथाऽपि फलं महद् भवति । अत एव कृतसत्कार्यस्याऽनुमोदनायां न कदाऽपि पश्चाद्वलनं करणीयम् ।
बन्धो ! शालिभद्रं स्मर!
आसीत् पूर्वभवे शालिभद्रः 'संगमो' नाम आभीरपुत्रः । 'शाली' ग्रामे वसति स्म सः । अल्पवयस्येव पिता दिवङ्गतः । 'धन्या' नाम तस्य माताऽऽसीत् । सा प्रातिवेश्मिकानां
५२
Page #62
--------------------------------------------------------------------------
________________
श्रेष्ठिनां गृहकार्यं कृत्वा स्वस्य पुत्रस्य च पोषणं करोति स्म।
बालकः संगमोऽपि प्रकृत्या प्रशान्तो गम्भीरो बुद्धिमान् चाऽऽसीत् । ततो न कदाऽपि तं दारिद्रयं पीडयति स्म । सदा मातुः परिस्थिति विज्ञाय साहाय्यमेव चकार सः।
एकदा पर्वदिने सर्वेऽपि ग्रामीणाः बालकाः एकत्रीभूयाऽक्रीडयन् । तदाऽपृच्छन् सर्वेऽपि परस्परं "त्वया किं भुक्तं, त्वया किं भक्षितमि"ति । तदा क्रमशः परमान्नं भुक्तमिति सर्वैः व्याकृतम्। संगमेन तु मौनमेव धृतम्, ततः एकेन पृष्टं, संगमः - त्वं किमर्थं न वदसि? वद वद, किं त्वया भुक्तम् । स तूष्णींस्थितः । तस्य मनसि खेदो जातः, अश्रुधारा बहिर्निर्गता। आशु गृहं गतवान् म्लानवदनमधःकृत्वा। तत्र मातुः अङ्के शिरो मुक्त्वोच्चैः रोदनमारभत ।
सहसैव रुदन्तं तं दृष्ट्वा माता चिन्ताग्रस्ताऽभवन् । सा प्रप्रच्छ-बाल ! कथं रोदिषि त्वम् ?, कि केनाऽपि तर्जितः ? किं केनाऽपि हतः?, किं केनाऽपि गालिः दत्ता? इति । किन्तु न वदति किमपि बालकः । अन्ते त्रुटितस्वरेण स आह - मातः ! मातः ! अद्य मम सर्वैः मित्रैः पायसभोजनं कृतम् । अतोऽद्य परमान्नं भक्षयितुं मेऽपि स्पृहाऽस्ति ।
एतच्छ्रुत्वैव वज्रहतेव सा चिन्तयामासिवान् "कीदृशं मे दुर्भाग्यं, एकमात्रस्य बालकस्यैतादृशीं लघ्वीमपि लिप्सां पूर्णीकर्तुं न समर्थाऽहम् । सर्वेषां जनानां पर्वदिने पक्वान्नभक्षणं दृष्ट्वा मम बालकस्याऽपि एतादृशीच्छोत्पद्येत, तदा तस्य को दोषः?" इति । एवं मातुः मानसेऽतीव ग्लानिः संजाता। __ "यस्य गृहे एकवारमपि भोजनस्य प्राप्तिः सुदुर्लभा तस्य परमान्नस्य प्राप्तेः का वार्ता ?" तथापि कथं पूर्यते बालकस्य मनोरथः इति विचिन्तयन्त्या तया गदितं- बालक ! स्वपिहि त्वम् । अधुनैवाऽहं तुभ्यं पायसं ददामि।।
बालकस्य स्पृहापूर्त्यर्थं येन केन प्रकारेण तया जनन्या परमान्नयोग्यानि खाद्यपदार्थानि श्रेष्ठिभ्यो याचित्वा परमान्नं निष्पादितम् । परमान्नमतीवोष्णमासीत् । ततोऽनुष्णं कर्तुमेकस्यां स्थाल्यां पायसं दत्त्वा तस्मै बालाय केनाऽपि कारणेन बहिर्गता सा।
अथ यावद् बालकः परमान्नं शीतलीकृत्य खादितुमारभते तावदेव तेन 'धर्मलाभः' इति ध्वनिः श्रुतः। तां ध्वनिदिशं प्रति स दृष्टिं करोति । तदैव तेन संगमेन तपस्तेजोन्वितललाटा
Page #63
--------------------------------------------------------------------------
________________
**
तपःकृशीभूतकाय: सौम्यमुखारविन्दो धैर्यगाम्भीर्ययुतः प्रशान्त: एको मुनिवरो दृष्टः । शीघ्रमेव तेन तस्य मुनेः सादरमुचितं स्वागतं कृतम् । स जैनीं परिभाषामजानन्नपि आह भो ! भो ! पूज्य ! भवानेतत्परमान्नं गृह्णातु " । मुनिनाऽपि तदेषणीयं योग्यं ज्ञात्वा गृहीतम् । आत्मानं धन्यंमन्येन तेन बालकेनाऽपि सानन्दं स्थाल्यां स्थितं सर्वमपि परमान्नं मुनिवरायाऽदायि । ‘धर्मलाभः' इत्याशिषं दत्त्वा वसतिं गतवान् स मुनिपुङ्गवः ।
इतश्च “अद्य मया चारु सुकुतं कृतं, अतिथये दानं दत्तं, अद्य मे सफलं दिनं, धन्योऽस्मि अह" मिति अनुमोदनाध्यवसितमानसः स बालः सानन्दं स्थाल्यां लग्नं परमान्नं लिह्यति । तस्मिन्नेव कालेऽन्येषां गृहकार्यं पूर्णीकृत्याऽऽगच्छन्ती जननी स्थालीलग्नं पायसमास्वादमानं बालकमीक्षते । तस्य मुखेऽपूर्वमानन्दं निरीक्ष्य " बालकाय परमान्नमतीव रोचते" इति मत्वाऽवशिष्टं पायसमपि पुनः तस्मै दत्तम् । बालकेनाऽपि तं परमान्नं सहर्षं भुक्तम् । अत्राऽपि भोजनकाले बालकस्य चित्ते स मुनिवर एव रमते "मुनिवरोऽतीव सुन्दरः आसीत्, तस्य वागपि शर्करावन्मधुराऽऽसीत्, मयाऽद्य सुष्ठु सुकृतं कृतं" एवं पुनः पुनः अनुमोदनां करोति ।
अथाऽद्यपर्यन्तं तेन नैतादृशो गरिष्ठपदार्थो भक्षितः । ततः तेनाऽधिकाहारभोजनेन 'विसूचिका' नामरोगेण स ग्रस्तोऽभूत् । स तस्यामेव निशि तस्य रोगस्याऽधिकपीडावशात् शुभाध्यवसायेषु मृत: । ततो मृत्वा 'गोभद्र' श्रेष्ठिनो गृहे महर्द्धिको धनाड्यः पुत्ररूपेणाऽवातरत् स संगमः ।
एवं तेन बालकेनाऽल्पमेव दानं दत्तं, किन्तु कृतसुकृतस्य अभीक्ष्णमनुमोदनाद्वारेणैतादृशी परमर्द्धिः प्राप्ता ।
ततो भ्रातः ! सदा कृतसुकृतस्याऽनुमोदना करणीयैव । अथ किं भवेत् कृतसुकृतस्य पश्चात्तापकरणेन, तदपि ज्ञेयम् ।
कृतसुकृतस्य पश्चात्तापो दुःखस्यैव कारणं भवति । सत्कार्यकरणेन यः शुभबन्धो भवेत् स तु भवत्येव, किन्तु तत्पश्चात् कृतस्य सत्कार्यस्य पश्चात्तापात् बद्धशुभबन्धे हानि: भवति । सत्कार्यात् या ऋद्धिः प्राप्यते सा ऋद्धिः पश्चात्तापकरणेन दुर्गतेः प्रधानं कारणं भवति । जीवस्य शुभमपि चित्तं पापान्वितं मलिनं करोति । सदा तस्य चित्ते पापबुद्धिरेव निरन्तरं
५४
-
Page #64
--------------------------------------------------------------------------
________________
रमते । तत एव न कार्यः कदापि कृतस्य सत्कार्यस्य पश्चात्तापः । __ अस्त्येवेह जिनशासने मम्मणश्रेष्ठिनः प्रसङ्गः प्रसिद्धः।
पूर्वभवे मम्मणश्रेष्ठिना निर्ग्रन्थमुनये "सिंहके सरिमोदकाः प्रतिलम्भिताः । अवर्णनीयानन्दमनुभवन् जीवनं च कृतार्थीभूतं मन्यमानः स श्रेष्ठी गृहमागतः ।
तदा दैवादेका घटिता विचित्रा घटना।
कोऽपि विघ्नसंतोषी तन्निकषाऽऽगत्याऽऽह - रे श्रेष्ठिन् ! त्वं तु मूर्खशेखरोऽसि, किं त्वया बुद्धिरपि अन्यस्मै प्रदत्ता, यत ईदृशान् मधुरान् दुर्लभान् ‘सिंहकेसरि'मोदकानपि साधवेऽयच्छः । प्रत्येकपदार्थानां याचनमेव साधोः व्यापारोऽस्ति । अतः तत्र गत्वा मोदकान् प्रत्यानय। ___मनोवैचित्र्यं कीदृगस्ति तदत्र ज्ञायते । शुभालम्बनेन श्रेष्ठिनो मनोधारोच्चैः उच्चैः प्रवर्धमानाऽऽसीत् । परंतु दुष्टनिमित्ते प्राप्ते सत्येव शुभमनोभावनाऽपि भग्नाऽस्ति । तस्य मनसि खेदो जातः । कथं मयैतादृशाः मनोज्ञाः मोदकाः अपि भिक्षुकायाऽपिताः । मया जीवनेऽद्यैवेतादृशाः मोदकाः दृष्टाः, पुनः कदा भोक्तुं पुण्यभाग् भविष्याम्यहम् ? ततो येन केन प्रकारेण तान् मोदकान् प्रत्यानयेयम्।
एवं स्खलितमनोभावः स मम्मणश्रेष्ठी सत्वरं साधूनां वसतिं गत्वा मोदकानयाचत । साधुः न मोदकान् प्रत्यच्छत् स्वकीयाचारत्वात्, किन्तु निर्दोषभूमौ पर्यष्ठापयत् । ___ अथ दुष्टाध्यवसायात् ततो मृत्वा मम्मणः नाम श्रेष्ठी बभूव । पूर्वभवे दत्तदानप्रभावात् अपारद्धेः स्वामी अभूत् सः, किन्तु दत्तस्य दानस्य पश्चात् पश्चात्तापकरणात् तामृद्धिं भोक्तुं न समर्थो बभूव।
कथं क्रियते तस्यद्धैः वर्णनम् ? तस्य गृहे द्वौ वृषभौ आस्ताम् । तत्रैकोऽमूल्यै: विविधरत्नैः मण्डितः आसीत् । शृङ्गं विना द्वितीयो वृषभोऽपि रत्नविभूषितः आसीत् । एवमासीत् तस्य गृहे राजयोग्या लक्ष्मीः । ततोऽपि रत्नविहीनं शृङ्गं पूर्णीकर्तुं स प्रातः घोरान्धकारे नदीं गत्वा तत्र प्रवहन्ति काष्ठानि विचित्य तेषां विक्रयेण प्राप्तेन धनेन रत्नानि एकत्रीकरोति । तेभ्यः शृङ्गनिर्माणस्य तस्याऽभीप्साऽऽसीत् । तथा धनव्ययो न भवेदिति दिने एकवारमेव तैलं
Page #65
--------------------------------------------------------------------------
________________
चोल्लकं (एकं धान्यं) चाऽभक्षयत् । जीर्णं वसनमेवाऽधारयत् । एवं जीवनपर्यन्तं कृतम् । तथाऽपि न शृङ्गं पूर्णीकर्तुं स शक्तोऽभूत् । अन्ते धने विलुब्धः स मृत्वा सप्तमनरकपृथिवीं जगाम । एवमेतादृशेषु भोगोपभोगसाधनेषु धनेषु चोपलब्धेषु सत्स्वपि न स आनन्दं भोक्तुं शक्तिमानभूत्।
अथ भ्रात: शालिभद्रमम्मणश्रेष्ठिनोः भेदो ज्ञेयः । __पूर्वभवे परमश्रद्धया द्वावपि निर्ग्रन्थमुनिं प्रत्यलभताम् । दानकाले द्वयोः भावना समानैवाऽऽसीत् । किन्तु तत्पश्चात् पूर्वभवस्य शालिभद्रस्याऽऽत्मा संगमो निरन्तरमामरणं कृतस्य सुकृतस्याऽनुमोदनां चकार । ततो न संगमस्य शुभमनोभावना मरणकालपर्यन्तं स्खलिता, किन्तु धूपस्य चटावत् नैरन्तर्येणोच्चैः उच्चैः प्ररूढा । ततः स सौभाग्यशाली अपूर्वर्द्धिमानभूत् । किन्तु तां ऋद्धि भोगादिकं चानुभूय सर्वमपि संसारं सानन्दं विहायाऽपूर्ववीर्योल्लासपूर्वकं दीक्षाऽपि तेन गृहीता । अन्ते उत्कृष्टाराधनापूर्वकं संयम प्रतिपाल्याऽव्ययपदभागभवत्। ___इतो दानस्योत्तरक्षणादेव मम्मणश्रेष्ठिनो मनोभावस्तु प्रदीपघृतवत् हीनस्वभावोऽभवत् । दानस्य पश्चात् मम्मणश्रेष्ठिनो मानसे पश्चात्तापः संजातः । अत्र दानस्य वशात् शालिभद्रवत् तेनाऽपि महती ऋद्धिस्तु प्राप्तैव, किन्तु दानस्य पश्चात् यः पश्चात्तापः कृतः तत्कारणात् ऋद्धिं प्राप्याऽपि न तामुपभोक्तुं शक्तोऽभूत् । अन्ते धने लुब्ध एव स मृत्वा दुर्गतिमवाप।
एवं कृतसुकृतस्याऽनुमोदनायाः को लाभः तथा पश्चात्तापात् का हानिः इति ज्ञात्वा सदैव कृतसुकृतस्याऽनुमोदना करणीया, तथा कृतसुकृतस्य न कदाऽपि पश्चात्तापः कर्तव्यः ।
चरिमयोः द्वयोः तत्वयोः चर्चा अग्रे करिष्यामि।
Page #66
--------------------------------------------------------------------------
________________
अनुवादः
को नरः श्रेष्ठः?
__मुनिधर्मकीर्तिविजयः आगच्छत्येव सर्वेषां नराणां जीवने केनाऽपि प्रकारेण विपत्तिः । कदाचिदात्मनः कारणात्, कदाचिदन्येषां वशात्, कदाचित्तु अकस्मादेव, किन्तु मनुष्यजीवने विपत्तु आगच्छत्येव।
"साऽऽपत्तिः कथं सह्यतेऽस्माभिः ?' इत्येवाऽस्त्यत्र प्रश्नः ।
यथाकालं विविधैरुपायैः आपतिता विपत्तिरपि शाम्यति, परंतु यावन्न सा शाम्येत् तावत्तु सा विपत्त् सहनीयैव । सा कथं सहनीया?
विपत्तिं सोढुमेक एव उपायः समतेति । अतीव धैर्यमपूर्वा समता च यद्यस्माभिः यथार्थमभ्यस्यते तर्हि चित्तं शमं धृत्वाऽव्याकुलमेव भवेत् । ततस्तदा प्राप्नुयातां द्वौ लाभौ - आपत्तिं सोढुं शक्तिः प्राप्यतेऽन्यच्च तस्याः विपदो निवारणस्योपायोऽपि साध्यते । न कदापि सा विपत्तिः क्रोधात्, उद्वेगात्, संतापात्, व्याकुलतायाश्च निर्मूला भवति, प्रत्युत साऽऽपत्तिरतीव कठिना दुस्सहा च भवतीति तु निश्चितमेव । ततो यदि चेदेतादृशी परिस्थितिः सृजेत् तर्हि माध्यस्थ्यमव्याकुलत्वं वा धारयेत्, तथा च धीरत्वं सहिष्णुतां शमं च धृत्वा तस्याः विपदः प्रतिकारः कर्तव्यः, इत्येव प्राज्ञत्वस्य लक्षणमस्ति।
"आपतिता परिस्थितिः शमत्वेन स्वीकरणीया'' एतदेव यथार्थं पौरुषमस्ति । "यो न बलं त्यजेत्, न च शरणं गच्छेत्" स एव श्रेष्ठो नरोऽस्ति ।
(अनूदितम्)
Page #67
--------------------------------------------------------------------------
________________
*
मांसाहारं त्यजन्तु
दीर्घं
वेदेषु मन्त्ररूपेण उपदिष्टं अस्ति"वयं सर्वान् प्राणिनो मित्रभावेन पश्यामः,
च जीवन्तुं
भाषायां लेखक: गुणवन्त-शाह * सं- अनुवादक:- मुनिकल्याणकीर्तिविजयः
11
सर्वेऽपि अमान् मित्रभावेन पश्यन्तु
इति ।
इत: आफ्रिकादेशे एकस्य वनस्य प्रवेशद्वारे मूकैः पशु-पक्षिभिः कथित इव एकः सन्देशः उल्लिखितोऽस्ति
"
‘“वयं भवतां मित्राणि,माऽस्मान् हिंसन्तु'' इति।
" जीवजगतो राजा मुनष्य एव इति बोधः सर्वसाधारण आसीत् जगति । किन्तु अद्यत्वे स विचारो हठात् त्याज्य एवाऽस्माभिः । मनुष्यस्तु प्राणिविश्वस्य एकः सभ्य एव। अन्यैः प्राणिभिः सह मैत्रीभावेन अहिंसकभावेन च वर्तने तस्यैव स्वार्थः सिद्ध्यति ।
किन्तु मनुष्य एतत् बोद्धुं न क्षमो न वा सज्जः । स तु हिंसां निरपराधिनां मूकजीवानां हिंसां - स्वकीयतुच्छस्वार्थस्य साधनाय निर्दयतया करोत्येव, मृगयारूपेण वा सूनागारेषु वा औषधादिहेतुना वा सौन्दर्यप्रसाधानाद्यर्थं वा।
यद्यपि मृगयापद्धतिरद्यत्वेऽल्पीभूता तत्प्रतिष्ठा च हीयमानाऽस्ति । किन्तु सूनागाराणां प्रतिष्ठा प्रमाणं च वर्धत एव सर्वत्र । सूनागारं हि मनुष्यहृदयेषु वर्तमानस्य दानवत्वस्य बीभत्सं प्रतीकमस्ति । जनेषु मांसभक्षणस्य प्रचारः प्रसारश्चाऽस्खलितं वर्धमानोऽस्ति । ये च मांसभक्षणं प्रत्यक्षतया न कुर्वन्ति तेऽपि परोक्षरीत्या तु तत् कुर्वन्त्येव । यतो जगति गर्जदैनिक - सन्देशस्य ६-५-२००१ तमदिनाङ्कस्य साप्ताहिकपूर्ती लेखोऽयं प्रकाशितोऽस्ति ।
५८
Page #68
--------------------------------------------------------------------------
________________
विक्रीयमाणानां वस्तूनां नवतिः प्रतिशतं '९० %' वस्तूनि प्राणिजपदार्थसंयुतानि भवन्ति । अतः प्रत्यक्षतो मांसापणानां संख्यातोऽपि एतेषां परोक्षमांसापणानां सङ्ख्या सुमहती। तत्कृताया हिंसायास्तु प्रमाणं स्वयमेव चिन्तनीयम्।
किमेते प्रत्यक्षाः परोक्षाश्च सूनागाराः कदाऽपि नामशेषाः न भविष्यन्ति ?
ऐसवीये १३०८तमे संवति वटपद्रनगरे प्रवृते श्वेताम्बरजैनसम्मेलने प्रधानातिथितया समागतेन श्रीलोकमान्यतिलकमहोदयेन स्वीये प्रवचने कथयामासे यत् "गूर्जरजनपदे, महाराष्ट्र देशस्याऽन्यस्मिंश्च पश्चिमे भागे वास्तव्या जैनाः बहुधा स्वभावशान्ताः शान्तिप्रिया: अहिंसकाः निरामिषाहारिणश्च दरीदृश्यन्ते स जैनधर्मस्यैव महान् प्रभावोऽस्ति ।"(अद्यत्वेऽपि कांश्चिदपवादान् विना इयमेव परिस्थितिः ।)।
अस्य मूलं तु कलिकालसर्वज्ञश्रीहेमचन्द्राचार्येण गूर्जरसम्राटः कुमारपालचौलुक्यद्वारा कारिते सार्वत्रिके अहिंसापालने, जगद्गुरुश्रीहीरविजयसूरिभिश्च मुघलसम्राड्-अकब्बरद्वारा कारिते प्रतिवर्ष षाण्मासिके हिंसानिषेधे च विद्यते । यदि तदात्वेऽहिंसापालनाय एतादृशैजैनाचार्यैर्यत्नो न कृतोऽभविष्यत् तद्य इहाऽपि गूर्जरादिजनपदेषु हिंसाताण्डवानि अशान्तिप्रकर्षाश्चैवाऽवय॑न्त ।
एतद् वर्षं ऐदम्प्राथम्येन अहिंसासिद्धान्तप्रस्तुतिकृतां श्रीमन्महावीरस्वामिनां षड्विंशं जन्मशतीवर्षमस्ति । तैः प्ररूपितोऽहिंसासिद्धान्तोऽद्यत्वे नितरामुपयोगी सर्वत्र जगति सन्मानितश्च प्रबुद्धैर्जनः । ततश्चाऽहिंसायां केवलं जैनानामेवाऽधिकारोऽस्ति,अथवा महावीरस्वामिनः केवलं जैनानामाराध्या मान्याश्चेति विचारधारा न योग्याऽद्यतने परावर्तनकाले। ____ अद्यत्वे यदा सर्वत्र मांसाहारस्यैव प्रचारः प्रसारश्चाऽस्खलितं प्रवरीवति तदा महावीरस्वामिनामहिंसामया मौलिकाः सिद्धान्ता जगति नितरामुपयोगिनः प्रस्तुताश्च सन्ति । __मार्च- मासस्य षोडशे दिनाङ्के ब्रिटन्-देशस्य 'ध इन्डिपेन्डन्ट' (The Independent) नामनि दैनिकपत्रे- "दशलक्षप्राणिनां सामूहिकी भविष्यन्ती हिंसा" इति मुख्यः समाचारः आसीत् । ब्रिटन्-देशे व्याप्तस्य "फूट एण्ड माउथ्' (FootAnd Mouth) रोगस्य नियन्त्रणं कर्तुं तत्रत्यशासनेन एकस्मिन्नेव दिने एतावतां मेष-छाग-गो-शूकरादीनां पशूनां हिंसां कर्तुं
५९
Page #69
--------------------------------------------------------------------------
________________
निर्णीतमासीत् । किन्तु तस्यैव मुख्यसमाचारस्याऽधस्तात् स्वीयान् पशून् भोजयतो मोरिस्बाउमेन्- नामकस्य कस्यचित् कृषिकस्य छायाचित्रं तदुच्चारिताः शब्दाश्च प्रकाशिताः सन्ति यत्- "नाऽहं मदीयपशून् हिंसितुं मारयितुं वेच्छामीति"।
अनया घोरहिंसया समग्रयूरपखण्डनिवासिनो जनाः स्तब्धीभूताः सन्ति । यत एतादृशी महत्प्रमाणा हिंसा एकदैव पुरा न कदाप्यभवत्। अपि च हिंसान्तरं यदा तेषां पशूनां मृतशरीराणां सामूहिकोऽग्निदाहोऽक्रियत तदा तदुत्थिताभिरग्निज्वालाभिराच्छादितः समग्रो विस्तारः प्रदूषणभाग् अभवत् । प्रदूषणेन च तत्र पर्यटतां प्रवासिनां संख्याऽल्पीभूता ततश्च पर्यटनोद्योगस्याऽप्यलाभ इत्यन्या हानिः । __एतादृशैदुरनुभवैः पीडितास्तत्रत्या जनाश्चिन्तयन्ति यद् नीरोगीभवितुं निरापदं च स्थातुं मांसाहारत्यागः शाकाहारस्वीकारश्चैव श्रेष्ठोपायौ स्तः ।
अद्यत्वे पाश्चात्या वैद्या (Doctors) अपि जनान् बोधयन्ति यत् - मनुष्याणामारोग्यार्थमायुष्यार्थं च मांसभक्षणं नैवाऽनुकूलम् । मार्चमासस्य द्वादशे दिनाङ्के प्रकाशितस्य 'न्यूझ् वीक्' इत्याख्यस्य अमेरिकीयसामयिकस्य पञ्चाशत्तमे पत्रे गोमासखण्डस्यैकं चित्रं प्रकाशितमस्ति । चित्रोपरि च 'मा एतत् भक्षयतु ' (Do Not Eat) इति पूर्वसूचना (WARNNING) उल्लिखिताऽस्ति । सचित्रेयं सूचना न जैनैर्नाऽपि गोभक्तैर्भारतीयैः कैश्चित् प्रदत्ता किन्तु अमेरिकीयैर्वैज्ञानिकैद्यैश्च तत्रत्यजनेभ्यः प्रदत्ताऽस्ति । एवं चैतादृशमुन्नतं सन्देश प्रसारयत् 'न्यूझ्वीक्' नाम सामयिकमपि महावीरस्वामिनः उपदेशं भिन्नस्वरूपेण निरूपयतीति मन्ये । ___ एतदनुगुणमेव विश्वप्रसिद्ध-प्रयोहिम(Ice Cream)निर्मातुः पुत्रेण ज्होन् रोबिनसन्इत्येनन "Diet For A New America" इति पुस्तकं लिखितमस्ति । सर्वैरपि जैनैरितरैश्च अवश्यं पठितव्यमेतत् पुस्तकम्। अस्मिन् पुस्तके शाकाहार-मांसाहारयोरन्तरं तन्मीमांसा च वणिताऽस्ति लेखकेन, तथेहैकमपि वाक्यं वैज्ञानिकप्रमाणहीनं नाऽस्ति । किञ्चैतत्पुस्तकं विषयीकृत्य अमेरिकीयैर्जनैः एकं चलच्चित्रं निर्माय जनसमक्षं प्रकाशितमस्ति । “पुस्तकमिदं पठित्वा चलच्चित्रं चैतद् दृष्ट्वा यदि नाम कश्चिदपि मासंभक्षणं न त्यजेत् तदा तदुत्तरदायित्वं मम''
Page #70
--------------------------------------------------------------------------
________________
इति लेखकस्य प्रतिज्ञा पुस्तकावसाने उल्लिखिताऽस्ति । ___ एवं चाऽहिंसा शाकाहारश्च केवलं धर्माचरणं अभूत्वा अद्यत्वे नूतनजीवनशैलीतया प्रसिद्धौ । या पूर्व केवलं भारतीयानामेव विचारधाराऽऽसीत् साऽद्य व्यापकत्वेन विश्वस्याऽपि विचारक्रान्तेः प्रतीकतया ‘एस्किमो'जातीयेषु मनुष्येष्वपि सम्यक्तया प्रसिद्धीभूताऽस्ति।
द्वित्रान् उदाहरणान् पश्यामः । एकदाऽहं फ्रेन्कफर्ट-नगराद् विमानद्वारा मुम्बईनगरं प्रत्यागच्छन् आसम् । विमानपरिचारिकयाऽऽगत्य पृष्टं भवता शाकाहार उपयुज्यते मांसाहारो वा?' मयोक्तं 'शाकाहारः' । तदैव मदन्तिके एकः फ्रान्सीयः उपविष्ट आसीत् । तस्याऽपि परिचारिकया पृष्टे सोऽवदत् 'अवश्यं शाकाहारः । ___जनाः सदैवैवं मन्यन्ते यत् ‘मुस्लिमाः' सर्वदा सर्वेऽपि मांसाहारिण एव' इति । किन्तु नैतद् योग्यम्। हिरोशिमानगरोपरि अणुगोलकास्त्रप्रक्षेपस्य पञ्चाशत्तम्यां तिथौ तत्राऽऽयोजितायां पर्षदि भागं ग्रहीतुमहमन्ये च भारतीया जापान्देशं प्राप्ताः । तत्राऽस्माकं सूचनया तैः शाकाहारिणां कृतेऽन्या भोजनव्यवस्था कृताऽऽसीत् । यदा वयं तत्र भोजनग्रहणार्थं प्राप्तास्तदाऽस्माभिः सह पाकिस्थान्देशीयाः सप्ताष्टौ मुस्लिमाध्यापका अपि शाकाहारं भोजनमेवोपायुक्त।
ततश्च शाकाहारग्रहणे धर्मसम्प्रदायो उपदेशा नाऽऽवश्यका । उन्नतविचारधारा शुद्धा जीवनशैली चैवाऽत्राऽऽवश्यिक्यौ।
एकत इदं, अपरतो भारते कॉलेजीयविद्यार्थिनोऽन्ये च युवानः केवलं अभिरुचिपोषणार्थमेव मांसाहारं मद्यपानं च कुर्वते । अयं च मांसाहारप्रचारः समाजेऽनिशं वृद्धि प्रापन् अस्माकं निर्दोषाया जीवनशैल्याः उदारसंस्कृतेश्च व्याघातत्वेनोपस्थितोऽस्ति । अविवेकस्य पराकाष्ठा त्वियं यत् भारतीयवर्तमानपत्रेषु एकतो भारतीयमहाप्रधानस्य अटल-बिहारी वाजपेयी महोदयस्य महावीरस्वामिनः षड्विशंतितमजन्मशतीप्रसङ्गे संयमापरिग्रहादिविषयकं प्रवचनं प्रकटीभवति, अन्यतश्च तत्सार्धमेव पञ्चतारकभोजनालये तस्य विविधमांसनिर्मितभक्ष्यभोजनार्थं गतस्य चित्राणि वृत्तं च प्रकाश्यन्ते ।
भवतु, किन्तु यदा सर्वतोविधं विचार्यते तदा, षड्विंशतेर्वर्षशतानामनन्तरं अन्येषु सन्दर्भेषु अन्यादृशीषु च परिस्थितिषु महावीरस्वामिनः जगति पुनरागता इति प्रतिभाति । अहिंसेति
Page #71
--------------------------------------------------------------------------
________________
केवलं अहत्यैवेति न योग्यम् । नाऽपि जीवदयैव । तस्याः सम्बन्धस्तु तादृश्या जीवनशैल्या यस्यां प्रकृतेः सन्तुलनं संसाध्य स्वस्माद् अन्यजीवेभ्योऽल्पतमामपि ग्लानि अदत्त्वा जीवसृष्ट्या मैत्रीभावेन वर्तनं क्रियते।
व्याघ्राणां प्रजातिर्नष्टा भवेदिति तु नेच्छास्पदम् । यतस्तन्नाशेन जीववैविध्यं (BIODIVERSITY) प्रस्खलिता भवति। व्याघ्रममारयित्वा वयं न तमुपकुर्मः किन्तु स्वयमेवोपकृता भवामः । अद्यत्वे, अहिंसा जीववैविध्यस्य (BIO-DIVERSITY) जीवपरिस्थितिविज्ञानस्य (ECOLOGY) च सिद्धान्तैः सहितैव यथार्था, सृष्टिसन्तुलनादिस्वरूपं निजकार्यं साधयितुं च समर्था भवेत् । एतस्मिन् परिप्रेक्ष्ये, आगामिषु वर्षेषु सृष्टे: पर्यावरणस्य व्यापकं सूक्ष्मं च सन्तुलनं चिरस्थायि कर्तुं सृष्टे महावीरस्वामिनः सिद्धान्ता एव जगतोऽत्यन्तमुपयोगिनो भविष्यन्ति इति।
मनुष्यः स्वयमेव निजस्य सहचरः । अतस्तेन सर्वदा श्रेष्ठं साहचर्यं पालयितुं यतनीयम् ।
- सी. इ. ह्युजिस्
६२
Page #72
--------------------------------------------------------------------------
________________
220866608048688
२४०%888063
कथायां बोधः
-विजयशीलचन्द्रसूरिः
गुरुः शिष्यैः साकं नदीतटे समुपविष्टः आसीत् । नद्याः प्रवाहः अस्खलितं गतिमान् आसीत् अगाधश्च सः।
एकेन शिष्येण पृष्टम् - यदि अहं एतस्याः प्रवाहे पतामि ततः किं अहं जलसमाधि आप्नोमि? ___ गुरुणा गदितं - न न। केवलं नद्यां पतनमात्रेण जलसमाधिः नैव भवितुं अर्हति । किन्तु यत्र पतसि तत्रैव यदि स्थास्यसि, तदा अवश्यं त्वं जलगर्ते निमंक्ष्यसि ।
एकेन जल्पितम् - अहो ! गुरुः कीदृक् प्रसन्नः वर्ततेऽनिशम् ।
अन्येन निर्दिष्टम् - ओम्, अस्माकं गुरुः नित्यप्रसन्नो वर्तते । अहं चिन्तयामि यद् यः कोऽपि जनः अहंतायाः भारं उत्सारयति निजचित्ततः, तस्य प्रत्येकं पदं, प्रवर्तनं, अनुष्ठानं च प्रसादमधुरं एव भवेत्।
६३
Page #73
--------------------------------------------------------------------------
________________
(३)
मनुष्यस्य आध्यात्मिकी क्षमता कियती भवेत् इति ज्ञानार्थं किं अस्ति कापि पद्धति: ? ।
हव्यः सन्ति खलु ।
एकां प्रकाशयन्तु ननु ।
एकस्मिन् दिने भवान् कति वेला: क्षुब्धतां अनुभवति तद् मृगयताम् ।
(४)
जगति इह केचन जना: ईदृशाः वर्तन्ते ये हस्तिनः पुच्छसदृशां तुच्छां वार्तां बहु मन्यन्ते, अत्र तत्र च तस्याः प्रसारोऽपि ते कुर्वते । किन्तु हस्तितुल्यां बृहत्कायां वार्तां प्रति तु गजनिमीलिकान्यायेन एव उपेक्षन्ते । ईदृशानां जनानां ईश्वरविषयिणीं दृष्टिं आलोचयता गुरुणा एकदा कथितम् -
युद्धे प्रवर्तमाने विमानद्वारा गगनतः अग्निगोलका (Bomb) नां वर्षा प्रारब्धाऽऽसीत् । तदा मया सर्वे जना एकत्रीकृत्य अस्मदीयस्य आश्रमस्य भूगृहे स्थापिताः । प्रातः समयाद् सन्ध्यापर्यन्तं गोलकवृष्टिः निरन्तरं प्रवृत्ता, वयं च सर्वेऽपि तावन्तं कालं तत्र भूगृहे एव विश्रब्धं स्थिताः ।
सन्ध्याकालाद् अनन्तरं द्वौ जनौ एतादृशात् कारावासनिभाद् आवासाद् निर्विण्णौ । ताभ्यां उक्तम् – ‘अतः परं यद् भवेत् तद् भवतु । किन्तु आवां ईदृक्कारावासे अधिकं स्थातुं न शक्नुवः । अतः आवां अधुनैव बहिः निर्गत्य गृहं गच्छावः । कामं गोलकवृष्ट्या मरणं स्यात् ।
बहुधा निषिद्ध अपि तौ निष्क्रान्तौ एव । परन्तु कतिपयक्षणानन्तरं एव तौ तत्र पश्चाद् आगतौ । मया सस्मितं पृष्टौ तौ - मन्येऽहं यद् बहि: गत्वा युवयोः विचारपरिवर्तनं संभूतम् । ताभ्यां सक्रोधं उक्तम् - न आवां गोलकभयेन मृत्युभयेन वाऽत्र पुनः आगतौ । किन्तु बहिः मेघवृष्टिः प्रारब्धा वर्तते । अतः कारणादेव आवां इह पुनः प्रविष्टौ स्वः।
६४
Page #74
--------------------------------------------------------------------------
________________
गुरोः सर्वा अपि प्रवृत्तिः निश्चिन्तं अत्वरं च प्रचलति । सः शनैः शनैः क्राम्यति । शनैः शनैः भुङ्क्ते । शनैः शनैरेव सर्वमपि अन्यत् कार्यजातं विधत्ते च सः।
नितरां अनलसस्याऽपि गुरोः ईदृशीं मन्दतां अवलोक्य सर्वोऽपि जनः अत्यन्तं कौतुकं विस्मयं च आवहति स्म।
जनानां कुतूहलं विज्ञाय एकदा गुरुणा सस्मितं उक्तम्-अरे सुजनाः ! शृण्वन्तु । युष्माकं मनसि मम मन्दतमा प्रवृत्तिं विषयीकृत्य वर्ततेऽतीव जिज्ञासा किम् ? । परन्तु भोः ! अहं किं करवाणि?, त्वराकरणाय मम पार्श्वे समय एव नास्ति !।
'अहं तत्रभवतां भवतां शिष्यो भवितुं ईहे । किमेतद्विषये भवतां अनुमतिः प्राप्स्यते ?' केनचित् पृष्टो गुरुः।
'यावद् युष्माकं नेत्रे निमीलिते स्तः तावदेव यूयं शिष्याः स्थ । यस्मिन् क्षणे युष्माकं नयने उन्मीलिष्यतः, तदाऽविलम्बं यूयं ज्ञास्यथ यद् इह जगति न विद्यते किमपि ताक्, यद् यूयं मम अन्यस्य वा सकाशादेव ज्ञातुं पारयिष्यथ।' गुरुणा प्रत्युत्तरितः सः ।
तेन पुनः पृष्टमः 'यद्येवम्, तदा गुरुः किमर्थं स्वीक्रियते सर्वैः?'। गुरुराह, 'साधनामार्गे गुरुः नितान्तं निरुपयोगी इति शिक्षणार्थमेव भोः !।'
(अनूदितम्)
eGo
Page #75
--------------------------------------------------------------------------
________________
कथा
एकदा, मार्गे कश्चन गच्छन्नासीत् । तेजस्वीनि तस्य नयने मुखं चाऽऽसन् । अज्ञात इव स प्रतिभाति स्म ।
रूपक-कथा
किञ्चित् प्राप्तुमिव तस्य गतिर्वेगवती आसीत् ।
प्रसादयुक्तया च दृष्ट्या सतोषं स सर्वं निभालयति स्म ।
एवमेव गच्छन् एकमनेकजनसङ्कुलं नगरं स प्राप्तवान् ।
किन्तु जनास्तत्र स्व-स्वकार्येष्वेतावन्तो निमग्ना आसन् यन्न केनाऽपि दृष्टिस्तस्योपरि प्रसारिता । अतस्ततोऽग्रे प्रचलितः सः । एकत्र च सम्भूय स्थितं जनसमूहं स दृष्टवान् । तत्र गत्वा स स्थितः। सर्वे जना अपि नवीनं तमागतं दृष्ट्वा तमेव सम्मुखीकृत्य स्थितवन्तः । सोऽपि सर्वेभ्यः कुशलोदन्तं पृष्टवान् सस्नेहम् । पश्चाच्च तेषां सर्वेषां परिचयार्थमेकैकमकार्य पृच्छति
-
वत्स ! कस्त्वम् ?
अहं हिन्दुः ।
तर्हि त्वम् ?
अहमपि तादृश एव ।
भवतः परिचय: ?
अहं मुस्लिमः ।
६६
- मुनिरत्नकीर्तिविजय: ।
Page #76
--------------------------------------------------------------------------
________________
-
तहि भवान् कथमुपलक्ष्यते ? अहम् ? अहं ख्रिस्तः। के यूयम् ? क्षत्रिया वयम्। भवतां संस्तवः? वयं वणिजः। भवान् ?
सीखः। एवं समेषामपि भिन्न भिन्नं परिचयं प्राप्य जात्यभिमानिनश्च तानवगत्य किञ्चित् खिन्न इव स सञ्जातः।
"अत्राऽपि तस्य प्रवृत्तिर्न लब्धा मया। अधुना किं करवाणि?" - एवं नैराश्यं प्राप्य ततोऽग्रे स चलितः।
एवमेव गच्छता तेनैकत्र साधूनां विभिन्ना मठा अवलोकिताः । तत्र गत्वा एकत्र स स्थितः।
अज्ञातमपि तेजस्विनं तं स्थितं दृष्ट्वा कौतुकमिव सर्वे तत्रोपस्थिताः । 'कस्त्वम्' - इत्यपि पृष्टं केनाऽपि साधुना। स नम्रतयोक्तवान् - भवतां परिचयार्थमागतवानस्म्यहम् । किं शक्यमेतत् मे प्रयोजनम् ? 'आम् आम् शक्यमेव' इति सर्वेऽपि कथितवन्तः कयाचिदपि लालसया। 'तर्हि कृपां कुर्वन्तु' - सोऽजल्पत् । सर्वेऽपि क्रमशः स्व-स्वपरिचयं वक्तुमारब्धवन्तः ।
एके - वयं शैवाः । अन्ये - वयं वैदिकाः। अपरे - वयं वेदान्तिनः ।
६७
Page #77
--------------------------------------------------------------------------
________________
इतरे - कापिला वयम् । केचित् - वयमद्वैतवादिनः । केचन - वयं च विशिष्टाद्वैतवादिनः । कतिचन - सांख्यमस्त्यस्माकं मतम् ।
शेषाः - बौद्धा वयम् । श्रुत्वा तेषां साभिमानं परिचयं सोऽत्यन्तं व्यथितो जातः । "अहो ! अत्राऽपि स नोपलब्धः ! किं निष्फलतैव प्राप्स्यामि?"
- इति चिन्तितः सन्नपि सस्मितमेव व्यवहृत्य ततो निर्गतः । निष्फलतापरितापतप्तान्तःकरणेन स्वस्थानं प्रति निवर्तमानेन तेनैकत्र निर्जने एकान्तस्थले एकं कुटिरं दृष्टम् । कश्चिदेकाक्येव तस्मिन् निरीह इव निवसति स्म। ___ "इमं अपि परिचयं पृच्छामि । कदाचित् सफलोऽभविष्यम्" - इति विचार्य स तत्र गत्वा तमपृच्छत् - "को भवान् ?"
सहसाऽऽपतितोऽयं प्रश्न आसीत् । अतः क्षणं तं प्रश्नकर्तारं प्रति अनिमेषं निरीक्ष्य सस्मितं स उवाच - 'अहं मनुष्योऽस्मि ।'
श्रुत्वैनमुत्तरं प्रसन्नता मुखे प्रसृता, नयनयोश्च दिव्यं तेजः स्फुरितम्, अमन्दानन्दामृतसिक्तमिव हृदयं सञ्जातम् ।
"धन्यवादः ! धन्यवादः! प्रसन्नोऽस्मि । अहा ! कियता कालेन मया 'मनुष्यः' प्राप्तः । अद्य च 'मनुष्यं' दृष्ट्वा मम हृदये सन्तुष्टिः सञ्जाताऽस्ति" - इति ईश्वर उवाच ।
eG७
सावधानो भव, यदा सर्वेऽपि तुभ्यं श्लाघन्ते !!
Page #78
--------------------------------------------------------------------------
________________
काणः किं वदेत ?
- मुनिकल्याणकीर्तिविजयः। एकस्मिन् नगरे एकः काणः वसति स्म । स महाधूर्तः महाबुद्धिशाली च आसीत् । निजस्य सर्वतोग्राहिणा शाठ्येन सः अनेकान् प्रतारयितुं साफल्यवान् अभवत् । अथ एकदा स प्रचुरधनं उपार्जयितुं सद्यः फलेग्रहिं उपायं एकं व्यचिन्तयत्।। ___ तस्य गृहे वंशक्रमागतं कोटिमूल्यं रत्नखचितं एकं सुवर्णपात्रं आसीत् । तद् गृहीत्वा स राजसभां गतवान् । ततः राजानं प्रणम्य तस्य आज्ञां च गृहीत्वा तेन घोषणा कृता - 'यः कश्चित् मां अश्रुतपूर्वां कथां श्रावयिष्यति तस्मै अहं इदं सुवर्णपात्रं दास्यामि, किन्तु यदि सा कथा मया पूर्वं श्रुता स्यात् तर्हि तेन जनेन मह्यं पञ्च सहस्राणि दीनाराणां देयानि' इति।।
एनां घोषणां श्रुत्वा बहवः जनाः सुवर्णपात्रस्य लोभेन राज्यसभां आगत्य एकैकशः तं अपूर्वां कथां श्रावयन्ति स्म । किन्तु काणः प्रत्येकं कथायाः अवसाने 'एषा कथा तु मया पूर्वं अपि श्रुता अस्ति' इति अकथयत् । ततः च तेन कथाकारकेन जनेन तस्मै दीनाराणां पञ्चसहस्री दातव्या अभवत् । एवं च गतेषु कियत्सु दिनेषु सः काणः लक्षशः दीनाराणि उपार्जयत्। ___ कर्णोपकर्णं एषा वार्ता विदेशेषु अपि प्रसृता । अथ एकदा ज्ञातकाणवृत्तान्तः कश्चिद् वैदेशिकः नगरं इदं प्राप्तः । ततः कञ्चित् पृष्ट्वा नृपसंसदं गतवान् । नृपतिं सादरं प्रणम्य विज्ञप्तिं कृतवान् - 'प्रभो ! अहं अस्मै काणाय अश्रुतपूर्वां कथां श्रावयितुं ततः च हैमपात्रं जेतुं उद्यतः अस्मि । कृपया मां आज्ञापय।'
नृपेण उक्तम् - 'भोः परदेशिन् ! मा त्वं साहसं अवलम्बस्व । बहवः जनाः अनेन पराजिताः सन्तः प्रभूतं धनं हारिताः । अतः वृथा त्वं निजकीर्ति मा कलङ्कय धनं अपि च मा
Page #79
--------------------------------------------------------------------------
________________
-
हारय' इति । ___ 'प्रभो! अहं सात्मविश्वासः अस्मि यत् अद्य अहम् एव जेता । अतः न अत्र भयकारणं किम् अपि' इति भणित्वा तेन काणाय कथितम् - ____ 'भोः ! तव पिता मम पित्रे दीनाराणां पञ्च लक्षाणि धारयति । यदि इयं कथा त्वया श्रुतपूर्वा तदा तावन्मानं धनं देहि मह्यम् । यदि च अश्रुतपूर्वा स्यात् तहि हैमपात्रं मे दातव्यम्'
इति।
एतत् श्रुत्वा काणः स्तब्धीभूतः । तस्य पादतलात् धरित्री अपसरन्ती इव भाता । यदि सः 'श्रुतपूर्वा इयं कथा' इति वदेत् तर्हि लक्षपञ्चकं वैदेशिकाय दातव्यं, यदि च 'अश्रुतपूर्वा इयं कथा' इति वदेत् तदा तस्य पराजयः तु निश्चितः, सुर्वणपात्रं अपि वैदेशिकाय दातव्यम् ।
अतः भवान् एव कथयतु - काणः किं वदेत् ?
आपदः सम्पदोऽप्यत्र समीपस्था शरीरिणाम् । न शोकहर्षयोस्तरमादर्पणीयं मनो बुधैः ॥
(श्रीमल्लिनाथमहाकाव्ये)
७०
Page #80
--------------------------------------------------------------------------
________________
कथा
वैराग्यम्
अभिराजराजेन्द्रमिश्रः
कतिपयवर्षेभ्यो गृहस्य संस्कारो नाऽभूत् । स्थाने स्थाने इष्टका उत्खातप्राया अदृश्यन्त । सम्मार्जनस्य सम्प्रोञ्छनस्य चाप्यकरणात् नवनिर्मितमपि भवनं जीर्णमिवाभासत् । पुत्रस्य परिणयसमारोहोऽपि समासन्नप्राय आसीत् । अत एव येन केनापि एव न्यूनाधिकव्ययेन गृहस्याऽऽमूलचूडसंस्कारं सम्पादायितुं बद्धपरिकरोऽहमभवम् । स्थपतिस्तावदादौ उत्खातकुड्यां संशोधयेत् पश्चाच्च सम्मार्जका रञ्जकाश्च सुधाचूर्णैर्विविधवर्णमित्रैर्यथायथं गृहभित्तीनामलङ्करणं सम्पादयेयुरित्यासीत् पूर्वनिश्चयः ।
स्थपतिर्मामवदत् – श्रीमन् ! इदानीं यन्त्रमेकमाविष्कृतं वर्तते विद्युच्चालितं यत्खलु सर्वमपि धूलिनिचयं लूतातन्तुजालं कृमिकीटपतङ्गपिपीलिकाशतपदीप्रभृतिसमुदायं च प्रसह्य समाकृष्य नलिकायां पञ्चत्वमुपगमयति । यदि भवाननुमन्येत तर्हि तदेव सम्मार्जकयन्त्रमानयानि । तत्सर्वं समाकर्ण्य सविस्मयं तमवदमहम् भवतु, श्वः प्रभाते एव तथाकरणीयमाख्यास्यामि । स्थपतिरोमित्युक्त्वा स्वगृहं प्रातिष्ठत् ।
सान्ध्यकाले नित्यपूजार्थं सपर्याकक्षे प्रविष्टोऽहम् । गृहसंस्कारसंकल्पवशादतर्कितमेव दृष्टि पूजाकक्षेऽपि केन्द्रिताऽभूत् । प्रायेण चतुर्ष्वपि भित्तिकोणेषु सानन्दं सयोगक्षेमं निवसन्तीनां लूतानां तन्तुजालनिर्मितानि शुष्यद्गृहमक्षिकाशवनिचितानि त्रिकोणषट्कोणवृत्ताऽर्धवृत्तनवग्रहचक्रादिसंवलितानि विलासभवनानि विलसन्ति स्म । कियदमन्दानन्दसन्दोहसङ्कुलितमासीत् जीवानामेषां जीवनमिति विचारयत एव ममासीच्चेतसि - हन्त ! समर्चनाप्रारम्भे एव शान्तिपाठो मया विधीयते । अभयमन्त्रा मया सप्रणयं समुच्चार्यन्ते । आत्मकल्याणार्थं विविधस्तुतिपाठैर्भगवती पराम्बा मया नित्यमनुनीयते । परन्तु स एवाऽहमेषां निरागसां जीवानां कृते
-
७१
Page #81
--------------------------------------------------------------------------
________________
यमाचरणं विधातुं बद्धपरिकरोऽस्मि ? क एतेषामपराध: ? न खल्वेते विवेकवन्तो मानवा इव प्रसमीक्ष्याऽपकारिणः । न खल्वेते दुर्भावनाग्रस्ताः सन्तः कस्यचिद्भवनं दूषयन्ति । आवासस्तु समेषां जीवानां प्रीततमः । केचिद् बिलं निर्माय, केचित्कुलायं, केचित्तन्तुजालं, केचिच्च तरुकोटरमेव निर्विघ्नं सन्दृश्य निवसन्ति । यद्येभिस्तन्तुजालं निर्मितं तर्हि कथं न निर्माणकौशलार्थमभिनन्दनीया: ? कथं दण्डनीया एव ?
इत्येवमादि मन्वान एवाऽहं गृहसंस्काराद् विरक्तो जात: ।
coo৩
अनित्यताकृतमतिः शुष्क माल्यो न शोचति । नित्यताकृतबुद्धिस्तु भग्नभाण्डोऽपि रोदिति ॥ (श्री मल्लिनाथमहाकाव्ये)
७२
Page #82
--------------------------------------------------------------------------
________________
कथा
९५१
यशोलिप्सा
-अभिराजराजेन्द्रमिश्रः
पत्नी कतिपयवर्षभ्यो रुग्णाऽऽसीत् । वस्तुतो जन्मतः प्रभृत्येव साऽनेकरोगग्रस्ता समदृश्यत । समागत एव ग्रीष्मकाले शरीरं तस्याः लघुपिण्डकैर्निचितं भवति स्म। कासरोगोऽपि तस्या नियतसहचरः पर्यलक्ष्यत । दन्तव्याधिः कादाचित्कश्चोदरशूलरोगस्तां नितरां शातयन्तावास्ताम् । परन्तु समतिक्रान्त एव शैशवे रोगा इमेऽपचयं जग्मुः । समुपारूढे यौवने सा स्वयमपि शरीररक्षापरा सञ्जाता । निरन्तरं दन्तपङ्क्तिधावनेन कर्पूरलवङ्गादिचर्वणेन च दन्तव्याधिरश्शान्तः । स्फोटकपिण्डकादिपरम्पराऽपि नित्यस्नानादिभिर्विच्छिन्ना जाताः ।
तावदेव परिणयसूत्रनिबद्धा सती सा गृहिणी सञ्जाता। सौभाग्यवशात्पतिस्तस्या लेखाकारकार्यालयेऽधीक्षकपदं बिभर्ति स्म । स्वभावादेव परमशान्ता विनयवती पतिपरायणा च सा पत्युर्हृदयं स्वगुणैर्जिगाय । सम्प्रति सा पुत्रत्रयं पुत्रीञ्चैकां प्रसूय सौभाग्यकाष्ठामधिरूढाऽऽसीत् । तस्या गृहे जीवने च सर्वतोभद्रं पर्यलक्ष्यत ।
परन्तु 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्' इति यदुक्तं श्रीमद्भगवद्गीतायां तत्तस्या जीवने चरितार्थतामभजत् । उदरशूलव्याधिः पुनर्नवतां भेजे । प्रारम्भे तु पथ्यादिभिः औषधोपचारैश्च क्षणिकं सौख्यं जायते स्म । परन्तु विगतत्रयमासेभ्यो व्याधिरयं स्फारतामुपगतः । औषधानां प्रभावो निरर्थकः सञ्जातः । एतन्निभालय पतिस्तस्या नगरस्य ख्याततमभिषजं मन्त्रितवान् । सोऽपि दुस्सहोदरशूलकारणान्यन्वेष्टुं बहुविधां परीक्षां कृतवान् । अन्ते चाऽसौ निश्चितवान् यत् पित्ताशये पाषाणशकलानां निर्मित्यैव दुस्सहपीडेयं समुत्तिष्ठति । अथ च शल्यक्रियामपहाय नाऽन्यः कोऽपि प्रशस्तोपायो रोगापनोदनस्य ।
|
भिषक्सम्मतिं ज्ञात्वा पतिः शल्यक्रियायै स्वानुमतिं प्रददे । नाऽऽसीत्काचित्समस्या ।
७३
Page #83
--------------------------------------------------------------------------
________________
भिषग्वर्यः स्वकर्मणि कुशलो लब्धयशाश्चाऽऽसीत् । सर्वाधुनिकसाधनोपपन्न आसीत्तस्य शल्यक्रियाकक्षः । शल्यक्रियातिथिरपि सुनिश्चितः । सर्वेऽपि कुटुम्बिनस्तस्याः सविधे समुपस्थिता आसन् । दारकाः प्रतिवेशिनो मातृगृहबान्धवाश्चापि प्रमुखास्तत्समीपे स्थिताः । तथापि सा केवलमेकमेव प्रियजनं विस्फारितनेत्राभ्यां प्रतीक्षमाणाऽऽसीत् । स आसीत्तस्या जीवनज्योतिर्भूतो दयितः।
शल्यक्रियावेला समासन्ना जाता। सन्ध्याकाले चतुर्वादनक्षण एवाऽऽसीत्तस्याः पर्यायः । पतिस्तस्याः तावता कालेनाऽपि नाऽऽयातः । सम्प्रत्यसौ महालेखानियन्त्रक आसीत् । शल्यक्रियाकक्षप्रवेशात्प्रागेव कश्चित्सेवकस्तत्प्रेषितां चिटिकामेकामादाय समागतो यस्यां लिखितमासीत् -'प्रबन्धसमितेरधिवेशनं सम्प्रत्यपि प्रवर्तते । अतो नाऽऽगन्तुं पारये । अलं चिन्तया । शल्यक्रियां सपादय ।' तच्छुत्वैव सा मूर्छामुपगता।
e-
धीरैरैः समर्यादैः सत्त्वं रक्ष्यं विवेकि भिः । समापन्ने निजप्राणसंशये सुमहत्यपि ॥ १ ॥ सत्त्वमेकमिदं मा गात् सर्वमन्यद् भविष्यति । सति कन्दे न सन्देहो वल्ल्याः पल्लवसम्पदाम् ॥२॥
(श्रीमल्लिनाथमहाकाव्ये)
Page #84
--------------------------------------------------------------------------
________________
संस्कृतिः ?
सन्तोषः आनन्दः शास्त्री
सूरत "पश्यतु, पश्यतु ! कीदृशी संस्कृतिरभूदस्य भारतवर्षस्य ? अद्यत्वे तु रसातलमुपागता सा।", विनोदः साश्चर्यमवदत् । विनोदः, मम बाल्यकालमित्रमध्ययनसमाप्तेः पश्चादत्र चाकचिक्यचर्चितायां मुम्बईनगर्यामाजीविकार्थं समागतवान् । विले-पार्लेगन्तुकामावावां बान्द्रारेलविरामस्थाने प्रतीक्षारतौ स्थितवन्तावास्व स्थानिकरेलयानार्थम् । तदा संस्कृतिविषयकं गुरुगभ्मीरप्रश्नमुत्थापितवान सः।।
"भोः ! तादृशं किमभवद् यदावयोर्लघुचर्चामध्ये ईदृशी गुर्वी चर्चा विना कारणेनैवाऽऽपतिता?" इति मया पृष्टे पुरो नाऽतिदूरावस्थिता लघुकायवस्त्रावेष्टिता पाश्चात्यपरिवेशधारणप्रसन्ना उन्मुक्ता नवयौवनैका सङ्केतिता। "अहो! इयं तावद् वर्तते भवदाश्चर्यविषया ! किन्तु क्षणं विचारयतु । इयं जीवनशैली, इयं वेशभूषा च दैनन्दिनधावनशीलायास्तीव्रगतिसम्पन्नाया अस्या अत्र व्यावसायिकनगर्यां महती आवश्यकता। यदि न रोचते भवते खलु तदा नैरपेक्ष्येण तिष्ठतु । किमनेन खेदेन ?" इति सनिःश्वासं मयोक्तम् ।
पश्चादावामन्यवार्तानिमग्नौ जातौ परन्तु मध्ये मध्ये स तामेव लुब्धनेत्राभ्यामवलोकितवान् । 'किमन्यचित्तको भवान् ? '' इत्युक्तवति मयि कुटिलं हसित्वा स उच्छ्वसितमिवाऽब्रवीत् "चित्तं ममाऽपहृतं तया बालया" इति ।
अनेनोत्तरेण विचारसागरनिमग्नोऽहमविचारयम्- "किं इयमेव परिभाषा संस्कृतेः? "
eGo
७५
Page #85
--------------------------------------------------------------------------
________________
रङ्गमञ्चः
////////
मोहजित अथवा प्रेमपरीक्षा
श्रीब्रह्मानन्देन्द्रसरस्वतीस्वामिनः योगवेदान्तमहाविद्यापीठम् मत्तीकोप्प पो. कल्मने ता. सागर जि. शिवमोग्गा - ५७७४०१ (कर्णाटक)
तैलकारः
पितापुत्रौ
सूचिक:
वृद्धा
पात्राणि
विद्याधरः- राजा गुणनिधि:-मन्त्री
विक्रमः - राज्ञः पिता
सुमतिः - मोहिनी - विलासिनी - राजमहिष्यः
गोपालकः
राजकुमारः सम्मार्जक दम्पती
७६
Page #86
--------------------------------------------------------------------------
________________
-
साधुः
राजा
पूर्वभागः
म प्रथमं दृश्यम् : (राजा विद्याधरः सिंहासनारूढ आस्ते । पार्वे राज्यः सुमति-मोहिनी-विलासिन्यः तिष्ठन्ति ।
राजनर्तक्या नाट्यसमाप्तौ साधुः राजानमुपसर्पति ।) राजा साधुवर्य ! अस्मच्छासने प्रजाः सर्वाः सन्तुष्टाः सन्तीति संभावये।
राजन्! तव पराक्रमः, औदार्य, प्रजावात्सल्यञ्च जनजनिताः सर्वत्र । मुक्तकण्ठाः प्रजास्त्वां प्रशंसन्ति । राजमहिषीणां तु विषये न तास्तावदभिनन्दन्त इति निवेदयामि। हाँ? कथमेतत् ? मोहिनीविलासिन्यौ कनीयस्यौ मे महिष्यौ मयि भृशमनुरक्ते एव खलु ? नाऽत्र संशयलेशोऽप्यस्ति । सुमत्यास्तु ज्येष्ठमहिष्याः विषये तावदहं
नूनमुदासीनः । नाममात्रेणैव सा मे राज्ञीत्येव मे मतम्। साधुः आमाम् । कनीयस्या महिष्या कर्णपीडनमप्यायन्ति राज्ञः । राजाः सत्यम् । कनीयस्यो महिष्योः कृतेऽहं राज्यं प्रभुत्वं सर्वमपि त्यजेयम् । ते
मोहिनीविलासिन्यौ सुवर्णपुत्थल्यौ पूज्यपाद!, सुवर्णपुत्थल्यौ, सत्येन ते शपे। न जाने कस्य पुराकृतस्य पुण्यकर्मणः परिपाकफलमिदं सुन्दरीमण्योरेतयोः
महिष्योः प्राप्तिः । अहो मे भाग्यम्।। साधुः सर्वं चमत्कारि न सुवर्णम्, प्रभो ! प्रेम, पातिव्रत्यं, शीलं, सर्वमेतत् सुष्ठ
परीक्ष्यैव निरूप्यन्ते नाऽपरीक्ष्य ।। राजा
तहि परीक्षा भवतु पूज्यपाद!। साधुः एवं क्रियताम्, प्रभो ! त्वया किञ्चिदवधि स्वं भृशं मरणान्तिकं रुग्णं नाट्यता
मृत इव मञ्चे शयनीयम्। तथा वा? । अस्तु तर्हि (राजा मृत इव मञ्चे शेते । मोहिनीविलासिन्यौ मञ्चस्य पार्श्वे स्थिते म्लानवदने दूयमाने संदृश्यते ।)
राजा
७७
Page #87
--------------------------------------------------------------------------
________________
साधुः (आगत्य) नारायण! नारायण!
(उभे महिष्यौ साधुं प्रणमतः) - उत्तिष्ठतम् । आयुष्यमत्यौ भवतम् । महिष्यौ (भृशं उच्चैः रुदत्यौ) पूज्यपाद! कथमप्युज्जीवयतु अस्मत्प्रभुपादम् । तत्कृते
यद्यत् कष्टं सह्यं भवेत्, तत् सर्वमावां सहिष्यावहे । दयां करोतु। आवयोरातयोः
दारुणदुःखपीडितयोः। साधुः तर्हि एवं कुरुतं महिष्यौ ! करण्डके पुरोऽवस्थिते विषं वर्तते, भीकरं विषम् ।
तस्मिन विषे भवत्योः कयाचित् पीयमाने झटित्येव निद्रात इव सजीव उत्थास्यते
राजा । मा भैष्टम् । मोहिनी पूज्यपाद! सर्वस्य प्राणिजातस्य प्राणाः अमूल्या ननु? तत्कथमावामेवमुपदिशति
प्राज्ञो विषपानं भवान् । तन्न नैव विषं पास्याव आवाम् । विलासिनी समस्तं प्राणिजातं कीटपतङ्गपशुपक्षिणोऽपि स्वं सजीवं वाञ्छन्ति । नेदं साधु
यदावां विषं पिबतमित्यागृह्णाति भवान् । यदि पीते विषे राजा सजीव उत्तिष्ठेत
तहि कुतो न भवानेव परमदयालुः विषं पीत्वा आवां समुद्धरेत् ? साधुः (साश्चर्यं, स्वगतं ) अहो, पति कञ्चद्वरय परिणयेत्युक्तवन्तं मां त्वमेव मे पतिरिति
प्रतिवदतः एते नारीमण्यौ । मत्प्रयुक्तेन अस्त्रेण मामेव प्रहर्तुमुपक्रमेते एते । अस्तु, अस्तु। (प्रकट) भो महिष्यौ ! तिष्ठतं तावद् यावत् प्रतिनिवर्ते। (साधुवर्यः स्तोकावधिपर्यन्तं नेपथ्यान्तरे निलीनस्तिष्ठति । नारीमण्योराचरितं रहसि वीक्षते।) (विजनं संनिवेशं प्राप्य महिष्यौ राज्ञः कलेवरमुपसृत्य तस्य किरीटाङ्गुलीयादिकमवमुच्य मिथो ममैतत् किरीटं, ममैतदगुलीयकमिति सरभसं कलहं प्रारभतः । साधुः नेपथ्याबहिरागत्य तत्र स्थितं 'विषकरण्डकमुद्धृत्य' 'विषं' निपीय स्मयमानस्तिष्ठति । अत्रान्तरे सर्वं समीक्षमाणो राजा झटित्युत्थाय भृशं क्रुद्धो महिष्यावुद्दिश्य) 'धूर्तनार्यो ! इतः अपगच्छतम् । मामेतावत्यपर्यन्तं
७८
Page #88
--------------------------------------------------------------------------
________________
राजा
साधुः
पातिव्रत्यं नाटयित्वा स्वार्थलाभाय वञ्चितत्यौ इतो निर्गच्छतम्, हुम् । नाऽहमितः प्रभृति युवयोधूर्तनार्योर्मुखमपि द्रष्टमिच्छामि । (नेपथ्ये भजगोविन्दस्तोत्रं - "यावज्जीवो निवसति देहे कुशलं तावत् पृच्छति गेहे। गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥" इतीदं गानं श्रूयते । महिष्यौ भृशं लज्जिते त्वरितं ततः अपक्रामतः । तयोर्हस्ताभ्यां प्रच्युतान्याभरणानि सर्वत्र विकीर्यन्ते । साधुः उच्चैर्हसन् राजानमुपसर्पति ।) (सखेदः) भो पूज्यपाद ! मन्निमित्तमेतद् भवते सर्वानर्थकरं समापन्नम् । क्षन्तव्यो मेऽपराधः स्वामिन् ! भीकरं प्राणान्तकं दारुणं विषं पीत्वा अपि सजीवस्तिष्ठति भवान् । ननु संभ्रान्तोऽस्मि भोः ! (विहस्य) नात्र कश्चिदनों मां समापन्नः, प्रभो ! मा भैषीः । करण्डके स्थितो जम्बीरफलरसोऽतीव स्वादुरासीत् । तिष्ठतु तद् राजन् ! मोहिनीविलासिन्योस्तव सुवर्णपुत्थल्योः भार्याशिरोमण्योः पातिव्रत्यं सुष्ठ निरूपितं ननु, परीक्षितं खलु? (राजा चकितः उत्थाय साधुसहितो निष्क्रमते ।)
द्वितीयं दृश्यम् - (मन्त्रिणमुद्दिश्य) मन्त्रिवर्य! एतावत्पर्यन्तं तयोर्मोहिनीविलासिन्यो रूपलावण्यादौ व्यामूढोऽहं तयोरनुरक्त आसम् । इदानीं मे तयोविषये भ्रमनिरसनं सञ्जातम् । इतः प्रभृति सुमतिर्मे ज्येष्ठमहिषी क्षुभितचित्तं मां नूनं प्रसादयिष्यति । तामेवावलम्बे मन्त्रिवर्य ! आमाम्, सत्यम् । असंशयं सुमत्येव इतः परं ते निर्वृतिदात्री । तथापि न किञ्चिदपरीक्ष्य ग्रहीतुं युक्तं खलु ? परीक्ष्यतां तस्या अपि पातिव्रत्यमिति सूचयामि । कान्तं सुर्वणमपि दग्धमेव सुपरीक्षितं भवति ननु । एवं महाराज ! श्वः कल्य एव उत्थाय समस्तसेनासमेताः सर्वे वयं समीपस्थं मगधदेशं प्रति
राजा
मन्त्री
७९
Page #89
--------------------------------------------------------------------------
________________
राजा
मन्त्री
अभियास्यामः । मगधराजं विरुद्ध्य प्रवृते घोरसंग्रामे विद्याधरो राजा निहत इति मृषैव घोषयिष्यामः । एतद् भीकरं दुःश्राव्यं दुरन्तवृत्तं श्रुत्वैव तत्क्षणमेव यदि झटिति सुमत्याः प्राणाः विमुच्यन्ते, सा च मृता निपतति तदा तस्याः त्वयि अनन्योऽनुरागोऽकुण्ठितं च पातिव्रत्यमिति निःसन्दिग्धं निरूप्यते । तथैवास्तु। (उभौ निष्क्रामतः नेपथ्ये राजभटैः। 'हतो राजा संग्रामे' इत्युद्घोषणम् क्रियते । राजभटेषु 'हतो राजा संग्रामे' इति राजधान्यां घोषयत्सु तत्समकालमेव सुमत्याः प्राणपक्षिणः शरीरनीडं विहाय निरगच्छन् । राजपरिजनाःतस्याः पार्थिवशरीरं अग्निस्पर्शाय स्मशानभूमि प्रति नेतुमुधुक्ताः।। प्रभो ! सुदारुणा वार्ता श्रूयताम् । श्रुतवत्येव पतिदेवस्य मरणवार्ता सुमती ज्येष्ठमहिषी चण्डवातोन्मूलित इव कदलीस्तंभो भूमौ निपत्य प्राणानजहत् । तस्याः पाथिव-शरीरं स्मशानं प्रति नीयमानं वर्तते, प्रभो!। (दिग्भ्रान्तः) हाँ ? सुमतिम् ? स्मशानं प्रति ? न, नैव, तस्य अवकाशो नैव दीयते । तया सह अहमपि भस्मीभवेयम् । नाऽहं तद्वियुक्तो जीवितुं पारयामि। (आक्रोशति) हा सुमते ! धिङ् मां मूर्खसाहसं पातिव्रत्यनिरूपणव्यसनिनम् । तिष्ठ तिष्ठ, अहमपि त्वया सह यास्यामि। (समुत्थाय सुमतिकलेवरं स्मशानं प्रति नीयमानमनुगच्छति तस्याः कलेवरं अङ्के निधाय खिन्नमानसो दूयमानहृदयोऽश्रूणि मुञ्चन् संभ्रान्तस्तिष्ठति ।) किमिदं प्रभो! मृतकलेवरे काष्ठप्राये व्यामोहः? शुष्कं काष्ठेन्धनमपि कदाचित् प्ररोहेत्, मृतकलेवरस्य पुनरज्जीवनं तु नैव । तदुत्तिष्ठतु राजन् ! दहनक्रियां निर्वर्त्य प्रतिनिवर्तामहै। मृगश्वापदनिबिडे घोरराण्ये क्षीणप्रकाशे दिवसावसाने न युक्तमुपस्थातुम् । राजहीने राज्येऽराजकत्वं ताण्डवं लास्यति, लुण्ठाकाः धूर्तापसदाः रस्यन्ते । अलमनेन अरण्यरोदनेन वृथाविलपनेन।
राजा
मन्त्री
Page #90
--------------------------------------------------------------------------
________________
राजा
राजा
(भृशं क्रुद्धः) नैव । नाऽहं राज्यलिप्सुः । न मे राज्यकोशाधिकारलालसा । कामं यूयं पुरजनैः सह प्रतिनिवर्तध्वम् । (भीतभीतास्ते सर्वे ततो निष्कामन्ति । राजा समुत्थाय महिष्या: कलेवरं स्कन्धमधिरोप्य स्मशानदेशादपसर्पति । अनतिदूरे च कञ्चिद् व्रजमुसर्पति ।) ।
तृतीयं दृश्यम् । (कञ्चित् गोपं स्वगेहस्य द्वारि स्थित्वा स्वोत्सङ्गस्योपरि रिक्तहस्तं घृषन्तं रज्जुनिष्पादने रतमुपलक्ष्य ।) अरे ! कोऽसौ तव मोघोद्यम इति पृच्छामि । सर्वो लोके रज्जुनिष्पादनाय तन्तून् नारिकेलस्य कार्पासस्य अन्यस्य वा संगृह्णाति । त्वं तु रिक्तहस्तो रज्जु निष्पिपादयिषसि । अनेन कदाचित् रज्जुः निष्पाद्यते वा? नूनमविरतघर्षणेन एवं भृशं घृष्यमाणो निपीड्यमानस्तव उत्सङ्गोः रक्तः
सञ्जायते ननु ? न ततोऽधिकं किञ्चिदत्र तव सिद्धं पश्यामि। गोपः किमिदमुच्यते प्रभो ! ? यदि मृतकलेवर उह्यमानः पुनरज्जीवेत् तर्हि कुतो न
रिक्तहस्तेन उत्सङ्गघर्षणेन रज्जुनिष्पाद्येत? (स्वगतं) आमाम् । सत्यमुच्यते त्वया । (ततोऽपसर्पति)
चतुर्थं दृश्यम् । (स्कन्धाधिरूढभार्याकलेवरः अग्रे गच्छन् अनतिदूरे कञ्चित् तैलनिष्पादकं तैलनिष्पीडने रतं पश्यति । तं च तैलकारं तैलबीजं विनैव तैलयन्त्रं चालयन्तं परिलक्ष्य)
भो भोः ! किं तत्र त्वया निष्पीड्यते इति पृच्छामि। तैलकारः सिकता। सिकतां निष्पीड्य तैलं निष्पिपादयिषामि ।
राजा
राजा
८१
Page #91
--------------------------------------------------------------------------
________________
चित्रमेतत् ननु ? लोके तैलप्रेप्सुभिः तिलसर्षपादिबीजा: गृह्यन्ते । तैलबीजं विना कथमेष तैलनिष्पीडनोद्यम: ?
तैलकारः किमेवमुच्यते स्वामिन् ! यदि काष्ठंगतः कलेवर इतस्तत उह्यमानः पुनरुज्जीवेत् तर्हि कुतो न तैलबीजं विनापि तैलं निष्पाद्येत ?
राजा
राजा
पञ्चमं दृश्यम्
(अग्रे चलति राजनि तत्र कस्मिंश्चत् ग्रामपरिसरे पिता स्वपुत्रकाय अर्भकाय इक्षुखण्डं प्रदापयन् इक्षुविक्रेत्रासह संलपन् दृश्यते ।)
भो भो ! मत्कुमाराय इक्षुलालसाय इधुं प्रयच्छ। (इक्षुविक्रेता इक्षुं प्रयच्छति। तद् गृहीत्वा स पिता तमिक्षं भङ्क्त्वा इक्षुखण्डान् अर्भकाय प्रयच्छति ।) (उच्चैराक्रोशन् भृशं रुदन्, इक्षुखण्डान्निराकुर्वन् पितरं प्रति ) कुत इधुं बभङ्क्थ ? तदेव पूर्वस्थितं अभग्नमिक्षं मे यच्छ । नाऽहमेतान् इक्षुशकलान् गृह्णामि । तदेतान् शकलान् पुन: संयोज्य पूर्णं संपाद्य प्रयच्छ (भृशं रोदिति ) । (तौ उपसृत्य) भो महाशय ! कुत एषोऽभर्को रोदिति । सोऽसौ किमीहते ? कुत एष त्वां भृशं क्लेशयति ?
पश्यतु स्वामिन् ! वराकोऽयं इदं यच्छ, अदो यच्छेति सदाऽऽगृह्णाति । अथेक्षौ दापिते शकलीकृतमिक्षं तिरस्कुरुते । तानेव शकलान् पुन: संयोज्य पूर्णमिक्षं प्रयच्छेति आगृह्णाति, यथैव भवता विवेकशालिनाऽपि विदेहा भार्या अपगतजीवा अपि संयोज्यमाना प्रेप्स्यते । (राजा तस्य बोधपूर्णं वचः श्रुत्वा ततोऽपसर्पति ।)
पिता
अभर्कः
राजा
पिता
(स्वांसे उह्यमानं पत्नीकलेवरं परिवीक्ष्य स्वगतं ) सत्यमुच्यतेऽनेन । कथं वा मृतकलेवरस्य पुनरुज्जीवनं सम्भवेत् ? नैव खलु ?
८२
Page #92
--------------------------------------------------------------------------
________________
षष्टं दृश्यम् (महिषीकलेवराधिष्ठितस्कन्धोऽग्रे सरन् पथि पार्श्वे कस्यचित् सूचिकस्य आपणमुपगम्य
तत्र किंचिदिव विश्राम्यति । अत्रान्तरे वृद्धा काचित् सूचिकमुपसर्पति ।) वृद्धा भो भो ! दीपावली सन्निहिता। मम पुत्रकाय अधोरुकमेकं सीव्यताम्। सूचिकः तथास्तु मातः । सकृदानय तवार्भकम् । सुष्ठ मापनं कृत्वा तस्य अोरुकमेकं
सीव्यामि। वृद्धा किमेवं वदसि भोः ! सीव्यतादोरुकम् । कृतं मापनादिना । सीवने
कृतचिर-परिश्रमस्य तव मापनादि नापेक्ष्यते । ऊहित्वा सीव्यताद?रुकं मत्पुत्रकाय । सोऽतीव चपलः, सदा क्रीडारतः । क्षीरं पिबेति मुहुर्मुहुः बलात्कृतोऽपि नैव पिबति । उपहृतं च अन्नपानादिकं तिरस्कुरुते । प्रायेण आनक्तं क्रीडारतो यदा कदा वा स्वेच्छया गृहमेति । उक्तं नशृणोति,अनुक्तं च
करोति । सूचिकः अस्तु मातः ! पञ्चषदिवसेषु ते पुत्रकस्य अ|रुकं संसीव्य प्रयच्छामि । तदा
त्वत्पुत्रकं समानय । अत्रैव परिदधतु, तुष्टो भवतु । वृध्दा एवमेवाऽस्तु महाशय ! सीवने विलम्ब मा कुरु । पञ्चषदिनानन्तरं पुत्रकसमेता समागच्छामि।
(पञ्चदिनानन्तरं-) वृद्धा .
(पुत्रकसहिता सूचिकमुपगम्य) महाशय सिद्धं ! वा, स्यूतं मेऽर्भकस्य अोरुकं? पश्य इदमिदमागतोऽस्ति मे पुत्रकः पिञ्छणि कृतपूर्वसेवावृत्तिवेतनं गृहीत्वा । (वत्समुद्दिश्य) आगच्छ वत्स! अर्धारुकं परिधत्स्व। (वृद्धा अशीतिवर्षप्रायं 'पुत्रकं' हस्ते गृहीत्वा सूचिकस्य पुरतः स्थापयति ।
सूचिकश्च सिद्धमोरुकं लघुपरिमाणं वस्त्रपेटिकाया उद्धृत्य प्रयच्छति ।) * PENSION इत्यर्थः ।
Page #93
--------------------------------------------------------------------------
________________
सूचिक: गृहाण मातः ! परिधीयतां तव पुत्रकेण अर्धोरुकम् ।
वृद्धा
सूचिक:
राजा
वृद्धाः
राजा
( चकिता असंतुष्टिं सूचयन्ती) किमेवमकरो: महाशय ! ? एतावल्लघुपरिमाणमर्धोरुकं स्यूतवानसि ? कथं स एतत् लघुपरिमाणर्धोरुकं परिदधेत् ? किमेवमागृह्णासि मात: ? पुत्रकाय अतिचपलाय सदाक्रीडारताय अर्धोरुकं सीव्यतामिति खलु त्वं मामदिष्टवती ? तदनगुणं मया स्यूतं, को वा मे ऽपराधोऽत्र ?
(वृद्धा - सूचिकयो: संव्यवहारमुपश्रुत्य ) अहो गृहिणः पुत्रव्यामोहः । सोऽयमशीति-वर्षवयस्को जरठोऽपि तस्या मुग्धवृद्धमातुः कृते 'पुत्रक' एव तिष्ठति ।
यथा भवतोऽपि भार्यामोह: । विवेक्यपि भवान् मृतशरीरं स्कन्धेऽवरुह्याऽयट्यसे । (राजा तस्या वचः श्रुत्वा ततो मन्दं मन्दं प्रयाति ।)
सप्तमं दृश्यम्
(अत्रान्तरे समीपस्थाद् देवमन्दिरात् कस्यचित् हतभाग्यस्येव आर्तनादः श्रूयते। शृण्वन्नेव समुत्थाय तद्देशमुपगम्य मन्दिरं प्रविश्य तत्र हस्ताभ्यां उरसि शिरसि ताडयन्तं नष्टसर्वस्यैव तारं विलपन्तं साधुवर्यं पश्यति । स एवाऽयं यः पूर्वं महिष्योः पातिव्रत्यनिरूपणावसरे 'विषं' निपीतवान् । इदानी तुं किञ्चदिव प्रवृद्धश्मश्रूः । स एवाऽयमिति प्रत्यभिज्ञातुमशक्यः।)
(स्वगतं) कश्चिद् वराको हतभाग्य इव परिलक्ष्यते । तदस्य दारुणं दुःसहं संकष्टं किं संजातमिति पृच्छामि। (स्कन्धात् भार्याकलेवरमवारोप्य तं कलेवरं वृक्षच्छायायां विनिवेश्य साधुमुपसर्पति ।) भो: साधुवर्य ! किमापन्नं तव ? वयं गृहिणस्तावच्चिन्तापरिमेयैः बन्धुजनवियोगेन अर्थहान्या च बहु क्लिश्यामः । भार्या - पुत्र - वित्ता- कुटुम्बनिर्वहणभार - पीडिताः सन्तः दुःख्यामः ।
८४
Page #94
--------------------------------------------------------------------------
________________
साधुः
सर्वसङ्गपरित्यागिनां त्यक्तसर्वपरिग्रहाणां वीतमोहानां भवादृशां दुःखशोकौ संभवेतां वा कथमिति पृच्छामि भोः ! भो राजन् ! कथमहं वर्णयेयं ममैतां दारुणां दुःसहां वेदनां श्रीमन् ! ? ममैकं भाण्डभाजनं बहूपयोगि चिरं मया बहूपयुज्यते स्म । तदेकमेव भोजनभाजनं, जलभाण्डं, स्वपतो मे तल्पः, विरहोपशमनं कदाचित् परिरभ्यमाणं प्रियसुहृत्, जानासि मे जीवनाधारस्य नित्यानपायिनः सुहृत्सखस्य परेधुः किमापन्नमिति ? बुभुक्षरहं कुतश्चित् कृच्छ्राद् भिक्षितं भाण्डपूर्ण कुञ्जलं यावकाञ्जिकं उद्धृत्य पातुमुधुक्तः तत्काल एव कुतश्चिद् गृध्र एकः गगनादवतीर्य हस्तधृतं मे भाजनं प्रहृत्य पातयित्वा काञ्जिकं सर्वं भूमौ यत्र कुत्र वा विकीर्य निरगात् । प्रियसुहत्सखं मे भाण्डभाजनं भग्नं शकलीकृतं पश्यन् भग्नहृदयोऽहं तिष्ठामि । किं मे जीवितेन प्रियसुहृद्विरहिणा? नष्टसर्वस्य हतभाग्यस्य मम जिजीविषा तावन्नास्ति । जगत्सर्वं मे निःसारं सञ्जातम् । (रोदनं नाटयति ।) भो ! भो उन्मत्तवातूल ! नूनं तव दुःखवेदनं विचित्रं दृश्यते । आगच्छ, राजधान्यां कोशागारे शतशः सहस्रशो भाण्डभाजनानि प्रयच्छामि नष्टस्य तव भाण्डभाजनस्य स्थाने । एतन्निमितं एवं रोदनं विलपनं नूनं बालिशं खलु ? न, न । नाऽहमन्यं भाण्डं गृह्णामि । तदेव भाण्डं यद् गृध्रेण पातयित्वा शकलीकृतं तदेव भाण्डं वाञ्छामि, नाऽन्यं भाण्डं वरये । (म्लानमुखस्तिष्ठति ।) नूनमुन्मत्तोऽसि साधो ! भग्नं भाण्डं यथापूर्वं संयोज्य तदेव पूर्णमभग्नं संपादयितुं शक्यते वा सुनिपुणेनापि कुम्भकारेण? लोके प्रियबन्धुजनवियोगे रुदतो वयं पश्यामः न तु भग्नभाण्डभाजनस्य कृते । मृतकलेवरः काष्ठलोष्टसमः व्यसुः यदि पुनरुज्जीवयितुं पार्यते, कुतो मे भग्नं शकलीकृतं प्रियभाण्डं पुनः पूर्णं संपादयितुं न शक्ष्यत इति विलपामि श्रीमन् ! (समुत्थाय ततोऽपसृत्य वृक्षाधोनिवेशितं भार्याकलेवरं अङ्के निधाय चिन्तयति)
राजा
साधुः
राजा
साधुः
राजा
८५
Page #95
--------------------------------------------------------------------------
________________
साधुः
राजा
अहो ! साधुवर्येण यदुक्तं ' भग्नं भाण्डं पूर्णं संपादयितुं कुतो न शक्ष्यते' इति तेन तस्य वचसा संभ्रान्तोऽस्मि । तमेव महात्मानं पृच्छामि तस्य वचः अन्तरार्थं विवरीतुम् । (समुत्थाय साधुमुपसर्पति) भोः स्वामिन् ! 'यदि काष्ठलोष्ठप्रायं मृतकलेवरं पुनरुज्जीवयितुं पार्यते कुतो न भग्नभाण्डं पुनः पूर्णं संपादयितुं शक्ष्यते ' इति यदुक्तं भवता तस्य वो वचसोऽन्तरार्थं नाऽवगच्छामि, तन्मे सदयं विशदयतु भवानिति विनतः संप्रार्थये ।
पश्य भोः ! परमात्मा प्रभुः सृष्टिकर्ता सुनिपुणः कुम्भकारः । सर्वे वयं तस्य हस्ते आर्द्रमृत्तिकारूपेण गृहीताः स्मः । यावत्पर्यन्तं मृत्तिकायामार्द्रताऽस्ति तावत्पर्यन्तं तस्या मृत्तिकाया: कुभ्भकारेण कुलालचकमारोहयित्वा दण्डेन मर्दयित्वा उपर्यधः परिवर्तनात् भाण्डशरावादिविभिन्नाकृतीनां धारणाद् विमोक्षो नास्ति । एवमेव आर्द्रमृत्तिकायास्तस्या भूमौ निपत्य, धावतां जनानां पशूनां च पदसंघट्टनेन भञ्जनाद् विमोक्षो नैव । यथेदं तथैव अस्मासु जीविषु देहधारिषु यावदविचारकृता शरीरात्मबुद्धिकृता अहंकारममकाररूपा आर्द्रता वरीवर्ति तावदस्माकं ईश्वरेण प्रभुणा सृष्टिकर्त्रा व्याघ्र वृक- सूकर-कुक्कुर - कीटपतङ्गादि-विभिन्ननानायोनिषु जननमरणप्रबन्धचक्रमधिरुह्य उपर्यधः चङ्क्रमणात् मोक्षो नैव । किंतु आत्मविचारेण विवेकेन यदैव नरो विगतदेहात्मबुद्धिर्वीतमोहः सञ्जायते तत ऊर्ध्वं तस्य जननमरणरूपं संकष्टं नास्ति । अमृतात्मज्ञानेन विदेहात्मनिष्ठया विना पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे मलमूत्रकोशागारे शयनादालोडनान्मोक्षो नैव च नैव च। अत आत्मोद्धाराय श्रेयस्कामिना नरेण अविलम्ब्य देहत्यागात्पूर्वमेव विगतदेहात्मबुद्धिभिर्वीतमोहैर्भाव्यम् ।
भवदनुगृहीतया ज्ञानसुधावृष्ट्या मोहज्वरदग्धो मे जीवनपादप इदानीं धृत्युत्साह
८६
Page #96
--------------------------------------------------------------------------
________________
राजा
साधुः राजा
साधुः
नवपल्लवैः समुल्लसति सद्गुरो ! । समुदिते ज्ञाने सवितरि व्यामोहनीहारपुञ्जो मच्चिदाकाशसंन्निविष्टो व्यपगतः । शोकमोहमहोदधौ निमग्नाय किंकर्तव्यविमूढाय संभ्रान्ताय व्याकुलितचित्ताय अर्जुनाय भगवान पार्थसारथिः उपदिशति खलु- ‘असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु' इति । लोके भार्यापुत्रवित्तादिषु नश्वरेषु आगमापायिषु सक्तमानसाः संयोगवियोगझञ्झावातेन इतस्ततो दन्द्रम्यमाणाः आशापाशशतैर्बद्धा: कुटुम्बव्यसनिनो भृशमवसीदन्ति, अहो दौर्भाग्यम् । अनेकजन्मकृतपुण्यपरिपाकफलमिदं मानुषं जन्म मोघीकृतं तैः यथा समृद्धवेगाः पतङ्गाः नाशाय ज्वलनं विशन्ति तथैव कामिनीकाञ्चनसमाकृष्टा संसारिण: अपावृतमृत्युमुखं प्रविशन्ति । धिङ् धिङ् मां मृतकलेवरे काष्टलोष्टसमे सक्तहृदयम् । (महिष्याः कलेवरं स्मशानभूमौ संत्यज्य राजधानीं प्रतिनिवर्तते ।) अष्टमं दृश्यम्
(सिंहासनरूढोऽतीव खिन्नः स्वजीविते नितरां जुगुप्सितः) अहो मे सर्वस्वं गतम्। कुतो वा इत: परं, कस्य कृते, किमर्थमहं जीवेयम् ? मोहिनीविलासिन्यौ धूर्तनार्यौ कपटानुरागेण मह्यं दुद्रुहतुः । सुमत्यपि सुशीला या मयोपैक्षि साऽपि अस्तङ्गता । इतः परं किंप्रयोजनाय प्राणान् धारयेयम् ? अलमनेन दुःखभूयिष्ठेन अकिञ्चनेन सर्वथा मौल्यहीनेन निरर्थकेन जीवितेन । तृणप्रायं तुच्छमिदं मे जीवितमन्तंगमयिष्यामि । ( खड्गमुद्यच्छति राजनि काकतालीयेन तत्र साधुरुपतिष्ठति । राज्ञा प्रवृत्तं दुःसाहसं च निरुणद्धि ।)
महाराज ! किमिदं साहसम् ?
मोघमिदं मे जीवितं नितरां मौल्यहीनमकिञ्चनं तुच्छं तृणप्रायमन्तंगमयिष्यामि पूज्यपाद ! निरर्थक मे कलेवरं छिनद्मि भोः !
मर्षयतु तावद् राजन् ! अलं संभ्रान्त्या । सर्वथा मौल्यहीनमकिञ्चनं तुच्छं तृणप्रायं ते कलेवरं खलु विनाशयितुमीहते भवान् ? (कञ्चित् श्रीमन्तन्धं
८७
Page #97
--------------------------------------------------------------------------
________________
राजा
साधुः
राजसम्मुखे प्रवेशयति ।) भो राजन् ! अयं वराको जन्मान्धः । चाक्षुषेन समस्तभाग्येन वञ्चितस्तिष्ठति । कृपया तस्मै दयालुर्भवान् स्वकीयं नेत्रद्वयं प्रयच्छतु । सः श्रीमान् तदर्थं भवते लक्षरूप्यकाणि दास्यति । (स्तोकमिव स्मयमानः) अपि कश्चिद् मतिमान् नरः लक्षेण किं कोटिना अपि मौल्येन स्वनेत्रे विक्रेतुमिच्छति वा ? नैव खलु ! तन्नाऽहं कोटिमौल्येनाऽपि अमूल्यं मे नेत्रद्वयं प्रयच्छामि। विमर्शयतु तावत् प्रभो ! कोटिमितधनराशेरप्यधिकमौल्यवद्भिः अमूल्यैर्नेत्रहस्तपादाद्यवयवैः सुखसंतुष्टजीवनसाधनैः ईश्वरानुगृहीतैः संपन्नो भवान् । एवं संपन्नोऽपि स्वं तुच्छं, स्वजीवितमकिञ्चनं तृणप्रायं वर्णयसि ? अहो ! अविचारस्य अप्रबुद्धतायाः परमावधिः ! पश्यतु तावत् प्रभो! करुणावरुणालयो जगन्नाथो भगवान् अस्मभ्यं अनातङ्कितजीवननिर्वहणाय साधनानि नेत्रहस्तपादाद्यवयवान्, साधक-बाधक-निर्णयसमर्थांबुद्धि, विवेकसामर्थ्य च अनुगृहीतवान् । सञ्चरितुं विशालां धरित्री, सञ्जीवितुं प्राणवायुं, दर्शनाय प्रकाशं, पातुं जलं, अत्तुं स्वाद्वन्नं वनस्पतिसस्यबीजफलानि चैतत् सर्वमनुगृहीतवान् । भगवान् गगनमणिः सविता तेजःप्रकाशेन अन्धकारमपसारयन्, आतपेन वनस्पतीन् पुष्णन्, समस्तजीवराशि चेतयन्, सर्वसाक्षी विराजते । तप्तजीविनस्तापमुपशमयती चन्द्रतारके स्तः । एभिः सर्वैर्जीवनाह्लादसाधनैरमूल्यैः सुसंपन्नोऽपि भवान् स्वमकिञ्चनं वर्णयति, अहो ! मौढ्यम् । उतिष्ठ राजन् ! रघुदिलीपजनकाम्बरीषादिनृपवद् लोकहितं विधास्यन् श्रेष्ठपुरुषादर्श प्रत्युपस्थायन् राज्यमनुशाधि । प्रजाः प्रशाधि। आमाम्, सत्यं वदति भवान् । तथापि इदं मे शरीरं यावत्तिष्ठति तावत् कथं देहाभिमानः, संयोगवियोगौ, जरामृत्यू वा मां जह्युः ? तदिदं दुःखभूयिष्ठं देहं चिताग्नौ निपातयिष्यामि भोः ! । एवं कृते समतस्य मे संकष्टजातस्य अन्तो भविष्यन्ति ।
राजा
Page #98
--------------------------------------------------------------------------
________________
साधुः
राजा
साधुः
राजा
मर्षय तावद् राजन् ! सद्यः भवान् स्वं अग्नौ निपात्य भस्मीभूतं भावयतु । अवशिष्टं भस्म कस्य ? वदतु ।
निःसंशयं तद् भस्म ममैव ।
राजन् ! पश्यतु तावत् । दग्धे भस्मीभूतेऽपि शरीरे भस्मन्यपि ममेत्यभिमानं नैव निरस्तम् । शरीरे भस्मीकृते सर्वस्य संकष्टजातस्य अन्तो भविष्यतीति यदुक्तं भवता तन्मृषैव। सोऽयं शरीराभिमानः तदाश्रितौ अहंकारममकारौ भस्मीभूतेऽपि स्थूलदेहे नैव नश्यतः । सूक्ष्मशरीररूपेण लिङ्गशरीराभिधः सुप्तचित्ते वासनापुञ्जभावेन निविष्टः सन् जीवं वायुर्गन्धानिव पुष्पाशयात् स्थानान्तरं, वासनानुरूपकर्मफलभोगाय देहान्तरं प्रवेशयति । दग्धेऽपि शरीरे, तद् भस्मन्यपि ममेत्यभिमानं वहसि । अतो यत्नेन दहनीयं शरीरं न, किंतु शरीरे स्थूले सूक्ष्मे वा अहंममेति भ्रान्तबुद्धिर्दहनीया । अतः सद्यः देहात्मभ्रान्तिबुद्धिं हित्वा अजे, नित्यनिरस्तजननमरणादिविकारे, शाश्वते, अखंडचेतने, स्वस्वरूपे, प्रत्यगात्मनि, अमृतात्मनि निष्ठो भव । मृत्युंजया सैव सद्यो मुक्तिरिति सुष्ठु जानीहि । प्रारब्धकर्मफलतया यत्कर्म राज्यकोशादिनिर्वहणरूपं प्राप्तवानसि तत् श्रीकृष्णाजनकादय इव नाटके पात्रधारीव निर्लिप्तः सन् लीलया साक्षीरूपेण स्वस्य परस्य च रञ्जनाय हिताय च निर्वह ।
अपगत इदानीं मे व्यामोहः पूज्यपाद ! । अवबुद्धोऽस्मि । एतत्पर्यन्तं व्यामोह: दौर्बल्यं हताशिता च मामाचक्रमुः । नाऽहं तुच्छोऽकिञ्चनः दरिद्रः । अहं नित्यश्रीमान् नवकोटिनारायणः । जीवतः प्रतिपदं भयदुःखशोकादिना मरणात्, म्रियमाणस्य देहात्मबुद्धि विजहतः, जीवनमेव वरम् । भवदनुगृहीतेन बोधामृतेन अद्य मे जन्म सफलीकृतम् । अहमद्य मोहजित् संवृतोऽस्मि । अहमेव मोहजित् । अहमेव मोहजित् ! (हस्तावुद्धृत्य उद्घोषयति । एवं सोत्साहं उद्गिरति राजनि सुमत्याः प्रेतो राज्ञो दृष्टिपथमागच्छति । स च प्रेतो राजानं समाकारयति ।
1
८९
Page #99
--------------------------------------------------------------------------
________________
सुमतिः
राजा
सकुतूहलं तमुपसर्पति राजनि-) पश्य प्रभो ! मयि भृशमनुरक्तस्त्वं विरहसंतप्तो मत्कलेवरमंसे अधिरोप्य इतस्ततः सर्वत्र प्रक्षुब्धचित्तः उन्मत्त् इव विलपन् परिभ्रमसि स्म सोऽहमिदानीं संन्निहितोऽस्मि । मां यथेष्टमुपभुक्ष्व । यथेष्टं मया साकं विहर। (प्रेतं परिलक्ष्य) अहो इदं प्रेतभावापन्नं सुमत्याः सूक्ष्मशरीरम् । सूक्ष्मस्थूलशरीरयोः कोऽत्र विशेषः ? सर्वं तत् शरीरमेव खलु ? भग्नभाण्डो सुतनुर्वा स्थूलो वा भवेत् । तयोविशेषं न पश्यामि। (प्रेतमुद्दिश्य) धिगपगच्छ प्रेत!। विवेकवैराग्यज्वलनेन व्यामोहतूलं भस्मीकृतवानस्मि । न त्वमिदानीं मां प्रलोभयितुं पारयसि यथा पूर्वम् । सोऽहं मोहजित् । अखण्डचेतने विश्वात्मन्येव मे अविनासम्बन्धो नान्येन केनचित् कयाचिद् वा । शैत्येन घनीभूतं जलं हिमघनखण्डं रजतकुम्भसन्निभं वीक्ष्य बन्धुपरिजनाः 'ममायं ममाय'मिति रज्जुः कण्ठे बद्ध्वावा ग्रहीतुकामाः कलहं कुर्वते । एवमेव संसारव्यसनिनो शुद्धचेतनं निरञ्जनं मां पिता पुत्रो भर्तेत्यादिभिर्मोहपाशैर्निबद्धमीहन्ते । नाऽहं तैर्निर्ग्राह्यः । हिमघनपुञ्जे विगलनेन जलभावनमापन्ने रज्जवः रिक्ताः रजतभाण्डविहीनाः प्रतिनिवर्तन्ते।
हे सुमते ! अहं विमुक्तसकलबन्धो मोहजित् । निगडो अयोमयो वा हिरण्यमयो वा, स्वस्य निगडत्वं बन्धकत्वं च नैव जहाति खलु ? न मे तवास्मिन् कश्मलपूरितेन शरीरभाण्डेन किञ्चित् कृत्यमस्ति । न तन्मामितः परमाकर्षति, गच्छ यथासुखम् । पक्षी कञ्चित् कालं नीडमेकमाश्रित्य जीर्णे नीडान्तरं प्रतिष्ठते समाश्रयति च । एवं जरया जीर्यति विनश्यति भस्मीभूते तन्नीडे चाऽपि शरीरनीडे जीवविहङ्गमो न विनश्यति खलु । अपि तु कामकर्मवासनाप्रेरितः सन् कर्मफलभोगाय कल्याणतरं भोगायतनं शरीरान्तरं 'निर्माय प्रविशति । मम विगतशरीरतादात्म्यबुद्धेः स्वशरीरादपि विप्रकृष्टस्य
९०
Page #100
--------------------------------------------------------------------------
________________
आलो
.
भार्यापुत्रादिषु अभिमानोऽहंकारः कथं वा संभवेत् ? गच्छ गच्छ प्रेत ! अहमिव त्वमपि सद्गतिं प्राप्य घटाकाश इव महाकाशे स्वस्वरूपे अखण्डचेतनः सर्वव्यापी सर्वान्तरात्मा सन् विराजस्व । (नेपथ्ये श्रूयते -
"उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ नरस्य सन्निहितकालस्य उत्क्रामतः को वा बन्धुजनो गच्छन्तं तमनुगच्छति? तेन यावज्जीवं समार्जितं धनकनकादि गृह एव तिष्ठति, गृहाद् बहिरागन्तुं न पारयति जडत्वात् । पादविहीनास्ते खलु ! । भार्यापुत्रादयो बन्धुजनाश्चाऽपि आस्मशानमात्रमागच्छन्ति, न ततः परम् । न ते स्मशानभूमिमतिक्रम्य व्युत्क्रामन्तं तमनुगच्छन्ति । तेऽपि किञ्चिदिव विलम्ब्य दिवावसानात्पूर्वमेव स्वगेहं प्रतिनिवर्तन्ते । अचिरादेव यथापूर्वं स्वे स्वे कर्मणि प्रवर्तन्ते । दग्धे भस्मसात्कृतेऽपि प्रयातस्तस्य द्वावेव बन्धू नियमेन अनुगच्छतः । इह जन्मनि तेन कृते पुण्यपापे।)
उत्तरभागः
(मोहजित् सङ्ग्रामे शत्रुभिः हतः । मन्त्री राज्ञो मरणवार्ता वहन् सुदूरस्थितां राजधानी प्रति त्वरमाण आगच्छन्नस्ति । भृशं खिन्नो दृश्यते । राजधानी प्राप्तो
राजसौधस्य बहिरङ्गणे द्वारि स्थितां राजमातरमुपगम्य ।) मन्त्री अम्ब ! रणरङ्गादिदमिदानीमागतोऽस्मि । अस्य राजस्य प्रधानमंत्री गुणनिधिः
सोऽहं भवतीं प्रणमामि । संप्रति बहुदारुणां कर्णकठोरां दुःश्राव्यां वार्तां भवत्यै
निवदेयितुकामोऽस्मि। वृद्धमाता निवेदय भो महाशय! चिन्तां मा कुरु । अस्मिंल्लोके तावन्नास्ति दुर्घटना काचित्
Page #101
--------------------------------------------------------------------------
________________
या दुःसहदारुणा स्यात् । सर्वं यद् यद् घटते तत्तद् ईश्वराधीनप्रकृतिलीलया घटते खलु ! एवं सति चिन्तायाः प्रश्न एव नास्ति । अलमाशङ्कया। निवेदयतु
भो!। मन्त्री मातः ! ह्यः सङ्ग्रामे राजा, तव प्रियपुत्रः शत्रुभिः निहतः । वृद्धमाता
(पुरस्थितं बृहद्वृक्षं दर्शयन्ती) पश्य, पश्य, विहङ्गमा विभिन्नपुंखरञ्जिताः सन्ध्या-समये सर्वतः समागत्य रात्रौ वृक्षशाखासु विश्रम्य कल्ये यत्र कुत्र वा स्वोद्देशं प्रति निर्गच्छन्ति । एवमस्मिन् संसारवृक्षे सर्वे वयं स्वकर्मानुरूपं विभिन्नकर्माणि स्वभावप्रविभक्तानि यावदायुष्यं निर्वाह्य, परिसमाप्ते निजायुषि कामकर्मानुरूपं स्वं स्वमुद्देशं प्रति अर्थान्नानाविभिन्नयोनिषु संरणाय प्रतिष्ठामहे। मोहजित् मत्कुमारो स्वकृतकर्मानुरूपः कुतश्चिदिहागत्य यावदायू राज्यं प्रशशास। स्वभावनियत-प्रजापालनशत्रुमित्रादिसंव्यवहारकर्माणि निर्वाह्य कर्मफलमुपभुज्य अस्मात् संसारवृक्षान्निर्गतः । एषैव मम, तव सर्वप्राणिजातस्य च गतिः । अत्र अनुशोचनीस्य कारणमेव न पश्यामि भोः ।। (मन्त्री तां वृद्धमातरं साश्चर्यं वीक्षमाणस्ततो निष्क्रामति । राजसौधान्तः प्रविश्य
तत्र स्थितं युवराजकुमारमुपगच्छति ।) मन्त्री कुमार ! आयुष्यमान् भव । दुःसहां दुःश्राव्यामेकां सुदारुणां वार्ता ते
निवेदयितुकामोऽस्मि,सहस्व । पूज्यस्तव पिता ह्यः सङ्ग्रामे शत्रुभिनिहतः । राजकुमारः भोः श्रीमन् ! मन्त्रिमहोदय !, नेयं वार्ता त्वया निवेदिता काचिद् दारुणा दुःसहा
मया परिलक्ष्यते भोः !। (अग्रे स्थितं कुटजद्रुमं दर्शयन्) पश्यैत कुटजद्रुमम् । पल्लवाङ्कुरितैः प्रसूनैः कथं शोभते। तथापि पश्यतोरावयोः किञ्चिदिव वातेरितानि कुड्मलप्रसूनानि सर्वत्र शाखायाः अवमुच्य यत्र कुत्र विकीर्य अपनीयन्ते । पुष्पफलानि न कदाचिद् वृक्षादवमुच्य निपतेयुरिति प्रत्याशा निरथर्का खलु ? तान्यवश्यं अपरिहार्यतया वृक्षसहयोगरूपकर्मशक्तिपरिसमाप्तौ स्वाश्रयाद्
९२
Page #102
--------------------------------------------------------------------------
________________
वृक्षादवमुच्यमानानि निपतन्त्येव । अतोऽत्र पूज्यपितुरवसान-वार्तामुपश्रुत्य अनुशोचनमसमञ्जसमेव खलु ? (राजकुमारं पितुर्निधनवार्तया निष्प्रभावितमनस्कं निराकुलितं वीक्ष्य साश्चर्यं ततो अपसृत्य अन्तर्गृहं निवसन्तं राज्ञः पितरं
विक्रममुपगम्य-) मन्त्री पूज्यस्वामिन् ! निवेदयितुमेव न प्रभवामि दारुणां दुःश्राव्यां वार्ताम् । ह्यः
संग्रामे तव प्रियपुत्रः अमितशौर्यण शत्रुभिर्युध्यमानोऽन्ते शत्रुभिः निहतः ।
वीरस्वर्गं च प्राप्तः श्रीमन् ! । विक्रमः भो महाशय ! वीरस्वर्गं प्राप्तो मोहजिदिति भवानेव वदति । कुतो वा तर्हि
त्यक्तशरीरनीडं अवमोचितदेहाभिमाननिगडं तं प्रति अनुशोचनम्? एतावत्पर्यन्तं सोऽयं मम पुत्रः, अहं च तस्य पितेति, पितापुत्रसंबन्धं परिकल्प्य वृथाभिमानेन सुपीडित आसम् । इतः प्रभृति ममाऽयं तस्याऽहमिति वृथाभिमानो विगलितः । सतदैव वीतमोहः सन् मोहजिदासीत् । अद्यप्रभृति अहमपि वीतमोहस्तिष्ठामि । अहमपि मोहजित् । ( सहर्ष केकायते ।) (मन्त्री राजसौधान्निर्गत्य राजवीथीं प्रविशति । मार्गे अवकरसंमार्जनरतं
पौरसंमाजर्कं परिलक्ष्य तं सान्त्वयन्निव।) मन्त्री भो भो ! अद्यप्रभृति सर्वे यूयं पुरजनाः अनाथाः निराश्रिताः सञ्जाताः । प्रभुर्वः
प्रजावत्सलो ह्यः संग्रामे शत्रुभिराक्रान्तो निर्दयं निहतः वीरस्वर्गं च प्राप। संर्माजकः स्वामिन् ! मन्त्रिवर्य ! किमिदं बालिशमुच्यते भवता? समस्तं प्राणिजातं
परिपोषयति जगदीश्वरे करुणावरुणालये नित्यस्थिते नूनं न कश्चिद् अनाथस्तिष्ठति । अहं तावत् बहोः कालात् प्रभृति अस्य नगरस्य प्रजानां मोहकामक्रोधलोभमत्सरभयदुःखशोकविषादरूपस्य अवकरस्य संमाजर्ने अविरतो रतः । तथापि ममैतस्य कर्मणोऽन्तं न पश्यामि। (एवमुक्त्वा अवकरसंमार्जनमनुवर्तयते । साश्चर्यं ततो निर्गच्छति मन्त्रिणि तस्य संमार्जकस्य
Page #103
--------------------------------------------------------------------------
________________
मन्त्री
संमाजिक स्वामिन् ! कथमहं मम दुःखस्य दुःसहनीयस्य निमित्तं निवेदयेयम् ? नाऽहं राज्ञो निधनेन दुःखिताऽस्मि भोः ! ( स्वहस्तगृहीतमभर्कं निर्दिश्य) अस्य अग्रजावुभौ राजभटैः शत्रुं प्रति योद्धुं नीतौ । तत्र तौ पराक्रमेण युध्यमानौ शत्रुणा निहतौ। परं एष हीनभाग्यो वराकः कनीयानिति मत्वा राजभटैः युद्धाय न नीतः, तमत्रैव गृहे त्यक्त्वा निर्जग्मुः । तमेनं वञ्चितवीरस्वर्गं व्यर्थजन्मानं भाग्यं वीक्ष्य भृशं दुःखिताऽस्मि भोः !
(साश्चर्यं) ज्ञातमिदानीम् । प्रतिबुद्धोऽस्मि । अत्र राज्ये आबालगोपा सर्वेऽपि, मामेकं विहाय, मोहजितो विराजन्ते । न जाने कदा अहमपि मोहजित् स्याम् । तदर्थमहं महात्मानं उपगच्छामि । (निःसरति ।)
मन्त्री
भार्यां जीर्णकुटीरान्निस्सरन्तीं हस्तगृहीतपुत्रकां, भृशं स्वोरसि प्रहृत्य रुदतीं, परिलक्ष्य-)
,
अयि ! कुतस्त्वमेवं दुःख्यसि भद्रो ? किं कारणमेवमुरसि प्रहृत्य तारमाक्रोशन्ती रोषि ? प्रियबन्धुवियोगोऽन्यद् वा दुःसहं संकष्टं त्वां समापतितं वा ? तव प्रभोः, दीनश्रमिकजनबन्धोः राज्ञो निधनादेवं दूयमानहृदया दु:खिताऽसीति सम्भावये। सहस्व कष्टं तावद् मुग्धे ! । महाशनो मृत्यू राजा इति रङ्कः इति तारतम्यं न धत्ते। सर्वं प्राणिजातं सः निर्दयं ग्रसते । तद् मर्षय तावद् दुःखं मातः!।
मोहजित अथवा प्रेमपरीक्षा नाम रूपकं
समाप्तम् ।
९४
Page #104
--------------------------------------------------------------------------
________________
आतुरः (आङ्ग्लवैद्यं प्रति) मम मस्तके श्वेता वाला न स्युः तदर्थं किं करवाणि ?
प्राज्ञः त्वं सदैव मूर्खवत् कथं वदसि भोः ? तव सुगमतार्थमेव !!
प्राज्ञः
आर्यः यदा ईश्वरेण सर्वेभ्यो बुद्धेवितरणं प्रारब्धमासीत्, तदा त्वं क्व गतवती ननु ? आर्या भवद्भिः सह सप्तपदी - परिभ्रमणं कुर्वती आसम् !
मर्म - नर्म
वैद्यः मुण्डनं खलु !
000
- स्वज्ञः मम पार्श्वे एकं वस्तु विद्यते, यत् तव पार्श्वे नास्त्येव । वद, किं स्यात् तत् ? सुज्ञ: मूर्खता ननु !
९५
- विजयशीलचन्द्रसूरिः
Page #105
--------------------------------------------------------------------------
________________
अध्यापकः रे अनिल ! कथं विलम्बनेनाऽद्याऽऽगतोऽसि ? अनिलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः सुनील ! विलम्बनस्य किं कारणं ते? सुनीलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः कमल ! अत्र तव किं कारणम् ? कमलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः किं यूयं सर्वेऽपि मां मूर्ख मन्यध्वे, यतो यूयं सर्वेऽपि
"द्विचक्रयानात् वायुनिर्गत" इति एवमेव कथयथ? कमलः गुरुदेव ! वयं सर्वेऽपि एकेनैव ।
द्विचक्रयानेनाऽऽगच्छन्तः आस्म ।
THEHEATER
या
पत्नी (पतिमुद्दिश्य) कर्मकरी द्वे
जलपात्रेऽचोरयत्। पतिः एतादृश्य एव सर्वाः कर्मकर्यः
सन्ति । तथापि कथय, के द्वे
जलपात्रे नीत्वा जगाम सा? पत्नी ये आवाभ्यां कश्मीरदेशात्
चोरयाञ्चकृवहे। 51
| न्यायाधीशः (चौरमुद्दिश्य) किं
त्वया जीवने किमपि सत्कार्य कृतम् ? सत्यं, अतीव सुष्ठ कृतं, अन्यथा कथं प्राप्यते युष्मादृशैः एषा सेवा !
चौरः
मुनिधर्मकीर्तिविजयः
९६
Page #106
--------------------------------------------------------------------------
________________
माधवी (मध्यरात्रे ) - भो माधव ! उत्तिष्ठ उत्तिष्ठ । पश्य तावत् मन्ये कश्चिच्चौर: महानसं प्रविश्य ह्यो मया निर्मितान् मोदकान् खादति । माधव: (पार्श्व परावर्तयन्) दुष्टस्तानेव अर्हति
शिक्षक: (निद्रायमाणं विद्यार्थिनं प्रति) हे रमण ! वद, रावणस्य वधः केन कृत: ? इति ।
रमण: (सहसा जागृत:) म...म...म... मया न कृतः !!
चपला भाजनानि क्षालयितुं भवती किं प्रयुनक्ति.. ? चञ्चला बहवः प्रयोगाः कृता मया, किन्तु सर्वेभ्यस्तेभ्यो मम पतिरेव श्रेष्ठो भासते ।
९७
Page #107
--------------------------------------------------------------------------
________________
(सङ्ग्रहालये) मार्गदर्शक: अयं कर्पर: ( SKULLखोपरी) महासाम्राज्यशालिनः नेपोलियन्-वर्यस्य अस्ति ।
मार्गदर्शक: (अस्खलितं) सत्यम् अयं कर्परः नेपोलियन्-वर्यस्य शैशवकालीनोऽस्ति !!
आशुगः भो ! दीपावल्या अवकाशेऽहं दक्षिणभारतं पर्यटितुं विचारयामि । प्रायः कियान् व्ययो भवेत् ?
मन्दगः विचारणे न कोऽपि व्ययः !!
30
मुनिकल्याणकीर्तिविजय:
प्रवासी ( सर्वतो निरीक्ष्य) अयं तु कस्यचिद् बालस्य इव प्रतिभाति भोः !
अध्यापकः भो गमन ! "चौर: चौर्यं करोति" इति वाक्यस्य भविष्यत्काले किं रूपान्तरं भवेत् ?
गमनः स कारागृहं गमिष्यति !!!
९८
Page #108
--------------------------------------------------------------------------
________________
-
अतिकौतूहलं न योग्यम् । स्वकार्य साधयतु भवान्।
Tabir
९९
Page #109
--------------------------------------------------------------------------
________________
का ते कान्ता कस्ते पुत्रः । संसारोऽयमतीव विचित्रः ॥
Jabir
Jabir
१००
Page #110
--------------------------------------------------------------------------
________________
प्राकृतविभाग
संवेगमंजरीकुलयं
/ - मुनिकल्याणकीर्तिविजयः अह रंकसहावस्स नियजीयस्स उत्तिमेसु वि विसयसुहेसु असंतोसं अतित्तिं च पयासिऊण तं निब्भच्छेइ -
रज्जेण न संतुस्सइ न तप्पए अमरजणविलासेहिं ।
रे पाव ! तुज्झ चितं रंकस्स व लज्जपरिहीणं ॥१५॥ अन्वयः रे पाव ! रंकस्स व लज्जपरिहीणं तुज्झ चितं रज्जेण (वि) न संतुस्सइ अमरजणविलासेहिं वि न तप्पए ॥
भावार्थः रे निलज्ज ! अणंतेसु जम्मेसु अणंतवारं तं सुर-सुरिंदाण उचियं कयाइ य तओ वि अहिययरं सुहविलासाइयं पत्तो, अणंतवारं च चक्कवट्टिपयं महाराजत्तणं उक्किट्ठाइं च पचिदियमणुन्नाई विसयसुहाई पत्तो – तं तु कामं, इहावि जइ कया वि कहंचि पुण्णजोगेण तं रज्जं पावेसि, निवाइयं पयं लहेसि तहा मणोरमाइं विसयसुहाइं च अणुहवसि तहा वि तुज्झ चित्तं तेण न कया वि संतुस्सइ अवि य तओ वि अहिगं अहिययरं च पयं सुहं च पावेउं तं राइंदिवं अहिलससे तिस्सा इच्छाए अपूरणे उ हिययंतरं सया दूमेसि, अतित्तो चेव वट्टेसि अओ तं रोरो व्व निल्लज्जो चेव। जहा य कोइ उत्तिमो सज्जणो कंचि वत्थहीणं अईवबुभुक्खियं च रोरं दठूण दयावंतत्तणेण तस्स उचियाइ वत्थाई भोयणं च देइ। किंतु एएण तस्स रंकस्स कइया वि संतोसो तित्ती वा न हवइ । सो उ अण्णं मणुस्सं दठूण तं पि निल्लज्जत्तणेण पत्थेइ, कयाइ तओ वि भिक्खं पावेउं पि न कहंचि तिप्पइ । एवं रे जीव! तुज्झ चित्तं वि निल्लज्जत्तणेण न कया वि तप्पए संतुस्सए वा। जीवस्स विम्हरणसीलयं तस्य लाहं (?) च तीहि गाहाहिं दरिसेइ -
किंचि जया जं पिच्छसि तं तं अपुव्वमेव मन्नेसि । भणसि अपुव्वं न कयाइ सुक्खमेवंविहं पत्तं ॥१६॥
१०१
Page #111
--------------------------------------------------------------------------
________________
चिंतेसि न उण एअं अणंतसो सुरनरेसु सुक्खाई। पत्ताइं ताइं न सरसि मणे मणागं पि रे पाव ! ॥१७॥ जइ पुण ताई थेवं पि सरसि ता नेव तुज्झ दुहभारो।
कुरुचंदस्स व देहे गेहे भुवणि व्व माइज्जा ॥१८॥ अन्वयः रे पाव! तं जया जं किंचि पिच्छसि तं अपुव्वमेव मन्नसि तहा भणसि (अहो ! मए) न कयाइ वि एवंविहं सुक्खं पत्तं । न उण एवं चिंतेसि (जं तए) सुरनरेसु अणंतसो (एवंविहाई) सुक्खाई पत्ताइं (किं तं) ताइं मणे मणागं पि न सरसि? (तं पि सुठु चेव जओ) जइ (तं) पुण थेवं पि ताई सरसि ता तुज्झ दुहभारो कुरुचंदस्स व देहे गेहे भुवणि व्व न माइज्जा।
भावार्थः इमो जीवो जदा कयाइ विजं किंचि वितुच्छं पि सह-भोग-सामग्गि पेक्खेइ तया सो 'अहो ! अपुव्वा इमा, न कइया वि दिट्ठा पत्ता अणुहूया वा मए' त्ति विचितेइ । तओ अन्नं सव्वं पि कायव्वं विम्हरिऊण तं चेव सामग्गि पावेउं सव्वसत्तीए पयत्तं करेइ।
एत्थ चिंतेयव्वं इमं जं-तस्स इणं सम्मं अवगयं धम्मसत्थेहितो गुरुमुखाओ य जं 'एसा सव्वा वि भोगुवभोगा मए पुव्वजम्मेसु अणंतसो पत्ता, अणंतसो उवभुत्ताइं च सुरलोयसुहाई, अणंतसो अणुहूयाइं च नरिंद - खयरिंद - चक्कवट्टिपयाइं तज्जिणियविसयसोक्खाई च' इच्चाइयं । जमुत्तं -
न सा जाई न सा जोणी न तं ठाणं न तं कुलं ।
न जाया न मुया जत्थ सव्वे जीवा अणंतसो ॥ त्ति । किं तु जया सो इट्टविसयाणुकूलं भोगसामग्गि पेक्खइ तया अचिरेण चेव सुयं सम्म अवगयं च सव्वं पि धम्मसत्थुवएसं खणमेत्तेण च्चिय विम्हरइ । किं च न एत्थ अच्छेरं जओ सो इमं चेव सामग्गि इह च्चिय जम्मम्मि पुट्विं पत्तो उवभुत्तो वि पुणो वि तं पेच्छिऊण पुव्ववुत्तंतं विम्हरइ, अउव्वा इम त्ति भावेइ य, तया चिरकालपुव्वं विइयाण पुव्वजम्माणं सरणं तु कत्तो तस्स संभवइ ? ।
तआ य सो तं भोगसामग्गि पावेउंसया लोलुवचित्तो विविहे उवाए आदरेइ महाकट्टेण
१०२
Page #112
--------------------------------------------------------------------------
________________
य तं पावेइ।
अवि य - एत्थ विम्हरणसीलस्स नियजीयस्स एगो लाहो वि हवई । जहा जइ सो पुव्वजम्मेसु अणुहूयाइं सुर-नरसुहाइं केणावि कारणजाएण सरेज्ज ता सो इमस्सि भवे तेसिं अलद्धत्तणेण तेत्तिओ दुहीहवेज्ज जहा जइ तस्स दुहस्स मुत्तिमंतं सरूवं कप्पेज्ज ता तस्स पब्भारो देहे वि गेहे वि, किं बहुणा? तिहुअणे वि न सम्माएज्ज ।
अओ तस्स विम्हरणसीलत्तं अईव उवगारी चेव ॥ मूढजीवस्स अकज्जायरणेसु तिव्वरुई कज्जायरणेसु व अणायरं पयडेइ -
रे मूढ ! तुह अकज्जे लीलाइ चहट्टए जहा चित्तं ।
तह जइ कज्जे वि तओ हविज्ज कइया वि नो दुक्खं ॥१९॥ अन्वयः रे मूढ ! जहा तुह चित्तं अकज्जे लीलाए चहुट्टए तह जइ कज्जे वि (चहुट्टए) तओ (तुह) कइया वि दुक्खं नो हविज्ज ॥
भावार्थः रे मूढ ! मोहंधयारअंधल ! असुहकज्जेसु पावायरणेसु य तुज्झ एरिसी रुई एरिसो य अणुरागो विज्जए जहा जया कइया वि तं असज्झेसु वि अकज्जायरणेसु उवट्ठिएसु अणुवट्ठिएसु वि वा निमेसमेत्तेण वि तत्थ लग्गसे, ताइं समत्थेउं च सव्वुज्जमेण पयत्तेसि, समत्थणे च अईव हिट्ठो भवसि । एअस्स विवज्जए , सुहकज्जायरणेसु उवट्ठिएसु तं वाउली-हवसि । अण्णेसिं अणुरोहेण य कयाइ चेव सुहकज्जं आरंभसे । तओ सुहसझं वि तं कज्जं गलिवसहो व्व अवमन्नंतो व्व जहाकहंचि करेसि, एत्थ वि कयाइ अपुण्णं चेव तं मुंचेसि, महया किलेसेण जइ तस्स पारं गच्छसि तया वि तस्स समत्थणे तुज्झ तारिसो आणंदो न हवइ जारिसो अकज्जायरणेसु । कइया उ विसाओ वि हवेज्ज।
किं तु जइ तं अकज्जायरणेसु जहा रसवंतो तह चेव सुहकज्जेसु वि रसवंतो रुइवंतो होऊण सव्वायरेण य ताई करेज्ज ता तुज्झ तस्स फलत्तणेण कइया वि दुहं न हविज्ज।
१०३
Page #113
--------------------------------------------------------------------------
________________
/पत्रम्
-मुनिकल्याणकीर्तिविजयः
सोत्थिसिरि चउवीसइमं तित्थेसरं समणभगवंतं सिरि वद्धमाणमहावीरसामिजिणेसरं हियये पणिहाय परमगुरुं सिरिविजयणेमिसूरीसरं च वंदिऊण धम्मलाहेण संभाविज्जइ आणंदो मुणिकल्लाणकित्तिणा।
सिरिआणंद ! गुरुभगवंताण किवामयधारासु सिणायंता अम्हे ससाया वट्टेमो। तं पि कुसली हवेज्ज।
भावपूयाए सरूवं मुणेउं तं केत्तिओ उक्कंठिओ सि त्ति तए जाणाविअं आसी। किं तु, एयं वरिसं चरमतित्थयरसिरिमहावीरसामिणो छव्वीसइमं जम्मसतीवरिसं, अओ तस्संबंधि-लेहणकज्जेसु वावडो संतो हं पच्चुत्तरं लिहेउं असक्को जाओ। अज्ज उ कहिंचि वि समयं कड्ढिऊण लिहिउं आरद्धो। ___ अह पगयं ति - सत्थेसु भावजणिएहिं गुणजुत्तेहिं पडिपुण्णेहिं तहा अमिलाणेहिं सुगंधसहिएहिं च अट्ठपुप्फेहिं भावपूया कायव्व त्ति परूवियं अत्थि । किनामाइँ च ताइं अट्ठपुप्फाइं ति पण्हे कहेंति सत्थयारा भगवंता, जहा - अहिंस त्ति पढमं पुष्कं , सच्चं ति बीअं, अचोरिति तइअं, बंभचेरं ति चउत्थं, असंगय त्ति पंचमं, गुरुभत्ती त्ति छठें, तवो त्ति सत्तमं, नाणं ति य अट्ठमं पुष्फं।
तत्थ - पमादजुत्तजोगाओ सुहुमाण बायराण तसाण थावराण य जीवाणं पाणेहिं वियोजणं हिंसा वुच्चइ । तिस्साऽभावो अहिंस त्ति । अहवा मणो-वय-कायजोगेहि परपीडणवज्जणं अहिंसा । (इह परसद्देण सव्वे वि सुहुमादयो जीवा णेया।) १॥
कोह-माण-माया-लोहाभिहाणेहिं चरहिं कसाएहिं हास-रइ-अरइ-भय-सोगकुच्छाभिहाणेहिं च नोकसाएहिं मुसाभासणं हवइ । तस्स सव्वहा चाओ त्ति सच्चं। २॥
१०४
Page #114
--------------------------------------------------------------------------
________________
सुहुमस्स थूलस्स वा वत्थुणो अदिण्णस्स अग्गहणं अचोरिअं ति । ३ ॥ मणसा वयसा काएण य सव्वहा बंभस्स कुसलकम्मणो आसेवणं ति बंभचेरं, अहवा मणसा वयसा कारण य सव्वहा अबंभस्स- मेहुणस्स चाओ त्ति बंभचेरं, अहवा सव्वा सव्वया य बंभे र- निजसरूवे अत्तभावे वा चरणं ति बंभचरं । (चरिमे वक्खाणे उवरित्था दो वि सम्माइज्जा ।) ८ ॥
इह उ 'मुच्छा चेव परिग्गहो' त्ति सव्वत्थ मुच्छाए असंगया । ५ ॥
तहा संसारतारयस्स परमोवयारिणो गुरुभगवंतस्स नियसव्वसत्तीए भत्ती गुरुभत्ती वुच्चइ । इह भत्ति त्ति विणओ कहिज्जइ । सो य पंचप्पयारो, जहा गुरुणो सव्वा वि बज्झडिवी भत्ति त्ति वुच्चइ-१, हिययब्भंतरे गुरुं पर पीई त्ति बहुमाणो -२, गुरुणं गुणाण थुणणं ति गुणथुई-३, तेसिं अवगुणाणं आच्छायणं ति अवगुणपिहाणं - ४, तहा तेसिं आसायणाए चाओ त्ति अणासायणं-५, अन्नेर्हितो सव्वकज्जेहिंतो वि गुरुभत्ती चेव गुरुयरा महत्तजुया यति । ६ ॥
-
वे अट्ठविहं कम्मं ति तवो । सो बज्झो अब्भितरो य त्ति दुविहो । तत्थ बज्झो वो जहासत्तीए अब्भितरो य सव्वसत्तीए कायव्वो । एत्थ वि सो चेव बज्झो तवो जुत्तो जो अब्भितरं तवं उववूहइ पसाहेइ य। ७॥
तहा जाणिज्जंति अत्था अणेण त्ति नाणं उचियपवित्तीए अणुचियनिवित्तीए य निमित्तभूओ बोहो । (एत्थ तं चेव सम्मन्नाणं कहिज्जइ जं सम्मद्दंसणपुव्वयं सम्मच्चरणे य परिणमसीलं हविज्ज) । ८ ॥
ममत्तस्स चाओ त्ति
ता एयाणि चेव सोहणाणि भावपुप्फाणि कहिज्जंति भावपूयाए अहिगारिणो साहूणं ति। साहुणो एयाणि भावपुप्फरूवे गुणे सम्मं पालेऊण देवाहिदेवाण जिणवराण चलणेसु समप्पेंति । तेण य देवाहिदेवेहिं कहिया आणा पालिया हवइ । तहा आणाराहणं चेव तेसिं संपुण्णा पूया । जओ आणं विराहंतो हु सेसं समग्गं पि पूयं कुणमाणो वि न संपुण्णाए पूयाए
१०५
Page #115
--------------------------------------------------------------------------
________________
आराहगो हवेज्ज। __ अह एयाए भावपूयाए सम्मं आराहणेण अज्झवसाओ पसत्थो हवए। पसत्थज्झवसाएण चेव कम्मक्खओ हवइ तओ य समत्तकम्मक्खए निव्वाणं हवइ । अओ एया भावपूया चेव साहूणं सम्मया इट्ठा य।
मण्णे, भावपूयाए एत्तियवण्णणेण तुज्झ संतोसो हवेज्ज । अण्णया, पूयाए अणंतरं किं कायव्वं ति चिंतेमो त्ति सं ॥
अकए वि कए वि पिए पियं कुणंता जयंमि दीसंति । क्यविप्पिए वि हु पियं कुणंति ते दुल्लहा सुयणा ॥
(वज्जालग्गम्मि)
१०६
Page #116
--------------------------------------------------------------------------
________________
चरमजिणेसर-सिरिमहावीरपहुणो तवरस संकलणं
-सा.हेमपूर्णा श्रीः एसो संवच्छरो चरमतूहवइणो सिरिवीरपहुणो छव्वीसइमो जम्मसतीसंवच्छरो अस्थि । अओ एअं अवसरं उवलक्खिऊण चरमजिणेसरेण जं तवोविहाणं समायरियं तस्स संकलणा लिहिज्जइ। जहा
(१) अउणातीसअहियाई दुवे छट्ठसयाई (२) बारह अट्ठमाइं (अट्ठमभत्तेणं एगराइयं पडिमं पहू बारहवारं कासीअ ।) (३) दोदिणमाणा भद्दपडिमा एगवारं (४) चउदिणमाणा महाभद्दपडिमा एगवारं (५) दसदिणमाणा सव्वओभद्दपडिमा एगवारं (६) बावत्तरी पक्खोववासा (७) बारह मासखवणाई (८) दो दिवड्ढमासोववासा (९) छ बिमासोववासा (१०) बे अद्धतइज्जमासोववासा (११) बे तिमासोववासा (१२) णव चउमासोववासा (१३) दिणपंचयेण ऊणा छम्मासोववासा एगवारं (१४) छम्मासोववासा एगवारं (१५) एगो दिक्खादिणो
एसो तवो पव्वज्जादिणत्तो आरब्भ केवलणाणुप्पत्तिं जाव सव्वो वि निज्जलो कओ। तत्थ पारणगदिणाई अउणपण्णाहियतिसए (३४९)अहेसि । तहा पहुणा कयाइ निच्चभत्तं न कयं सड्ढबारहवरिसमाणे छउमत्थकाले।
eGo
१०७
Page #117
--------------------------------------------------------------------------
________________
धम्माबाद्धी
मुनिधर्मकीर्तिविजयः अवंतीणयरे धम्मबुद्धी पावबुद्धी अ इइ दोण्णि मित्ताई पवसंति स्म । परोप्परं तेसिं अईव पीई अहेसि । न एगं विणा अण्णो ठाऊण समत्थो । तत्थ धम्मबुद्धी पुव्वभवे किअसुहकम्मबलेणं सुही हवीअ, अवि तु पावबुद्धी अईव दुही अहेसि असुहपावोदएणं ।
एगया 'निद्धणत्वं असुहकम्मं करावेई' इइ जुत्तिअणुसारेण पावबुद्धिणा चिंतिअं- अहं मुक्खो धनविहीणो च म्मि, तओ धम्मबुद्धिणा सद्धं अण्णं ठाणं गमिअ अत्थोवज्जणं करामु । पच्छत्तो एतमवि धम्मबुद्धि वंचिऊण सुही होहामि हं। ___ एवं विचारिऊण अण्णे दिणे पावबुद्धिणा धम्मबुद्धी अभिहिओ - वयस्स ! अणेगाच्छेरविंदभरिअं एअं जगं अदठूण विद्धत्वे किं करिस्ससि तुमं, तत्तो परिवारस्स सिसुजणे कहं बोहिस्ससि, तदो अम्हे दुवे वि परदेसं गच्छेज्ज । पावबुद्धीअ दंभजुत्तं एअं वयणं णिसमिऊण आणंदिअमाणसो धम्मबुद्धी तेणं सह गुरुजणाण अणुण्णाअ पसत्थे दिणे सिरिवड्ढमाणं णयरं पट्ठिओ।
तत्थ धम्मबुद्धीई पुण्णेण पहूअं धणं आसादिअं तेहिं। कंचिअं कालं तत्थ चिट्ठिऊण ते दुवे पहरिट्ठचित्ता अवंतीणयरं पइआगमिआ । तदा मज्झे मलिणासयेणं पावबुद्धिणा जंपिअं - भद्द ! न जोग्गं सव्वमेअं धणं गिहं नेऊण, जदो परिवारजणा बांधवा अ धणं मग्गिहिन्ति; तत्तो किंचिअंधणं घेत्तूण सेसं धणं अत्थ च्चिअ गहणे वणे भूमीई निक्खित्तं । पयोजणे संजाए सइ अत्थागंतूण तं धणं अम्हे नेहामो। मायाभरिअं वयणं सुच्चा धम्मबुद्धिणा कहिअं - सुठु सुठ्ठ, एवं करिज्जउ, पच्छा गिहं गआ दोण्णि वि।
एगया पावबुद्धी निसाए अडविं गओ । तं सव्वमवि धणं गहिऊण पलासेहिं गड्ड पूरिऊण णिअभवणं निव्वट्टिओ। पच्छा एगया धम्मबुद्धीअ समीवं गमिअ तेण जंपिअं - भो धम्मबुद्धि ! वणं गंतूण किंचिअंधणं आनेमो जदो दोण्हं तणया वित्ताभावत्तो विसीअंति।
१०८
Page #118
--------------------------------------------------------------------------
________________
पावबुद्धीअ वयणं अंगीकरिऊण तेण सह धम्मबुद्धी पट्ठिओ । तं भूमि पाविअ जाव ते खणेति ताव रित्तं भाण्डं पस्सेंति तदा च्चिअ पावबुद्धी सिरसं ताडयन्तो वदेइ - धम्मबुद्धि ! तए च्चिअ एअं सव्वं धणं गहिअंन अण्णेणं । जदो पुव्वमिव गड्डापूरणं करिअं । तत्तो देहि मे तस्स धणस्स अड्ढभागं । जइ न तुमं देहिस्ससि तया अहं रायाणो निवेयिस्सामि।
एआरिसं वयणं सुणिअ तं पइ धम्मबुद्धी जंपेइ, मा एआरिसं वयणं वदसु । एअं दुजें कज्जं मे न करिअं । एवं कलहं करेंता दोण्णि धम्मगुरुस्स समीवं गमिअ अण्णुण्णं ते दूसेंति।
अह धम्मगुरुणा कंचिअं कालं दोण्हं कलहवयणं सुणिअं। किंतु विवाओ ण समिओ। तओ जाव धम्मगुरुणा देवालयम्मि निओजिआ ताव पावबुद्धी आह - न जुग्गं एअं वयणं, जदो सत्थेसुं गदिअं"सक्खिअभावे वच्छदेवा सक्खिणो हवंतु"। ___ तदा धम्मगुरुणा जंपिअं - तुमाइ वयणं सच्चं जुग्गं चात्थि, तओ कल्ले पच्चूसे तुब्भेहिं रायपुरुसेहिं सह तत्थ आगंतव्वं । धम्मगुरुस्स एअं वयणं सुणिअ भीएण पावबुद्धिणा गिहं गंतूण जणओ जंपिओ – 'रे तात ! ममाइ धम्मबुद्धिणो धणं चोरिअं, किंतु अज्ज मम दइवं रुटुं । तव जुतिजुत्तवयणेण च्चिअ एआअ विपआअ मम ताणं हविस्सइ । अण्णहा मम जीवनं नटुंच्चिअ' इइ पुत्तस्स वयणं आकण्णिअ पिअरेणं अभिहिअं - वच्छ ! मा भाहि। पच्छा जणगेण कहिअं - तम्मि पएसे एगो 'समी' नामगो वच्छो अत्थि, तस्स महंते कोटरम्मि हं पवेसिस्सं । जदा पभाए धम्मगुरू वच्छदेवं पुच्छिस्सइ 'एएहिंतो दोहितो को चोरो, तया वच्छत्थो हं कहेस्मामि धम्मबुद्धी चोरो' इइ।
अह अण्णे दिणे पयोजणाणुसारेण ते सव्वे वणं गआ । तया धम्मगुरुणा तारस्सरेण वच्छदेवता पुच्छिआ - “भो ! एएहितो दोहितो को चोरो'' तया वच्छठिणं पिअरेणं जंपिअं - "धम्मो चोरो'' इइ वयणं सुणिअ सव्वे रायपुरुसा विम्हिआ। जाव रायपुरुसा धम्मबुद्धिणो धणहरणत्थं उज्जमसीला हवेन्तु ताव च्चिअ सत्थबुद्धिणा धम्मबुद्धिणा तं समीवच्छं अग्गिभोज्जदव्वेहिं परिवेट्ठिअ संदीपिअं।
अह वच्छत्थस्स पावबुद्धिपिअरस्स देहो अद्धं दहिओ, तओ तया च्चिअ पिआ बाहिं
१०९
Page #119
--------------------------------------------------------------------------
________________
आगओ। ___ सव्वेहिं अच्छेरपुव्वं पुच्छिअं - किं एअं? तया पिअरेण पुत्तस्स सव्वमवि चेट्ठिअं णिवेइअं । पच्छा खणेण पिआ मरिओ । तया तेहिं रायपुरुसेहिं पावबुद्धी वच्छसाहाए रज्जुपासेणं बद्धो । पच्छा धम्मबुद्धीअ पच्चुप्पन्नमइत्तणं पसंसिऊण पावबुद्धीअ सव्वमवि धणं धम्मबुद्धीई अप्पिअं।
पाइयकव्वं पढिउं बंधेउं तह य कुज्जयपसूणं । कुविअं च पसाएउं अज्जि वि बहवो न याणंति ॥
(पाइयवागरणे उद्धरियं)
११०
Page #120
--------------------------------------------------------------------------
________________