SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ वरायविंशतिः -श्रीविजयनेमिसूरिसत्कः प्रवर्तकमुनिश्रीयशोविजयः (छन्दः शिखरिणी) मदज्वालामाला दहति हृदयं मे प्रतिदिनं तथा क्रोधो योधो दृढतरशरान् मुञ्चति परान् । पुनर्मायाच्छाया त्यजति न तु मां दुर्गतिततिः पराधीनो दीनो विभुचरणमेवेति शरणम् ॥१॥ तपस्तप्तं दत्तं विविधमपि दानं न सफलं न तद् ध्यानं ज्ञानं प्रसरति न यत्र प्रतिदिनम् । नृणां भव्यो नव्यो विविधशमसार: सुखकर: जिनैः ख्यातः प्रातः प्रमतरवैराग्यविषयः ॥२॥ गुरोभक्तेः शक्तेर्न फलमपि भव्यस्य भवति पुनर्जेया मेया वृततरविविद्याऽपि विफला। तदा दान्तिः क्लान्तिप्रतिपतनकारे न कुशला यदि त्राता भ्राता भवति न च वैराग्यविषयः ॥३॥ पिता माता भ्राता भवति न च पाताऽपि भविनां सुहृद् वा दुर्हद् वा न हि हितकरो भव्यभविनाम् । न कोटीशो धीशो भवति धृतिदो दीनभविनां जिनं धीरं वीरं विषयवियुतं तं त्विह विना ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy