SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ (छन्दः शार्दूलविक्रीडितम्) . धर्माद् धैर्यधरो वरो हि भवति श्रेयस्करोऽहोहरो धर्माद् रूपमनोहरो धनधरो धर्येषु धीरो नरः । धर्माद् वीरतरो विपत्तिहरणो भद्रङ्को भीहरो धर्माद् भाग्यविभूतिभूतिवितरो विद्वद्वरोऽयं नरः धर्माद् वर्णनपात्रमत्र भवति श्रेयरसुगात्रस्तथा धर्मात् सर्वनरा वराः प्रतिदिनं ध्यायन्ति सद्ध्यानतः । धर्माच्चैव नरैस्तु सततं स्वाराधनीयो धनी धर्माद् धर्मधुरंधरस्त्विति जनाः संवर्णयन्ति क्षितौ धर्माद् धर्मकथाप्रथासु कुशलो धर्माच्च नीरोगको धर्मान्मानधरो वरो भयहरो भीष्मे भवाम्भोनिधौ । धर्माद् दाढ्यधरो वो गतदरो भव्योऽतिनव्यो नरो धर्मात् सर्वसुशर्मवर्मकरणो धीमान् सदा धर्मतः धर्माद् धर्मकरो वो ननु नरः सन्नीतितः स्फीतिभूत् धर्मात् तारतरो वरो भवति सुस्फूर्तिप्रतानो नरः । धर्माद् दानदयादमेषु हृदयं देदीयमानो द्रुतं धर्मात् तापततिप्रतानहरणः सौम्यः शशीव द्रुतम् દો ॥७॥ ॥ eG- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy