________________
सुधासाराकारा भवति भविनां बाह्यदृशिनां सदाऽन्तर्दृष्टीनां रुधिररसमूत्रादिमलिना । कटाक्षैर्या लक्षैर्जडमतिजनानन्दकरणा न सा कान्ता कान्ता भवति विबुधानां प्रतिदिनम् ॥५॥
स्तनौ पीनौ लीनौ कनकलशौ चेति गदितौ मुखं श्लेष्मावासं तदपि शशभूत्तुल्यमुदितम् । क्षरन्मूत्रक्षुण्णं करिवकराकारजघनं
कविक्रूरैः काकै रिति तु गुरुता तत्र गदिता ॥६॥ विधा-तापार्तानां प्रकटपटुतातो विरहिणां न देवेन्द्रश्चन्द्रश्चतुर इह चित्तेषु तनुते । सुकौशल्यं शल्यं विविधमिह देहेषु दधतां जयत्येकश्छेकरसुरमणिरिव श्रीजिनपतिः ॥७॥
इह द्वेष-क्लेशक्चथितमतयः केऽपि कृतिनः पुनः केचित् किञ्चिच्चितिविरहिता मूढमतयः । अहो ! दीना लीना दुरितततिदोषेषु सततं
असारे संसारे निजमपि हितं बिभ्रति नहि ॥८॥ यदा दीर्णे जीर्णे रुचिरिह जनानां परवशे सुख्खे दुःखैर्मूङ्घरभिमततया संस्थितवति । तदा लिप्ते क्षिप्ते न हि भवति शान्तिः क्षितितले यतो द्रिष्टैः श्लिष्टैन विषमविषैर्वाभिरिह सा ॥९॥
न कर्ता वा हर्ता भवति दुरितानां प्रतिदिनं सदा त्रस्यद् भ्रश्यद् दुरितदवदोषं दरहरम् । विनेशं विश्वेशं प्रकटमहिमादीप्तयशसं इति ध्येयं गेयं श्रयत शरणं श्रीजिनपतिम् ॥१०॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org