SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रान्ते मूलतो यदि दोषाच्छादनवृत्तिः पक्षपातवृत्तिश्च न नश्येतां तहि देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य चोन्नतेः कल्पनाऽपि न शक्या, अपि तु मृगतृष्णैवाऽस्ति । अस्माकं अधोगतिरेव तावद् यावदेते द्वे वृत्ती अस्माभिः पुष्येते । eGo - एका शुध्दिः प्राक्तन्यां शाखायां 'दधातु तुष्टिं मयि विस्तरो गिराम्' इति लेखे तीर्थकराणां पञ्चत्रिंशद् वाणीगुणा: वर्णिताः सन्ति । तत्र अष्टाविंशतितमो गुण: "अद्भुतत्वम्" इतिनामा अस्ति । तत्स्थाने विदुषामभिप्रायेण "अद्रुतत्वम्" इत्यस्माकं उचितः प्रतिभाति । यतस्तदनन्तरो हि गुणः "अनतिविलम्बिता'' इतिनामा अस्ति । तत्सहावस्थानेन च अयं गुणः "अद्रुतत्वम्" एव भवितव्यः । तद्भावार्थश्चैवम् - अद्रुतत्वम् द्वयोः शब्दयोर्वाक्ययोश्च उच्चारणे त्वराविरहितं जिनपुङ्गवानां प्रवचनभणितं भवति । यतो यदि तत्र त्वरा भवेत् तदा श्रोतृणां सम्यक् श्रवणं न भवेत् । तथा तदर्थबोधोऽपि न भवेदिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy