SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ किञ्च-कथं परदेशीयाः अस्मभ्योऽधिकं शक्तिसम्पन्नाः ? ' तत्र जना: विशिष्टबुद्धिमन्तो दृष्टिसम्पन्नाश्च तेषु देशेषु विपुलानि अद्यतनसाधनानि सन्ति' इति वयं मन्यामहे, किन्तु सा तु भ्रमणा । अस्माकं देश: सर्वदृष्टया समृद्धः तथा जना अपि प्राज्ञाः सन्ति । तथा न च तेभ्योऽस्माकं शक्तिः न्यूना न चाऽस्मदीयाः जनाः दृष्टिविकलाः, न च तेभ्यो न्यूनानि साधनानि। सर्वप्रकारेण अस्माकं देशो महानस्ति । तथापि कथं वयं हीना: ? सर्वक्षेत्रेषु दरिद्रा: ? एकमेव कारणं, विवेकशून्यत्वमिति । अस्माकं देशे भारते व्यक्तिस्थितगुणस्य तन्निष्ठशक्तेश्च न पूजा, अपि तु व्यक्तेः । अन्यदेशे तु व्यक्तिनिष्ठशक्तेः आदरोऽस्ति । तत्र कनिष्ठजनैरपि यदि शुभं कार्य कृतं स्यात्तर्हि तेषां यथार्थ सन्मानं प्रोत्साहनं चाऽपि क्रियते, एवं कदाचिद् राजप्रधानैरपि अपराधः कृतः स्यात्तर्हि तेषामप्युचितो दण्डो भवत्येव । अस्माकं देशे खलु विपरीतवर्तनमस्ति । केवलं पक्षपात एव दृश्यन्ते । उच्चस्थाने स्थितैः प्रधानपुरुषै: कृतो महानपि अपराध: क्षम्यः तथा च सामान्यजनस्य सूक्ष्मोऽपि अपराधोऽक्षम्यः । कियत्कालं पूर्वमेवाऽस्माभिरनुभूतम् । यदा गुर्जरदेशे भूजादिनगरेषु भूकम्पोऽभूत्, तदा सामान्यजनैः अत्यन्ततुच्छजनैरपि स्वशक्त्या भूकम्पपीडितजनानां धनेन शरीरेण च साहाय्यं कृतं, किन्तु परमस्थाने विलसद्भिः अधिकारिभिः किं कृतम् ? न काचिदपि स्वकीया सेवा कृता, किन्तु अन्यैः जनैः तेषां पीडितानां साहाय्यार्थं यद्वस्त्रं धनं खाद्यवस्तु च दत्तं तत् सर्वमपि वस्त्रादिकं तैः स्वयमेव भूकम्पपीडिताः इत्येवं मत्वा निर्लज्जं निर्दयं स्वगृहे पूरितम् । एतत्तु सर्वेऽपि जनाः जानन्त्येव; तथाऽपि ते निर्दोषाः ? पुनः ते एवाऽस्माकं रक्षका: ? महदाश्चर्यं जायते । एतद्वृत्त्यैवाऽस्माकं देशः सर्वेभ्यः सर्वदृष्टया हीनो दरिद्रश्चाऽस्ति । किञ्च प्राय: अधुना विदेशेषु प्रमुखसंस्थायां भारतीया एव अग्रगण्याः सन्ति । लभ्यते वैदेशिकैः अस्माकं पक्षपातवृत्तेः लाभः । ते भारतीयसंस्थाभिः तिरस्कृतशिक्षितजनान् बुद्धिमतः स्वदेशे विविधैः प्रलोभनैः आकर्षन्ति । एतदेवाऽस्माकं दुर्भाग्यं यत् अस्माकमेव प्राज्ञपुरुषाणां उपयोगो न क्रियतेऽस्माभिः । अतः एतस्याः पक्षपातवृत्त्याः देशे समाजे दुर्बला: अज्ञा: दुष्टजनाश्चैवाऽधिकारित्वमनुभवेयुः तर्हि कथं भवेत् विकास: ? Jain Education International ४२ For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy