________________
इति लेखकस्य प्रतिज्ञा पुस्तकावसाने उल्लिखिताऽस्ति । ___ एवं चाऽहिंसा शाकाहारश्च केवलं धर्माचरणं अभूत्वा अद्यत्वे नूतनजीवनशैलीतया प्रसिद्धौ । या पूर्व केवलं भारतीयानामेव विचारधाराऽऽसीत् साऽद्य व्यापकत्वेन विश्वस्याऽपि विचारक्रान्तेः प्रतीकतया ‘एस्किमो'जातीयेषु मनुष्येष्वपि सम्यक्तया प्रसिद्धीभूताऽस्ति।
द्वित्रान् उदाहरणान् पश्यामः । एकदाऽहं फ्रेन्कफर्ट-नगराद् विमानद्वारा मुम्बईनगरं प्रत्यागच्छन् आसम् । विमानपरिचारिकयाऽऽगत्य पृष्टं भवता शाकाहार उपयुज्यते मांसाहारो वा?' मयोक्तं 'शाकाहारः' । तदैव मदन्तिके एकः फ्रान्सीयः उपविष्ट आसीत् । तस्याऽपि परिचारिकया पृष्टे सोऽवदत् 'अवश्यं शाकाहारः । ___जनाः सदैवैवं मन्यन्ते यत् ‘मुस्लिमाः' सर्वदा सर्वेऽपि मांसाहारिण एव' इति । किन्तु नैतद् योग्यम्। हिरोशिमानगरोपरि अणुगोलकास्त्रप्रक्षेपस्य पञ्चाशत्तम्यां तिथौ तत्राऽऽयोजितायां पर्षदि भागं ग्रहीतुमहमन्ये च भारतीया जापान्देशं प्राप्ताः । तत्राऽस्माकं सूचनया तैः शाकाहारिणां कृतेऽन्या भोजनव्यवस्था कृताऽऽसीत् । यदा वयं तत्र भोजनग्रहणार्थं प्राप्तास्तदाऽस्माभिः सह पाकिस्थान्देशीयाः सप्ताष्टौ मुस्लिमाध्यापका अपि शाकाहारं भोजनमेवोपायुक्त।
ततश्च शाकाहारग्रहणे धर्मसम्प्रदायो उपदेशा नाऽऽवश्यका । उन्नतविचारधारा शुद्धा जीवनशैली चैवाऽत्राऽऽवश्यिक्यौ।
एकत इदं, अपरतो भारते कॉलेजीयविद्यार्थिनोऽन्ये च युवानः केवलं अभिरुचिपोषणार्थमेव मांसाहारं मद्यपानं च कुर्वते । अयं च मांसाहारप्रचारः समाजेऽनिशं वृद्धि प्रापन् अस्माकं निर्दोषाया जीवनशैल्याः उदारसंस्कृतेश्च व्याघातत्वेनोपस्थितोऽस्ति । अविवेकस्य पराकाष्ठा त्वियं यत् भारतीयवर्तमानपत्रेषु एकतो भारतीयमहाप्रधानस्य अटल-बिहारी वाजपेयी महोदयस्य महावीरस्वामिनः षड्विशंतितमजन्मशतीप्रसङ्गे संयमापरिग्रहादिविषयकं प्रवचनं प्रकटीभवति, अन्यतश्च तत्सार्धमेव पञ्चतारकभोजनालये तस्य विविधमांसनिर्मितभक्ष्यभोजनार्थं गतस्य चित्राणि वृत्तं च प्रकाश्यन्ते ।
भवतु, किन्तु यदा सर्वतोविधं विचार्यते तदा, षड्विंशतेर्वर्षशतानामनन्तरं अन्येषु सन्दर्भेषु अन्यादृशीषु च परिस्थितिषु महावीरस्वामिनः जगति पुनरागता इति प्रतिभाति । अहिंसेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org