SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ केवलं अहत्यैवेति न योग्यम् । नाऽपि जीवदयैव । तस्याः सम्बन्धस्तु तादृश्या जीवनशैल्या यस्यां प्रकृतेः सन्तुलनं संसाध्य स्वस्माद् अन्यजीवेभ्योऽल्पतमामपि ग्लानि अदत्त्वा जीवसृष्ट्या मैत्रीभावेन वर्तनं क्रियते। व्याघ्राणां प्रजातिर्नष्टा भवेदिति तु नेच्छास्पदम् । यतस्तन्नाशेन जीववैविध्यं (BIODIVERSITY) प्रस्खलिता भवति। व्याघ्रममारयित्वा वयं न तमुपकुर्मः किन्तु स्वयमेवोपकृता भवामः । अद्यत्वे, अहिंसा जीववैविध्यस्य (BIO-DIVERSITY) जीवपरिस्थितिविज्ञानस्य (ECOLOGY) च सिद्धान्तैः सहितैव यथार्था, सृष्टिसन्तुलनादिस्वरूपं निजकार्यं साधयितुं च समर्था भवेत् । एतस्मिन् परिप्रेक्ष्ये, आगामिषु वर्षेषु सृष्टे: पर्यावरणस्य व्यापकं सूक्ष्मं च सन्तुलनं चिरस्थायि कर्तुं सृष्टे महावीरस्वामिनः सिद्धान्ता एव जगतोऽत्यन्तमुपयोगिनो भविष्यन्ति इति। मनुष्यः स्वयमेव निजस्य सहचरः । अतस्तेन सर्वदा श्रेष्ठं साहचर्यं पालयितुं यतनीयम् । - सी. इ. ह्युजिस् ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy