________________
चोल्लकं (एकं धान्यं) चाऽभक्षयत् । जीर्णं वसनमेवाऽधारयत् । एवं जीवनपर्यन्तं कृतम् । तथाऽपि न शृङ्गं पूर्णीकर्तुं स शक्तोऽभूत् । अन्ते धने विलुब्धः स मृत्वा सप्तमनरकपृथिवीं जगाम । एवमेतादृशेषु भोगोपभोगसाधनेषु धनेषु चोपलब्धेषु सत्स्वपि न स आनन्दं भोक्तुं शक्तिमानभूत्।
अथ भ्रात: शालिभद्रमम्मणश्रेष्ठिनोः भेदो ज्ञेयः । __पूर्वभवे परमश्रद्धया द्वावपि निर्ग्रन्थमुनिं प्रत्यलभताम् । दानकाले द्वयोः भावना समानैवाऽऽसीत् । किन्तु तत्पश्चात् पूर्वभवस्य शालिभद्रस्याऽऽत्मा संगमो निरन्तरमामरणं कृतस्य सुकृतस्याऽनुमोदनां चकार । ततो न संगमस्य शुभमनोभावना मरणकालपर्यन्तं स्खलिता, किन्तु धूपस्य चटावत् नैरन्तर्येणोच्चैः उच्चैः प्ररूढा । ततः स सौभाग्यशाली अपूर्वर्द्धिमानभूत् । किन्तु तां ऋद्धि भोगादिकं चानुभूय सर्वमपि संसारं सानन्दं विहायाऽपूर्ववीर्योल्लासपूर्वकं दीक्षाऽपि तेन गृहीता । अन्ते उत्कृष्टाराधनापूर्वकं संयम प्रतिपाल्याऽव्ययपदभागभवत्। ___इतो दानस्योत्तरक्षणादेव मम्मणश्रेष्ठिनो मनोभावस्तु प्रदीपघृतवत् हीनस्वभावोऽभवत् । दानस्य पश्चात् मम्मणश्रेष्ठिनो मानसे पश्चात्तापः संजातः । अत्र दानस्य वशात् शालिभद्रवत् तेनाऽपि महती ऋद्धिस्तु प्राप्तैव, किन्तु दानस्य पश्चात् यः पश्चात्तापः कृतः तत्कारणात् ऋद्धिं प्राप्याऽपि न तामुपभोक्तुं शक्तोऽभूत् । अन्ते धने लुब्ध एव स मृत्वा दुर्गतिमवाप।
एवं कृतसुकृतस्याऽनुमोदनायाः को लाभः तथा पश्चात्तापात् का हानिः इति ज्ञात्वा सदैव कृतसुकृतस्याऽनुमोदना करणीया, तथा कृतसुकृतस्य न कदाऽपि पश्चात्तापः कर्तव्यः ।
चरिमयोः द्वयोः तत्वयोः चर्चा अग्रे करिष्यामि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org