SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ रमते । तत एव न कार्यः कदापि कृतस्य सत्कार्यस्य पश्चात्तापः । __ अस्त्येवेह जिनशासने मम्मणश्रेष्ठिनः प्रसङ्गः प्रसिद्धः। पूर्वभवे मम्मणश्रेष्ठिना निर्ग्रन्थमुनये "सिंहके सरिमोदकाः प्रतिलम्भिताः । अवर्णनीयानन्दमनुभवन् जीवनं च कृतार्थीभूतं मन्यमानः स श्रेष्ठी गृहमागतः । तदा दैवादेका घटिता विचित्रा घटना। कोऽपि विघ्नसंतोषी तन्निकषाऽऽगत्याऽऽह - रे श्रेष्ठिन् ! त्वं तु मूर्खशेखरोऽसि, किं त्वया बुद्धिरपि अन्यस्मै प्रदत्ता, यत ईदृशान् मधुरान् दुर्लभान् ‘सिंहकेसरि'मोदकानपि साधवेऽयच्छः । प्रत्येकपदार्थानां याचनमेव साधोः व्यापारोऽस्ति । अतः तत्र गत्वा मोदकान् प्रत्यानय। ___मनोवैचित्र्यं कीदृगस्ति तदत्र ज्ञायते । शुभालम्बनेन श्रेष्ठिनो मनोधारोच्चैः उच्चैः प्रवर्धमानाऽऽसीत् । परंतु दुष्टनिमित्ते प्राप्ते सत्येव शुभमनोभावनाऽपि भग्नाऽस्ति । तस्य मनसि खेदो जातः । कथं मयैतादृशाः मनोज्ञाः मोदकाः अपि भिक्षुकायाऽपिताः । मया जीवनेऽद्यैवेतादृशाः मोदकाः दृष्टाः, पुनः कदा भोक्तुं पुण्यभाग् भविष्याम्यहम् ? ततो येन केन प्रकारेण तान् मोदकान् प्रत्यानयेयम्। एवं स्खलितमनोभावः स मम्मणश्रेष्ठी सत्वरं साधूनां वसतिं गत्वा मोदकानयाचत । साधुः न मोदकान् प्रत्यच्छत् स्वकीयाचारत्वात्, किन्तु निर्दोषभूमौ पर्यष्ठापयत् । ___ अथ दुष्टाध्यवसायात् ततो मृत्वा मम्मणः नाम श्रेष्ठी बभूव । पूर्वभवे दत्तदानप्रभावात् अपारद्धेः स्वामी अभूत् सः, किन्तु दत्तस्य दानस्य पश्चात् पश्चात्तापकरणात् तामृद्धिं भोक्तुं न समर्थो बभूव। कथं क्रियते तस्यद्धैः वर्णनम् ? तस्य गृहे द्वौ वृषभौ आस्ताम् । तत्रैकोऽमूल्यै: विविधरत्नैः मण्डितः आसीत् । शृङ्गं विना द्वितीयो वृषभोऽपि रत्नविभूषितः आसीत् । एवमासीत् तस्य गृहे राजयोग्या लक्ष्मीः । ततोऽपि रत्नविहीनं शृङ्गं पूर्णीकर्तुं स प्रातः घोरान्धकारे नदीं गत्वा तत्र प्रवहन्ति काष्ठानि विचित्य तेषां विक्रयेण प्राप्तेन धनेन रत्नानि एकत्रीकरोति । तेभ्यः शृङ्गनिर्माणस्य तस्याऽभीप्साऽऽसीत् । तथा धनव्ययो न भवेदिति दिने एकवारमेव तैलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy