________________
अनुवादः
को नरः श्रेष्ठः?
__मुनिधर्मकीर्तिविजयः आगच्छत्येव सर्वेषां नराणां जीवने केनाऽपि प्रकारेण विपत्तिः । कदाचिदात्मनः कारणात्, कदाचिदन्येषां वशात्, कदाचित्तु अकस्मादेव, किन्तु मनुष्यजीवने विपत्तु आगच्छत्येव।
"साऽऽपत्तिः कथं सह्यतेऽस्माभिः ?' इत्येवाऽस्त्यत्र प्रश्नः ।
यथाकालं विविधैरुपायैः आपतिता विपत्तिरपि शाम्यति, परंतु यावन्न सा शाम्येत् तावत्तु सा विपत्त् सहनीयैव । सा कथं सहनीया?
विपत्तिं सोढुमेक एव उपायः समतेति । अतीव धैर्यमपूर्वा समता च यद्यस्माभिः यथार्थमभ्यस्यते तर्हि चित्तं शमं धृत्वाऽव्याकुलमेव भवेत् । ततस्तदा प्राप्नुयातां द्वौ लाभौ - आपत्तिं सोढुं शक्तिः प्राप्यतेऽन्यच्च तस्याः विपदो निवारणस्योपायोऽपि साध्यते । न कदापि सा विपत्तिः क्रोधात्, उद्वेगात्, संतापात्, व्याकुलतायाश्च निर्मूला भवति, प्रत्युत साऽऽपत्तिरतीव कठिना दुस्सहा च भवतीति तु निश्चितमेव । ततो यदि चेदेतादृशी परिस्थितिः सृजेत् तर्हि माध्यस्थ्यमव्याकुलत्वं वा धारयेत्, तथा च धीरत्वं सहिष्णुतां शमं च धृत्वा तस्याः विपदः प्रतिकारः कर्तव्यः, इत्येव प्राज्ञत्वस्य लक्षणमस्ति।
"आपतिता परिस्थितिः शमत्वेन स्वीकरणीया'' एतदेव यथार्थं पौरुषमस्ति । "यो न बलं त्यजेत्, न च शरणं गच्छेत्" स एव श्रेष्ठो नरोऽस्ति ।
(अनूदितम्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org