SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् ॥ किल बहवो जना अस्माकं पृच्छन्ति यद् “भवन्तः किमर्थं संस्कृतभाषायामेव पत्रिका प्रकाशयन्ति ? किमिति च प्रादेशिकभाषायां न लिखन्ति ? तत्र लेखने हि बहूनामपकारः सम्भवति । संस्कृतभाषां तु केचिदेव विद्वांसः पठितुमर्हन्ति परन्तु प्रादेशिकी भाषां हास्मादृशा बहवो जनाः पठितुं शक्ता" इति । तत्र प्रथमं तावत् न वयं प्रद्धियर्थं लोकरञ्जनाय वा लिखामः न वा वयं लेखने सक्ताः । किन्तु गीवाणवाणीप्रीतिप्रेरिताः सन्तः स्वाध्यायार्थमेव लिखामः । किञ्च प्रादेशिकाया भाषायास्तु प्रभूता लेखका विद्यन्त एव । कदाचित् तद्वाचकानां सङ्ख्याऽपि तेभ्योऽल्पीयसी स्यात् । किन्तु संस्कृतविषये त्वत्र उभयेषामपि लेखक-वाचकानां दुष्काल एव दृश्यते । संस्कृतस्य माहात्म्यं तु ये तद् बोधन्ति पठन्ति च त एव सम्यक्तया ज्ञातुं समर्थाः । एडमूको हि गुडगुणान् कथं वा वर्णयेत् ? स हि गुडमास्वाद्य एव सन्तुष्टो भवति । अस्माकं परिस्थितिरप्येतादृशी एव । तथाऽपि सर्वतो निरीक्ष्यते चेत् एषा भाषा "जाति-देश-काल-समयानवच्छिन्ना सार्वभौमी " इत्यस्माकं प्रतिभाति । ___ अन्ततो गत्वा नाऽस्माकमेषः प्रयासः जनोपकाराय किन्तु स्वोपकाराय स्वान्तःसुखाय चैवेति ॥ ॐकारसूरि आराधना-भवनम् कीर्तित्रयी सूरत 88585603035520000 302888 8862 588888888888888888888 3383386888888888 388888 3 20838388 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy