________________
क्दाऽहं स्वात्मानं मलिनभवगादयदयात्समुद्धर्तुं स्वामिन् ! निखिलखिलनाशिन् ! जिनवर ! ।
श्रयिष्ये श्रीसिद्धाचलसुगिरिनिःश्रेणिममलां, समारोहायाऽस्मिन्निव विरचितां मुक्ति निलये ॥ ४ ॥
कदाऽहं तीर्थशे प्रमरमणीये क्षितितले, युगादीशध्याने निहितनिजचेता अविरतम् ।
अशेष मुक्त्वाऽथो विषयजनितोपाधिविसरं, प्रवत्स्यामि स्वामिन् ! भवभवभयत्रायक ! विभो ! ॥५॥
पवित्रेऽत्र क्षेत्र विमलगिरिसन्नामनि जनिं, त्वदीयप्रासादे शशिविशद ! नाभेय ! भगवन् ! ।
समायातैः संधैस्तव गुणनुतिर्या प्रविहिता, क्दाऽहं शृण्वन् तां सफलमखिलं नाथ ! विदधे ॥ ६॥
अज्ञानी यत् कृतं कर्म क्षिपेत् वत्सरकोटिभिः । तज्ज्ञानी गुप्तिसम्पूर्णः क्षिपेदुच्छ्वासमात्रतः ॥
(श्रीमल्लिनाथमहाकाव्ये)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org