________________
राजा
साधुः
राजसम्मुखे प्रवेशयति ।) भो राजन् ! अयं वराको जन्मान्धः । चाक्षुषेन समस्तभाग्येन वञ्चितस्तिष्ठति । कृपया तस्मै दयालुर्भवान् स्वकीयं नेत्रद्वयं प्रयच्छतु । सः श्रीमान् तदर्थं भवते लक्षरूप्यकाणि दास्यति । (स्तोकमिव स्मयमानः) अपि कश्चिद् मतिमान् नरः लक्षेण किं कोटिना अपि मौल्येन स्वनेत्रे विक्रेतुमिच्छति वा ? नैव खलु ! तन्नाऽहं कोटिमौल्येनाऽपि अमूल्यं मे नेत्रद्वयं प्रयच्छामि। विमर्शयतु तावत् प्रभो ! कोटिमितधनराशेरप्यधिकमौल्यवद्भिः अमूल्यैर्नेत्रहस्तपादाद्यवयवैः सुखसंतुष्टजीवनसाधनैः ईश्वरानुगृहीतैः संपन्नो भवान् । एवं संपन्नोऽपि स्वं तुच्छं, स्वजीवितमकिञ्चनं तृणप्रायं वर्णयसि ? अहो ! अविचारस्य अप्रबुद्धतायाः परमावधिः ! पश्यतु तावत् प्रभो! करुणावरुणालयो जगन्नाथो भगवान् अस्मभ्यं अनातङ्कितजीवननिर्वहणाय साधनानि नेत्रहस्तपादाद्यवयवान्, साधक-बाधक-निर्णयसमर्थांबुद्धि, विवेकसामर्थ्य च अनुगृहीतवान् । सञ्चरितुं विशालां धरित्री, सञ्जीवितुं प्राणवायुं, दर्शनाय प्रकाशं, पातुं जलं, अत्तुं स्वाद्वन्नं वनस्पतिसस्यबीजफलानि चैतत् सर्वमनुगृहीतवान् । भगवान् गगनमणिः सविता तेजःप्रकाशेन अन्धकारमपसारयन्, आतपेन वनस्पतीन् पुष्णन्, समस्तजीवराशि चेतयन्, सर्वसाक्षी विराजते । तप्तजीविनस्तापमुपशमयती चन्द्रतारके स्तः । एभिः सर्वैर्जीवनाह्लादसाधनैरमूल्यैः सुसंपन्नोऽपि भवान् स्वमकिञ्चनं वर्णयति, अहो ! मौढ्यम् । उतिष्ठ राजन् ! रघुदिलीपजनकाम्बरीषादिनृपवद् लोकहितं विधास्यन् श्रेष्ठपुरुषादर्श प्रत्युपस्थायन् राज्यमनुशाधि । प्रजाः प्रशाधि। आमाम्, सत्यं वदति भवान् । तथापि इदं मे शरीरं यावत्तिष्ठति तावत् कथं देहाभिमानः, संयोगवियोगौ, जरामृत्यू वा मां जह्युः ? तदिदं दुःखभूयिष्ठं देहं चिताग्नौ निपातयिष्यामि भोः ! । एवं कृते समतस्य मे संकष्टजातस्य अन्तो भविष्यन्ति ।
राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org