________________
साधुः
राजा
साधुः
राजा
Jain Education International
मर्षय तावद् राजन् ! सद्यः भवान् स्वं अग्नौ निपात्य भस्मीभूतं भावयतु । अवशिष्टं भस्म कस्य ? वदतु ।
निःसंशयं तद् भस्म ममैव ।
राजन् ! पश्यतु तावत् । दग्धे भस्मीभूतेऽपि शरीरे भस्मन्यपि ममेत्यभिमानं नैव निरस्तम् । शरीरे भस्मीकृते सर्वस्य संकष्टजातस्य अन्तो भविष्यतीति यदुक्तं भवता तन्मृषैव। सोऽयं शरीराभिमानः तदाश्रितौ अहंकारममकारौ भस्मीभूतेऽपि स्थूलदेहे नैव नश्यतः । सूक्ष्मशरीररूपेण लिङ्गशरीराभिधः सुप्तचित्ते वासनापुञ्जभावेन निविष्टः सन् जीवं वायुर्गन्धानिव पुष्पाशयात् स्थानान्तरं, वासनानुरूपकर्मफलभोगाय देहान्तरं प्रवेशयति । दग्धेऽपि शरीरे, तद् भस्मन्यपि ममेत्यभिमानं वहसि । अतो यत्नेन दहनीयं शरीरं न, किंतु शरीरे स्थूले सूक्ष्मे वा अहंममेति भ्रान्तबुद्धिर्दहनीया । अतः सद्यः देहात्मभ्रान्तिबुद्धिं हित्वा अजे, नित्यनिरस्तजननमरणादिविकारे, शाश्वते, अखंडचेतने, स्वस्वरूपे, प्रत्यगात्मनि, अमृतात्मनि निष्ठो भव । मृत्युंजया सैव सद्यो मुक्तिरिति सुष्ठु जानीहि । प्रारब्धकर्मफलतया यत्कर्म राज्यकोशादिनिर्वहणरूपं प्राप्तवानसि तत् श्रीकृष्णाजनकादय इव नाटके पात्रधारीव निर्लिप्तः सन् लीलया साक्षीरूपेण स्वस्य परस्य च रञ्जनाय हिताय च निर्वह ।
अपगत इदानीं मे व्यामोहः पूज्यपाद ! । अवबुद्धोऽस्मि । एतत्पर्यन्तं व्यामोह: दौर्बल्यं हताशिता च मामाचक्रमुः । नाऽहं तुच्छोऽकिञ्चनः दरिद्रः । अहं नित्यश्रीमान् नवकोटिनारायणः । जीवतः प्रतिपदं भयदुःखशोकादिना मरणात्, म्रियमाणस्य देहात्मबुद्धि विजहतः, जीवनमेव वरम् । भवदनुगृहीतेन बोधामृतेन अद्य मे जन्म सफलीकृतम् । अहमद्य मोहजित् संवृतोऽस्मि । अहमेव मोहजित् । अहमेव मोहजित् ! (हस्तावुद्धृत्य उद्घोषयति । एवं सोत्साहं उद्गिरति राजनि सुमत्याः प्रेतो राज्ञो दृष्टिपथमागच्छति । स च प्रेतो राजानं समाकारयति ।
1
८९
For Private & Personal Use Only
www.jainelibrary.org