________________
सुमतिः
राजा
सकुतूहलं तमुपसर्पति राजनि-) पश्य प्रभो ! मयि भृशमनुरक्तस्त्वं विरहसंतप्तो मत्कलेवरमंसे अधिरोप्य इतस्ततः सर्वत्र प्रक्षुब्धचित्तः उन्मत्त् इव विलपन् परिभ्रमसि स्म सोऽहमिदानीं संन्निहितोऽस्मि । मां यथेष्टमुपभुक्ष्व । यथेष्टं मया साकं विहर। (प्रेतं परिलक्ष्य) अहो इदं प्रेतभावापन्नं सुमत्याः सूक्ष्मशरीरम् । सूक्ष्मस्थूलशरीरयोः कोऽत्र विशेषः ? सर्वं तत् शरीरमेव खलु ? भग्नभाण्डो सुतनुर्वा स्थूलो वा भवेत् । तयोविशेषं न पश्यामि। (प्रेतमुद्दिश्य) धिगपगच्छ प्रेत!। विवेकवैराग्यज्वलनेन व्यामोहतूलं भस्मीकृतवानस्मि । न त्वमिदानीं मां प्रलोभयितुं पारयसि यथा पूर्वम् । सोऽहं मोहजित् । अखण्डचेतने विश्वात्मन्येव मे अविनासम्बन्धो नान्येन केनचित् कयाचिद् वा । शैत्येन घनीभूतं जलं हिमघनखण्डं रजतकुम्भसन्निभं वीक्ष्य बन्धुपरिजनाः 'ममायं ममाय'मिति रज्जुः कण्ठे बद्ध्वावा ग्रहीतुकामाः कलहं कुर्वते । एवमेव संसारव्यसनिनो शुद्धचेतनं निरञ्जनं मां पिता पुत्रो भर्तेत्यादिभिर्मोहपाशैर्निबद्धमीहन्ते । नाऽहं तैर्निर्ग्राह्यः । हिमघनपुञ्जे विगलनेन जलभावनमापन्ने रज्जवः रिक्ताः रजतभाण्डविहीनाः प्रतिनिवर्तन्ते।
हे सुमते ! अहं विमुक्तसकलबन्धो मोहजित् । निगडो अयोमयो वा हिरण्यमयो वा, स्वस्य निगडत्वं बन्धकत्वं च नैव जहाति खलु ? न मे तवास्मिन् कश्मलपूरितेन शरीरभाण्डेन किञ्चित् कृत्यमस्ति । न तन्मामितः परमाकर्षति, गच्छ यथासुखम् । पक्षी कञ्चित् कालं नीडमेकमाश्रित्य जीर्णे नीडान्तरं प्रतिष्ठते समाश्रयति च । एवं जरया जीर्यति विनश्यति भस्मीभूते तन्नीडे चाऽपि शरीरनीडे जीवविहङ्गमो न विनश्यति खलु । अपि तु कामकर्मवासनाप्रेरितः सन् कर्मफलभोगाय कल्याणतरं भोगायतनं शरीरान्तरं 'निर्माय प्रविशति । मम विगतशरीरतादात्म्यबुद्धेः स्वशरीरादपि विप्रकृष्टस्य
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org