________________
(३)
मनुष्यस्य आध्यात्मिकी क्षमता कियती भवेत् इति ज्ञानार्थं किं अस्ति कापि पद्धति: ? ।
हव्यः सन्ति खलु ।
एकां प्रकाशयन्तु ननु ।
एकस्मिन् दिने भवान् कति वेला: क्षुब्धतां अनुभवति तद् मृगयताम् ।
(४)
जगति इह केचन जना: ईदृशाः वर्तन्ते ये हस्तिनः पुच्छसदृशां तुच्छां वार्तां बहु मन्यन्ते, अत्र तत्र च तस्याः प्रसारोऽपि ते कुर्वते । किन्तु हस्तितुल्यां बृहत्कायां वार्तां प्रति तु गजनिमीलिकान्यायेन एव उपेक्षन्ते । ईदृशानां जनानां ईश्वरविषयिणीं दृष्टिं आलोचयता गुरुणा एकदा कथितम् -
युद्धे प्रवर्तमाने विमानद्वारा गगनतः अग्निगोलका (Bomb) नां वर्षा प्रारब्धाऽऽसीत् । तदा मया सर्वे जना एकत्रीकृत्य अस्मदीयस्य आश्रमस्य भूगृहे स्थापिताः । प्रातः समयाद् सन्ध्यापर्यन्तं गोलकवृष्टिः निरन्तरं प्रवृत्ता, वयं च सर्वेऽपि तावन्तं कालं तत्र भूगृहे एव विश्रब्धं स्थिताः ।
सन्ध्याकालाद् अनन्तरं द्वौ जनौ एतादृशात् कारावासनिभाद् आवासाद् निर्विण्णौ । ताभ्यां उक्तम् – ‘अतः परं यद् भवेत् तद् भवतु । किन्तु आवां ईदृक्कारावासे अधिकं स्थातुं न शक्नुवः । अतः आवां अधुनैव बहिः निर्गत्य गृहं गच्छावः । कामं गोलकवृष्ट्या मरणं स्यात् ।
बहुधा निषिद्ध अपि तौ निष्क्रान्तौ एव । परन्तु कतिपयक्षणानन्तरं एव तौ तत्र पश्चाद् आगतौ । मया सस्मितं पृष्टौ तौ - मन्येऽहं यद् बहि: गत्वा युवयोः विचारपरिवर्तनं संभूतम् । ताभ्यां सक्रोधं उक्तम् - न आवां गोलकभयेन मृत्युभयेन वाऽत्र पुनः आगतौ । किन्तु बहिः मेघवृष्टिः प्रारब्धा वर्तते । अतः कारणादेव आवां इह पुनः प्रविष्टौ स्वः।
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org