________________
गुरोः सर्वा अपि प्रवृत्तिः निश्चिन्तं अत्वरं च प्रचलति । सः शनैः शनैः क्राम्यति । शनैः शनैः भुङ्क्ते । शनैः शनैरेव सर्वमपि अन्यत् कार्यजातं विधत्ते च सः।
नितरां अनलसस्याऽपि गुरोः ईदृशीं मन्दतां अवलोक्य सर्वोऽपि जनः अत्यन्तं कौतुकं विस्मयं च आवहति स्म।
जनानां कुतूहलं विज्ञाय एकदा गुरुणा सस्मितं उक्तम्-अरे सुजनाः ! शृण्वन्तु । युष्माकं मनसि मम मन्दतमा प्रवृत्तिं विषयीकृत्य वर्ततेऽतीव जिज्ञासा किम् ? । परन्तु भोः ! अहं किं करवाणि?, त्वराकरणाय मम पार्श्वे समय एव नास्ति !।
'अहं तत्रभवतां भवतां शिष्यो भवितुं ईहे । किमेतद्विषये भवतां अनुमतिः प्राप्स्यते ?' केनचित् पृष्टो गुरुः।
'यावद् युष्माकं नेत्रे निमीलिते स्तः तावदेव यूयं शिष्याः स्थ । यस्मिन् क्षणे युष्माकं नयने उन्मीलिष्यतः, तदाऽविलम्बं यूयं ज्ञास्यथ यद् इह जगति न विद्यते किमपि ताक्, यद् यूयं मम अन्यस्य वा सकाशादेव ज्ञातुं पारयिष्यथ।' गुरुणा प्रत्युत्तरितः सः ।
तेन पुनः पृष्टमः 'यद्येवम्, तदा गुरुः किमर्थं स्वीक्रियते सर्वैः?'। गुरुराह, 'साधनामार्गे गुरुः नितान्तं निरुपयोगी इति शिक्षणार्थमेव भोः !।'
(अनूदितम्)
eGo
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org