________________
योऽभूद्धि नेत्रयुगसायक (५८२) वर्षपूर्वम्, शुक्लत्रयोदशमधाविह वैक्रमाब्दात् । आध्यात्म्यसाधुमथ देशजसाधुवर्गे, वीरं नमामि तमहं मुनिमत्र सर्गे ॥४॥ राज्येऽस्य गर्भसमयाद्धनधान्यवृद्धिम्, व्यापारवृद्धिमपि राज्यधनस्यवृद्धिम् । दृष्ट्वा पिता यमवत्खलु वर्धमानम्, पुत्रं त्वमन्यत स तं परमेशदानम् ॥५॥ सीमासु कुण्डलपुरस्य बभूव शान्तिः, मैत्री बभूव जनतासु शशाम वैरम् । वीरं जगाद जननी भुवि निर्भयं यम्, वन्दे मुनीन्द्रमिह तं त्रिशलातनूजम् ॥६॥ भाषोपदेशकवाय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥७॥
अध्यापकाश्च यमवदन् च कुशाग्रबुद्धिम्, विद्यार्थिजीवनदिनेषु च सम्मतिं तम् । यः साधनासमयकष्टसहस्रभोगी, तस्मै नमो भगवते त्रिशलासुताय ॥८॥
(१) ५८२ + (२) २०५८ = २६०० शततमजन्मवर्षम्। (३) शुक्लत्रयोदशमधौ = चैत्रमासे शुक्लपक्षे त्रयोदश्यां तिथौ भगवतो महावीरस्य जन्म २०५८ वैक्रमाब्दात् ५८२ वर्षपूर्वमभूत् अत इदं २६०० शततमजन्मवर्षम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org