________________
फलादिभिः समृद्धमपि वृक्षं शरदृतौ शुष्कं काष्ठप्रायं च सञ्जातं निरीक्ष्य तेषां संसारस्याऽनित्यताया भानं जायते स्म । इत्यादिभिः, ये चाऽस्माकं मनसि सामान्या एव प्रतिभान्ति, तैः प्रसङ्गैरपि राज्यादिपर्यन्तां सर्वामपि सम्पदं क्षणेनैव त्यक्त्वा परमनिरीहा भूत्वा साधुवृत्तं स्वीकर्तुं प्रवर्तन्ते स्म।।
प्रत्येकं परिस्थितेर्घटनाया वा स्वकीयं सत्यं विद्यत एव । तदेव च सत्यं तान् तादृशान् जागृतसंवेदनान् जनान् स्वाभिमुखान् जीवनं च प्रति सावधानान् विधत्ते।
इदानीं तु न केवलमेतादृश्योऽपि त्वेताभ्योऽप्यधिका अनेका घटना नित्यं घटन्ते एव। शोभना अपि घटन्तेऽशोभना अपि । यद्यस्त्यस्माकमभिगमः स्वार्थलक्षी तर्हि किञ्चित् सुखं वा दुःखं वा निष्पाद्य घटना विस्मृता भविष्यति । यदि नास्ति कोऽपि सम्बन्धो घटनया सहाऽस्माकं तर्हि खेदं वाऽनुकम्पनं वा सा जनिष्यति । किन्तु यदि नामाऽस्ति जीवनलक्षी अस्माकमभिगमस्तहि या काऽपि घटना भवतु लघीयसी वा बृहती वा, अस्माभिः सम्बद्धा वाऽसम्बद्धा वा, सा संवेदनां झङ्कत्याऽस्मान् सत्यं सन्मार्ग वा प्रति नेष्यत्येव ।
परोक्षस्य का वार्ता ? अस्मदृष्टिसमक्षमपि कति कति घटना घटिताः ? ता अपि, वायुयानस्य स्यात् बस्यानस्य वा स्यात् रेल्यानस्य वा स्यात्, विस्मृति प्राप्ताः, विश्वयुद्धस्य करालाऽपि घटना इतिहासस्थैव सञ्जाताऽधुना, अतिवृष्टि-दुर्भिक्ष-भूकम्पादीनामाघातोऽपि विलीनो जातः, अरे! नेपालदेशस्य सम्प्रत्येव घटितो नृशंसोऽपि हत्याकाण्डः किं स्मृतिशेषो न सञ्जातो लोकमानसात् ?
एवमपि भवति बहुशो यद् घटनाभिर्निष्पन्नो रागो वा द्वेषो वा मानसे स्थिरो भवति किन्तु बोधस्य जागृतेर्वा का कथा? सुखस्य दुःखस्य वा भाव एव नास्ति संवेदना किन्तु जागृतिः प्रबुद्धत्वं चाऽस्ति संवेदना ।।
एतादृश्या संवेदनाया आधिपत्यं किं नामाऽस्माकं न सम्भवेत् ननु ? 'कदा?' - इति तु संशोध्यं सञ्चिन्त्यमस्माभिरेव यथाशीघ्रम् ।
eGo
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org