________________
कालोदधौ विलीनानि जातानि । अनेकाश्च सुखदा दुःखदाश्चाऽनुभवाः कालमाश्रित्य परिवर्तमानानामस्माकं स्वार्थानां मध्ये विध्वस्ताः । अन्येषां जीवनमाश्रित्य घटिता घटना अपि विस्मृताः स्वकीये च जीवने प्रवृत्ता घटनाश्चाऽपि स्मृतिशिष्टाः सञ्जाताः सन्ति ।
घटनाश्चिरंजीविन्यः सञ्जायन्ते शिक्षणेन सद्बोधेन वा । सुखं दुःखं वा त्वत्यन्तं क्षणिकोऽल्पजीवी च तज्जातोऽनुभवोऽस्ति ।
अस्तु रामायणं वा महाभारतं वा, तदप्यन्ततोगत्वा घटना एव खलु । तद्धटनाकाले तत्पश्चाच्च तत्कालीनलोकमानसस्य स्थितिः कीदृशी जाताऽऽसीत्, तत्त्वनुभवेन कल्पनया च ज्ञातुं शक्यम् । किन्तु, अद्य तु साऽपि घटना इतिहासरूपेणैव प्रसिद्धाऽस्ति । ___ घटनाकाले तत्पश्चाच्च सानुकूलं प्रतिकूलं वाऽनुभवन् मनुष्योऽपि, स्वजीवने यदा स्वार्थो मुख्यायते तदा, सर्वमन्यत् विस्मृत्य स्वकार्ये एवोद्युक्तो भवति तथा, यथा न किञ्चिदपि घटितमेव ! तस्यैवैतद् परिणामं यद् रामराज्यस्य सत्याचरणस्य वा वार्ताः तु इतिहासस्य पृष्ठेष्वेव स्थिता विराजन्ते । किन्तु मानवीयजीवने तस्या गन्धलेशोऽपि प्रायो नाऽन्वभूयते वर्तमानकाले। कदाचित् कतिषुचित् स्थलेषु संस्काराणां संस्कृतेश्च वार्ता विधानं च श्रूयेतेऽपि किन्तु कुत्राऽस्त्याचरणम् ?
किंप्रमाणा घटना इत्यस्यैव नास्ति महत्त्वं किन्तु कियन्मात्रां संवेदनां साऽस्माकं जागरयति इत्यत्राऽस्ति परिवर्तनस्याऽऽधारः।
या घटना संवेदनां न स्पृशति प्रत्युत मन एव मर्यादां करोति, सा भवतु घटना कियत्यपि बृहती, रामायणतुल्याऽपि महाभारततुल्याऽपि वा, किन्तु सा स्वल्पमल्पकालीनं च सुखं दुःखं वोत्पादयति किन्तु न कश्चित् फलविशेषं सा प्रदत्ते । जीवनं परिवर्तयितुं तु न सा शक्नोति । या च संवेदनां स्पृशति घटना सैव बोधं जागरयति जीवनं च परिवर्तयति। ___ अस्माकं संवेदना कुण्ठिता नष्टप्राया च सञ्जाताऽस्ति, तत्त्वाश्चर्येण सहाऽऽघातजनकमप्यस्ति । एको युग आसीत् यदा मस्तकोपरि एकमपि श्वेतं कुन्तलं दृष्ट्वा तं च यमस्य दूतं मत्वा जीवनं प्रति जनाः सावधानाः समजायन्त, मनोहरमपि सन्ध्यारङ्गं पवनेन विशीर्णं जातं पश्यन्तः सन्तः संसारात् पराङ्मुखा अपि ते भवन्ति स्म; वसन्तसमये पत्र-पुष्प
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org