SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आस्वादः संसार: ! एकं घटनाचक्रम् ॥ ईप्सितानामनीप्सितानां, निश्चितानामनिश्चितानां च घटनानां चक्रम् । घटना यथा सङ्घटयन्ति तथा विघटयन्त्यपि च । यदैकत्र सङ्घटनं भवति तदा ततोऽन्यत्र विघटनमपि भवत्येव । यथा - यद्येकत्र वल्मीकं क्रियते तदाऽन्यत्र गर्ताऽपि जायत एव । न घटनाः परिवर्तन्ते अपि तु पुनरावर्तन्ते, मानवानामेव किन्तु परिवर्तनं भवति । संसारे जीवनेऽपि च पुनरावर्तनं भवति सततं घटनानाम् । तदेव च दर्शयति यद् - अस्ति मनुष्येषु बुद्धिः, न किन्तु बोध: कश्चित् । भिन्न-भिन्न घटना काश्चिदन्या किन्तु जीवनस्य शिक्षणार्थं भिन्न-भिन्नानि प्रकरणानि सन्ति। घटनाजन्यं सुखं दुःखं वा त्वस्माकं मनसो रुच्यरुच्योश्च परिणामोऽस्ति । तच्चाऽत्यन्तं स्थूलः परिणामः तस्या: । वस्तुतस्तु घटना: शिक्षयन्ति आन्तरिकं च बोधं जागरयन्ति । सुखिनो वा दुःखिनो वा यदा वयं भवामस्तदा त्वस्माकं चित्ते केन्द्रवर्ती स्वार्थ एव विद्यते । स च स्वार्थो यदा पुष्टो भवति घटनाभिस्तदा वयं सुखमनुभवामः यदा च क्षतो भवति तदा दुःखमनुभवामः । यतः स्वार्थस्तु वर्तमानमेव लक्षयति । यदा च वयं बोधं प्राप्नुमो घटनाभ्यस्तदा विद्यतेऽस्माकं चित्ते स्वहितम् । हितं च जीवनं लक्षयति । बहुलतया संसारस्था आत्मानः सुखिनो वा दुःखिनो वैव भवन्ति किन्तु शिक्षणं बोधं वा न प्राप्नुवन्ति । अत एव च घटनानां पुनरावर्तनं भवति । संसारोऽपि चैवमेवाऽनुवर्तते । कालः किलाऽगम्यपारोदधितुल्योऽस्ति । अनन्तैरात्मभिः सम्बद्धा अनन्ताश्च घटना अस्मिन्नवहन् प्रवहन्ति चाऽस्खलितम् । घटनानुषङ्गिकाणि सुखानि दुःखानि चाऽप्यस्मिन्नेव Jain Education International चिन्तनधारा - मुनिरत्नकीर्तिविजयः । ३६ For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy