SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठिनां गृहकार्यं कृत्वा स्वस्य पुत्रस्य च पोषणं करोति स्म। बालकः संगमोऽपि प्रकृत्या प्रशान्तो गम्भीरो बुद्धिमान् चाऽऽसीत् । ततो न कदाऽपि तं दारिद्रयं पीडयति स्म । सदा मातुः परिस्थिति विज्ञाय साहाय्यमेव चकार सः। एकदा पर्वदिने सर्वेऽपि ग्रामीणाः बालकाः एकत्रीभूयाऽक्रीडयन् । तदाऽपृच्छन् सर्वेऽपि परस्परं "त्वया किं भुक्तं, त्वया किं भक्षितमि"ति । तदा क्रमशः परमान्नं भुक्तमिति सर्वैः व्याकृतम्। संगमेन तु मौनमेव धृतम्, ततः एकेन पृष्टं, संगमः - त्वं किमर्थं न वदसि? वद वद, किं त्वया भुक्तम् । स तूष्णींस्थितः । तस्य मनसि खेदो जातः, अश्रुधारा बहिर्निर्गता। आशु गृहं गतवान् म्लानवदनमधःकृत्वा। तत्र मातुः अङ्के शिरो मुक्त्वोच्चैः रोदनमारभत । सहसैव रुदन्तं तं दृष्ट्वा माता चिन्ताग्रस्ताऽभवन् । सा प्रप्रच्छ-बाल ! कथं रोदिषि त्वम् ?, कि केनाऽपि तर्जितः ? किं केनाऽपि हतः?, किं केनाऽपि गालिः दत्ता? इति । किन्तु न वदति किमपि बालकः । अन्ते त्रुटितस्वरेण स आह - मातः ! मातः ! अद्य मम सर्वैः मित्रैः पायसभोजनं कृतम् । अतोऽद्य परमान्नं भक्षयितुं मेऽपि स्पृहाऽस्ति । एतच्छ्रुत्वैव वज्रहतेव सा चिन्तयामासिवान् "कीदृशं मे दुर्भाग्यं, एकमात्रस्य बालकस्यैतादृशीं लघ्वीमपि लिप्सां पूर्णीकर्तुं न समर्थाऽहम् । सर्वेषां जनानां पर्वदिने पक्वान्नभक्षणं दृष्ट्वा मम बालकस्याऽपि एतादृशीच्छोत्पद्येत, तदा तस्य को दोषः?" इति । एवं मातुः मानसेऽतीव ग्लानिः संजाता। __ "यस्य गृहे एकवारमपि भोजनस्य प्राप्तिः सुदुर्लभा तस्य परमान्नस्य प्राप्तेः का वार्ता ?" तथापि कथं पूर्यते बालकस्य मनोरथः इति विचिन्तयन्त्या तया गदितं- बालक ! स्वपिहि त्वम् । अधुनैवाऽहं तुभ्यं पायसं ददामि।। बालकस्य स्पृहापूर्त्यर्थं येन केन प्रकारेण तया जनन्या परमान्नयोग्यानि खाद्यपदार्थानि श्रेष्ठिभ्यो याचित्वा परमान्नं निष्पादितम् । परमान्नमतीवोष्णमासीत् । ततोऽनुष्णं कर्तुमेकस्यां स्थाल्यां पायसं दत्त्वा तस्मै बालाय केनाऽपि कारणेन बहिर्गता सा। अथ यावद् बालकः परमान्नं शीतलीकृत्य खादितुमारभते तावदेव तेन 'धर्मलाभः' इति ध्वनिः श्रुतः। तां ध्वनिदिशं प्रति स दृष्टिं करोति । तदैव तेन संगमेन तपस्तेजोन्वितललाटा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy