________________
कल्पनाऽपि कम्पयत्यस्मादृशान् जीवान् तादृशाः विंशतिः घोरोपसर्गा एकस्यामेव क्षपायां कृताः तेन संगमेन।
तथाऽपि न जाने किं न तस्य चेतसि संतोषो जातः, ततस्तेनाऽभव्येन दुष्टसंगमेन पुनरुपसर्गा आरब्धाः । यदा यदा भगवान् भिक्षार्थं गतवान् तदा तदा तेनाऽऽहारोऽनेषणीयः कृतः; एवं षण्मासपर्यन्तं कृतम् । ततो भगवता जलमाहारं च विना षण्मासकालो व्यतीतः ।
प्रान्ते भूर्युपसगैरपि भगवन्तमविचलितं ज्ञात्वा भग्नाहङ्कारः संगमः देवेन्द्रभयात् प्रभुपादयोः पतित्वा "प्रभो ! मेऽपराधः क्षन्तव्यः' इति प्रार्थितवान् । एवं विभुं प्रणम्य स्वर्ग प्रति प्रस्थितः संगमः।
एतत्प्रसङ्गेन ज्ञायते करुणागभितायाः साधनायाः माहात्म्यम् । नैकेष्वुपसर्गेषु कृतेष्वपि तस्य मनसाऽप्यशुभं न चिन्तितं, अलं वचसा कायेन च । अत्रैतदेव ज्ञेयं यत् श्रीमहावीर रनन्तशक्तेः अपूर्ववीर्यस्य च स्वामी आसीत् । येन अङ्गुष्ठमात्रेण लीलया मेरुगिरिरपि प्रकम्पितः तहि तदर्थं एष संगमस्तु तृणसन्निभः आसीत् । तथाऽपि तस्य नाऽशुभं कृतं कारितं च । शक्तौ सत्यामपि न करणीयमन्येषां प्रातिकूल्यमेतदेव प्रभोः यथार्थसाधनायाः रहस्यमस्ति । प्रभोः नाऽत्र करुणा स्थगिताऽपि त्वितोऽप्यधिका करुणाऽत्र दृश्यते यद्यदा संगमः क्षमा याचित्वा स्वर्गं प्रति गतवान् तदा प्रभोः नयनाभ्यां जलबिन्दुः निःसृतः, यतो मदीयं सांनिध्यं प्राप्नुवन्तो बहवो जीवाः शिवङ्गताः किन्तु केवलमेष संगम एव बोधिं न प्राप्तवान्। अहो ! श्रीमहावीरप्रभोः करुणा, अहो! श्रीमहावीरविभोः साधना। प्रभोः एतादृश्याः करुणायाः वर्णनं निरूपयन् कलिकालसर्वज्ञपूज्यपादश्रीहेमचन्द्रसूरीश्वर आह -
कृतापराधेऽपि जने कृपामन्थरतारयोः । ईषद्बाष्पाभ्योभद्रं श्रीवीरजिननेत्रयोः॥
एवं यत्र करुणा तत्रैव साधना शक्या । करुणाविहीनायाः साधनायाः मूल्यं किञ्चिदपि नास्ति । अन्ते षड्विशतिजन्मशताब्दीवर्षे करुणागर्भितायाः साधनायाः पथदर्शकस्य श्रीमहावीरभगवतः चरणे कोटिशः प्रणिधानानि मे भवन्तु ।
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org