________________
साधुः (आगत्य) नारायण! नारायण!
(उभे महिष्यौ साधुं प्रणमतः) - उत्तिष्ठतम् । आयुष्यमत्यौ भवतम् । महिष्यौ (भृशं उच्चैः रुदत्यौ) पूज्यपाद! कथमप्युज्जीवयतु अस्मत्प्रभुपादम् । तत्कृते
यद्यत् कष्टं सह्यं भवेत्, तत् सर्वमावां सहिष्यावहे । दयां करोतु। आवयोरातयोः
दारुणदुःखपीडितयोः। साधुः तर्हि एवं कुरुतं महिष्यौ ! करण्डके पुरोऽवस्थिते विषं वर्तते, भीकरं विषम् ।
तस्मिन विषे भवत्योः कयाचित् पीयमाने झटित्येव निद्रात इव सजीव उत्थास्यते
राजा । मा भैष्टम् । मोहिनी पूज्यपाद! सर्वस्य प्राणिजातस्य प्राणाः अमूल्या ननु? तत्कथमावामेवमुपदिशति
प्राज्ञो विषपानं भवान् । तन्न नैव विषं पास्याव आवाम् । विलासिनी समस्तं प्राणिजातं कीटपतङ्गपशुपक्षिणोऽपि स्वं सजीवं वाञ्छन्ति । नेदं साधु
यदावां विषं पिबतमित्यागृह्णाति भवान् । यदि पीते विषे राजा सजीव उत्तिष्ठेत
तहि कुतो न भवानेव परमदयालुः विषं पीत्वा आवां समुद्धरेत् ? साधुः (साश्चर्यं, स्वगतं ) अहो, पति कञ्चद्वरय परिणयेत्युक्तवन्तं मां त्वमेव मे पतिरिति
प्रतिवदतः एते नारीमण्यौ । मत्प्रयुक्तेन अस्त्रेण मामेव प्रहर्तुमुपक्रमेते एते । अस्तु, अस्तु। (प्रकट) भो महिष्यौ ! तिष्ठतं तावद् यावत् प्रतिनिवर्ते। (साधुवर्यः स्तोकावधिपर्यन्तं नेपथ्यान्तरे निलीनस्तिष्ठति । नारीमण्योराचरितं रहसि वीक्षते।) (विजनं संनिवेशं प्राप्य महिष्यौ राज्ञः कलेवरमुपसृत्य तस्य किरीटाङ्गुलीयादिकमवमुच्य मिथो ममैतत् किरीटं, ममैतदगुलीयकमिति सरभसं कलहं प्रारभतः । साधुः नेपथ्याबहिरागत्य तत्र स्थितं 'विषकरण्डकमुद्धृत्य' 'विषं' निपीय स्मयमानस्तिष्ठति । अत्रान्तरे सर्वं समीक्षमाणो राजा झटित्युत्थाय भृशं क्रुद्धो महिष्यावुद्दिश्य) 'धूर्तनार्यो ! इतः अपगच्छतम् । मामेतावत्यपर्यन्तं
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org