SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ राजा साधुः पातिव्रत्यं नाटयित्वा स्वार्थलाभाय वञ्चितत्यौ इतो निर्गच्छतम्, हुम् । नाऽहमितः प्रभृति युवयोधूर्तनार्योर्मुखमपि द्रष्टमिच्छामि । (नेपथ्ये भजगोविन्दस्तोत्रं - "यावज्जीवो निवसति देहे कुशलं तावत् पृच्छति गेहे। गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥" इतीदं गानं श्रूयते । महिष्यौ भृशं लज्जिते त्वरितं ततः अपक्रामतः । तयोर्हस्ताभ्यां प्रच्युतान्याभरणानि सर्वत्र विकीर्यन्ते । साधुः उच्चैर्हसन् राजानमुपसर्पति ।) (सखेदः) भो पूज्यपाद ! मन्निमित्तमेतद् भवते सर्वानर्थकरं समापन्नम् । क्षन्तव्यो मेऽपराधः स्वामिन् ! भीकरं प्राणान्तकं दारुणं विषं पीत्वा अपि सजीवस्तिष्ठति भवान् । ननु संभ्रान्तोऽस्मि भोः ! (विहस्य) नात्र कश्चिदनों मां समापन्नः, प्रभो ! मा भैषीः । करण्डके स्थितो जम्बीरफलरसोऽतीव स्वादुरासीत् । तिष्ठतु तद् राजन् ! मोहिनीविलासिन्योस्तव सुवर्णपुत्थल्योः भार्याशिरोमण्योः पातिव्रत्यं सुष्ठ निरूपितं ननु, परीक्षितं खलु? (राजा चकितः उत्थाय साधुसहितो निष्क्रमते ।) द्वितीयं दृश्यम् - (मन्त्रिणमुद्दिश्य) मन्त्रिवर्य! एतावत्पर्यन्तं तयोर्मोहिनीविलासिन्यो रूपलावण्यादौ व्यामूढोऽहं तयोरनुरक्त आसम् । इदानीं मे तयोविषये भ्रमनिरसनं सञ्जातम् । इतः प्रभृति सुमतिर्मे ज्येष्ठमहिषी क्षुभितचित्तं मां नूनं प्रसादयिष्यति । तामेवावलम्बे मन्त्रिवर्य ! आमाम्, सत्यम् । असंशयं सुमत्येव इतः परं ते निर्वृतिदात्री । तथापि न किञ्चिदपरीक्ष्य ग्रहीतुं युक्तं खलु ? परीक्ष्यतां तस्या अपि पातिव्रत्यमिति सूचयामि । कान्तं सुर्वणमपि दग्धमेव सुपरीक्षितं भवति ननु । एवं महाराज ! श्वः कल्य एव उत्थाय समस्तसेनासमेताः सर्वे वयं समीपस्थं मगधदेशं प्रति राजा मन्त्री ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy