SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ राजा मन्त्री अभियास्यामः । मगधराजं विरुद्ध्य प्रवृते घोरसंग्रामे विद्याधरो राजा निहत इति मृषैव घोषयिष्यामः । एतद् भीकरं दुःश्राव्यं दुरन्तवृत्तं श्रुत्वैव तत्क्षणमेव यदि झटिति सुमत्याः प्राणाः विमुच्यन्ते, सा च मृता निपतति तदा तस्याः त्वयि अनन्योऽनुरागोऽकुण्ठितं च पातिव्रत्यमिति निःसन्दिग्धं निरूप्यते । तथैवास्तु। (उभौ निष्क्रामतः नेपथ्ये राजभटैः। 'हतो राजा संग्रामे' इत्युद्घोषणम् क्रियते । राजभटेषु 'हतो राजा संग्रामे' इति राजधान्यां घोषयत्सु तत्समकालमेव सुमत्याः प्राणपक्षिणः शरीरनीडं विहाय निरगच्छन् । राजपरिजनाःतस्याः पार्थिवशरीरं अग्निस्पर्शाय स्मशानभूमि प्रति नेतुमुधुक्ताः।। प्रभो ! सुदारुणा वार्ता श्रूयताम् । श्रुतवत्येव पतिदेवस्य मरणवार्ता सुमती ज्येष्ठमहिषी चण्डवातोन्मूलित इव कदलीस्तंभो भूमौ निपत्य प्राणानजहत् । तस्याः पाथिव-शरीरं स्मशानं प्रति नीयमानं वर्तते, प्रभो!। (दिग्भ्रान्तः) हाँ ? सुमतिम् ? स्मशानं प्रति ? न, नैव, तस्य अवकाशो नैव दीयते । तया सह अहमपि भस्मीभवेयम् । नाऽहं तद्वियुक्तो जीवितुं पारयामि। (आक्रोशति) हा सुमते ! धिङ् मां मूर्खसाहसं पातिव्रत्यनिरूपणव्यसनिनम् । तिष्ठ तिष्ठ, अहमपि त्वया सह यास्यामि। (समुत्थाय सुमतिकलेवरं स्मशानं प्रति नीयमानमनुगच्छति तस्याः कलेवरं अङ्के निधाय खिन्नमानसो दूयमानहृदयोऽश्रूणि मुञ्चन् संभ्रान्तस्तिष्ठति ।) किमिदं प्रभो! मृतकलेवरे काष्ठप्राये व्यामोहः? शुष्कं काष्ठेन्धनमपि कदाचित् प्ररोहेत्, मृतकलेवरस्य पुनरज्जीवनं तु नैव । तदुत्तिष्ठतु राजन् ! दहनक्रियां निर्वर्त्य प्रतिनिवर्तामहै। मृगश्वापदनिबिडे घोरराण्ये क्षीणप्रकाशे दिवसावसाने न युक्तमुपस्थातुम् । राजहीने राज्येऽराजकत्वं ताण्डवं लास्यति, लुण्ठाकाः धूर्तापसदाः रस्यन्ते । अलमनेन अरण्यरोदनेन वृथाविलपनेन। राजा मन्त्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy