________________
द्वौ प्रकारौ चिन्तयामः । तथाहि - (i) केचित् सर्वाभिरपि शक्तिभिः सुसज्जा अपि अनुचितकृत्यजनितं दुःखविपाकं जानन्ति ।
अतः स्वयमेव ते ततो विरमन्ते । (ii) केचित् तु पूर्वोक्तसामर्थ्यसहिता अपि, अनुचितं चिकीर्षवोऽपि च पूर्वमेव ततो
विरतत्वात्, लोकलज्जया प्रतिष्ठाहानिभयेन चाऽनुचितं नाऽऽचरन्ति । (यदि यथेप्सितोऽवसरः प्राप्येत तर्हि कुर्युरपि।) अतः ज्ञातारोऽपि अतत्त्वस्याऽकर्तार एते। तथा स्तोका एव केचित् ये अनुचितमाचरितुं सर्वसामर्थ्ययुता अपि तथाविधपुण्यातिशयेनैव अतत्त्वं न जानन्ति । अतस्तत् न कुर्वन्ति । कदाचित् अनुचितज्ञाने तु कुर्वन्त्यपि ।
परन्तु ये अतत्त्वं सर्वथा न जानन्ति सर्वथा च तत्करणसामर्थ्यहीना अपि, ते तु इह लोके अतिविरलाः सन्ति ।
वयमत्र कस्यां कोटौ अन्तर्भूता इति तु अस्माभिरेव निर्णेतव्यम् । इति ॥
आतपच्छाययोर्यद्वत् सहाऽवस्थानलक्षणः । विरोधस्तद्वदत्रापि विज्ञेयः सुखवाञ्छयोः ॥
(श्रीमल्लिनाथमहाकाव्ये)
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org