________________
शक्तः, किन्तु स तत्त्वबोधं निजक्षमतां च नैव जानाति, अतोऽन्यासु दिक्षु महोद्यमं कुर्वतोऽपि तस्य सम्यग्ज्ञानानुगं समाचरणं न सम्भवति ।
केचित् तु जनाः यथाकथञ्चिद् निजबुद्धयतिशयेन शास्त्राद् गुरुमुखाद् वा यथास्थितं तत्त्वं सुतरां जानन्ति किन्तु तत् कर्तुं न प्रभवन्ति, यतो हि तथाविधया शारीरिक-मानसिकक्षमतया विकलास्ते।
तथा इह जगति विरला एव केचित् सन्ति ये तथाविधप्रज्ञोत्कर्षेण स्वयमेव तत्त्वं सम्यक्तया ज्ञात्वा, तत्प्राप्त्युपायान् विचार्य, तथोपायानुसारं आचरणं च कृत्वा तत्त्वं संसाधयितुमपि सक्षमाः । यदुक्तम् -
श्रेयोर्थिनो हि भूयांसो लोके लोकोत्तरे च न। स्तोका हि रत्नवणिजः स्तोकाश्च स्वात्मसाधकाः ॥ (ज्ञानसारः २३/५)
इयं तु तत्वज्ञमीमांसा कृता । अस्या आधारेण किञ्चिद् अतत्त्वज्ञसम्बन्धिविचारणमपि कुर्मः। ___एतद्विषयेऽपि चतुष्प्रकारा जना लोके दरीदृश्यन्ते -
१. अतत्त्वस्य ज्ञातारः तदनुसारं चाऽऽचरितारः । २. अतत्त्वस्य ज्ञातार: किन्तु तत् कर्तुमक्षमाः। ३. अतत्त्वस्याऽज्ञातारोऽपि तत् कर्तुं क्षमाः। ४. अतत्त्वस्याऽज्ञातारस्तदकर्तारश्च ।
इह लोके ह्यनादिकालाद् अकृत्यकरणसंस्कारवासितत्वात् प्रभूता जनाः अतत्त्वं - अनुचितकृत्यं कर्तुं सम्यक्तया जानन्ति, तथा निःशङ्कं हस्तलाघवेन च तद् आचरन्त्यपि।
केचित् तु अकृत्यं कर्तुं सम्यक्तया जानन्ति किन्तु मानसिक-दैहिक-सामाजिकआर्थिकादिसामर्थ्यविकलत्वात् तदाचरणेऽक्षमाः । इह द्वौ प्रकारौ संभवतः। पश्यामस्तावत् - १. येषां पार्वे धनं नाऽस्ति, अथवा ये शरीरशक्तिविहीनाः, अथवा आद्ययोर्द्वयोः सत्त्वेऽपि
ये धृष्टतादिगुण(?)सन्दोहरहितास्ते अकृत्यज्ञा अपि तदाचरणे न क्षमाः। २. केचित्तु एतैः सर्वैः कारणजातैरविकला अपि अनुचितकृत्यं कर्तुमक्षमाः । अत्राऽपि
४९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org