________________
षष्टं दृश्यम् (महिषीकलेवराधिष्ठितस्कन्धोऽग्रे सरन् पथि पार्श्वे कस्यचित् सूचिकस्य आपणमुपगम्य
तत्र किंचिदिव विश्राम्यति । अत्रान्तरे वृद्धा काचित् सूचिकमुपसर्पति ।) वृद्धा भो भो ! दीपावली सन्निहिता। मम पुत्रकाय अधोरुकमेकं सीव्यताम्। सूचिकः तथास्तु मातः । सकृदानय तवार्भकम् । सुष्ठ मापनं कृत्वा तस्य अोरुकमेकं
सीव्यामि। वृद्धा किमेवं वदसि भोः ! सीव्यतादोरुकम् । कृतं मापनादिना । सीवने
कृतचिर-परिश्रमस्य तव मापनादि नापेक्ष्यते । ऊहित्वा सीव्यताद?रुकं मत्पुत्रकाय । सोऽतीव चपलः, सदा क्रीडारतः । क्षीरं पिबेति मुहुर्मुहुः बलात्कृतोऽपि नैव पिबति । उपहृतं च अन्नपानादिकं तिरस्कुरुते । प्रायेण आनक्तं क्रीडारतो यदा कदा वा स्वेच्छया गृहमेति । उक्तं नशृणोति,अनुक्तं च
करोति । सूचिकः अस्तु मातः ! पञ्चषदिवसेषु ते पुत्रकस्य अ|रुकं संसीव्य प्रयच्छामि । तदा
त्वत्पुत्रकं समानय । अत्रैव परिदधतु, तुष्टो भवतु । वृध्दा एवमेवाऽस्तु महाशय ! सीवने विलम्ब मा कुरु । पञ्चषदिनानन्तरं पुत्रकसमेता समागच्छामि।
(पञ्चदिनानन्तरं-) वृद्धा .
(पुत्रकसहिता सूचिकमुपगम्य) महाशय सिद्धं ! वा, स्यूतं मेऽर्भकस्य अोरुकं? पश्य इदमिदमागतोऽस्ति मे पुत्रकः पिञ्छणि कृतपूर्वसेवावृत्तिवेतनं गृहीत्वा । (वत्समुद्दिश्य) आगच्छ वत्स! अर्धारुकं परिधत्स्व। (वृद्धा अशीतिवर्षप्रायं 'पुत्रकं' हस्ते गृहीत्वा सूचिकस्य पुरतः स्थापयति ।
सूचिकश्च सिद्धमोरुकं लघुपरिमाणं वस्त्रपेटिकाया उद्धृत्य प्रयच्छति ।) * PENSION इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org