SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ काणः किं वदेत ? - मुनिकल्याणकीर्तिविजयः। एकस्मिन् नगरे एकः काणः वसति स्म । स महाधूर्तः महाबुद्धिशाली च आसीत् । निजस्य सर्वतोग्राहिणा शाठ्येन सः अनेकान् प्रतारयितुं साफल्यवान् अभवत् । अथ एकदा स प्रचुरधनं उपार्जयितुं सद्यः फलेग्रहिं उपायं एकं व्यचिन्तयत्।। ___ तस्य गृहे वंशक्रमागतं कोटिमूल्यं रत्नखचितं एकं सुवर्णपात्रं आसीत् । तद् गृहीत्वा स राजसभां गतवान् । ततः राजानं प्रणम्य तस्य आज्ञां च गृहीत्वा तेन घोषणा कृता - 'यः कश्चित् मां अश्रुतपूर्वां कथां श्रावयिष्यति तस्मै अहं इदं सुवर्णपात्रं दास्यामि, किन्तु यदि सा कथा मया पूर्वं श्रुता स्यात् तर्हि तेन जनेन मह्यं पञ्च सहस्राणि दीनाराणां देयानि' इति।। एनां घोषणां श्रुत्वा बहवः जनाः सुवर्णपात्रस्य लोभेन राज्यसभां आगत्य एकैकशः तं अपूर्वां कथां श्रावयन्ति स्म । किन्तु काणः प्रत्येकं कथायाः अवसाने 'एषा कथा तु मया पूर्वं अपि श्रुता अस्ति' इति अकथयत् । ततः च तेन कथाकारकेन जनेन तस्मै दीनाराणां पञ्चसहस्री दातव्या अभवत् । एवं च गतेषु कियत्सु दिनेषु सः काणः लक्षशः दीनाराणि उपार्जयत्। ___ कर्णोपकर्णं एषा वार्ता विदेशेषु अपि प्रसृता । अथ एकदा ज्ञातकाणवृत्तान्तः कश्चिद् वैदेशिकः नगरं इदं प्राप्तः । ततः कञ्चित् पृष्ट्वा नृपसंसदं गतवान् । नृपतिं सादरं प्रणम्य विज्ञप्तिं कृतवान् - 'प्रभो ! अहं अस्मै काणाय अश्रुतपूर्वां कथां श्रावयितुं ततः च हैमपात्रं जेतुं उद्यतः अस्मि । कृपया मां आज्ञापय।' नृपेण उक्तम् - 'भोः परदेशिन् ! मा त्वं साहसं अवलम्बस्व । बहवः जनाः अनेन पराजिताः सन्तः प्रभूतं धनं हारिताः । अतः वृथा त्वं निजकीर्ति मा कलङ्कय धनं अपि च मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy