SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पटह: एस्. जगन्नाथः एस्. जगन्नाथः सहायकसंशोधकः, प्राच्यविद्यासंशोधनालयः, मैसूरु-५७०००५ 1. पूर्वं कश्चन राजा नरपतिनिचये गर्जनमिदमारभत "स्मरत प्रपितामहमार्या ! मे तीक्ष्णं वेदनमप्यनुभवत । प्रणतं शत्रुषु शीर्षं यस्यावनतग्रीवानस्मानकरोत् तद्धटनाग्निज्वालाप्रशमनशस्तं किञ्चित् क्रियतां नो चेत् तन्नः शौर्यं प्रति थूकृतिकृत् ॥" 2. अग्रे भूम्या: पत्युः कश्चन हृदयोद्भूतां वाणीमगदत् "काले कस्मिन्नपि संभूतं किमपि कथं तव हृज्वरमसृजत् ? सकलं विस्मर, तव स प्रपितामह उद्भवति क्षमाप ! किमधुना ? यस्त्वद्रोषज्वलनोद्दीप्तिं जनयेत् स मनोधैर्येण विना कालान्तरितो रिपुरपि विधिना ||" 3. तद्वाक्याङ्करनखरं कटुतमलपितं केनचिदुदसारि द्राक् “प्रतिकारस्याकरणं भव्यतरमिति कविभिनिर्णीतं प्राक् । संप्रति चिन्तय कं प्रति दृष्टिस्फूर्जथुरास्फोटं विदधातु ? प्रलं वैरं निजमस्तित्वं मृत्या कस्यावनिप ! जहातु ? प्रीति: प्रेतव्रजगा भातु ॥?" 4. प्रथमब्राह्मी मानुषपाले शत्रुविसृष्टं शूलं जातं परमपरस्य श्रुतियुगलामृतधारालसदभिषेकीभूतम्। शमवाक्कारिणि राज्ञो वीक्षणमशनिप्रतिमं पतितं घोरं, हृदयक्षोभिनि मनुजे समभूनयनं बहुसंचितघृतसारम् । प्रेतकदम्बकमहसत् क्रूरम् ॥ 5. राष्ट्रेऽन्यस्मिन् वार्ता प्रसृता नासीद् भीरुस्तस्मिन् कोऽपि त्रिदशाधीशान् स्वान् गणयद्भिस्तत्रत्यैरुत्साहः प्रापि। संगरनामकदर्शनसूत्रश्रेणिव्याख्यारचनाचतुरैः सहसास्फोटितशौर्यक्रोशितविजयोत्स्फूर्जनगर्जनमुखरै? संगरकुतुकै सुकृतिप्रवरैः ॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy