________________
भिषग्वर्यः स्वकर्मणि कुशलो लब्धयशाश्चाऽऽसीत् । सर्वाधुनिकसाधनोपपन्न आसीत्तस्य शल्यक्रियाकक्षः । शल्यक्रियातिथिरपि सुनिश्चितः । सर्वेऽपि कुटुम्बिनस्तस्याः सविधे समुपस्थिता आसन् । दारकाः प्रतिवेशिनो मातृगृहबान्धवाश्चापि प्रमुखास्तत्समीपे स्थिताः । तथापि सा केवलमेकमेव प्रियजनं विस्फारितनेत्राभ्यां प्रतीक्षमाणाऽऽसीत् । स आसीत्तस्या जीवनज्योतिर्भूतो दयितः।
शल्यक्रियावेला समासन्ना जाता। सन्ध्याकाले चतुर्वादनक्षण एवाऽऽसीत्तस्याः पर्यायः । पतिस्तस्याः तावता कालेनाऽपि नाऽऽयातः । सम्प्रत्यसौ महालेखानियन्त्रक आसीत् । शल्यक्रियाकक्षप्रवेशात्प्रागेव कश्चित्सेवकस्तत्प्रेषितां चिटिकामेकामादाय समागतो यस्यां लिखितमासीत् -'प्रबन्धसमितेरधिवेशनं सम्प्रत्यपि प्रवर्तते । अतो नाऽऽगन्तुं पारये । अलं चिन्तया । शल्यक्रियां सपादय ।' तच्छुत्वैव सा मूर्छामुपगता।
e-
धीरैरैः समर्यादैः सत्त्वं रक्ष्यं विवेकि भिः । समापन्ने निजप्राणसंशये सुमहत्यपि ॥ १ ॥ सत्त्वमेकमिदं मा गात् सर्वमन्यद् भविष्यति । सति कन्दे न सन्देहो वल्ल्याः पल्लवसम्पदाम् ॥२॥
(श्रीमल्लिनाथमहाकाव्ये)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org