SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पुनः केचित् काञ्चिद् दिशमिह गता दुःखदलिता परे प्राज्ञाः पापैरविरतिविहीना वनतले । कुटुम्बक्लेशेन क्चथितमतयः केऽपि कुहरे इति स्वान्ते ध्यान्ते सति न भवति प्राज्ञपटुता ॥१७॥ पुरा पुण्यो गुण्योऽभवदिह नृपालोऽपि सगर: सदा चक्री वक्रीकृतविविधनेत्रः क्षितिपतिः । परं पुत्रत्राणाप्रभुरिह सदा दुःखदलितो गतस्त्राता भ्राता इति भवति नैवाऽत्र भविनाम् ॥१८॥ परा लक्षा दक्षा दधतु दमनं देहदहनं असारा साऽपारा भवतु भविनां भीतिभजना। जिनोक्तानां तासां वचनरचनानां प्रभजना यदास्थाऽपास्ता चेद् भवति भववैराग्यविषये ॥१९॥ दधयोतोद्योतोदलिततमसं दर्पदलनं जिनं श्रेष्ठं ज्येष्ठं झगिति जनजन्मोज्झसनकम् । सदा त्रस्यद् भ्रश्यद् भवभयभरं भाविभरितं । भजन्तु भ्राजन्तु प्रभजनजयाच्छ्रीजिनपतेः ॥२०॥ परे पापाः सर्पा इव विषमवेगैर्विदधते सदा दुःखज्वालां न हि हृदयशालां तदपि ये । पुनश्चिन्ताक्रान्तां जगति कुरुते सूरिमहितः स शं देयाज्जीयाद् वरविजयनेम्याह्वयगुरुः ॥२१॥ निरारम्भो दम्भोद्दलनकरणः पापहरणः पृथिव्यां पुण्यायां प्रथित इह पुण्यैः प्रकटितः । असौ सूरिः सूरीश्वरभूतपदाम्भोजकलितो नं भव्यान्नव्यान् सुखमिह सदैव प्रकुरुताम् ॥२२॥ १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy