________________
दुःख' मिति मत्वा श्रीमहावीरभगवान् चलनस्पन्दनरूपं सर्वमप्यङ्गव्यापारं संहृत्य निश्चलीभूतः । तदा गर्भस्य निष्पकम्पं निरीक्ष्य माता त्रिशलादेवी व्याकुला जाता, तथाऽत्यन्तमार्तध्यानं प्राप्तवत्यपि । ततो विभुना मातुरेतादृशीं स्थिति ज्ञात्वाऽङ्गस्पन्दनं कृतं, तथा तदैव संकल्पोऽपि स्वीचकार स्वयमेव यन्मातरपितरयोरुपस्थितौ न दीक्षा प्रतिपत्तव्या मया।
एतेनाऽपि प्रसंगेन ज्ञायते यत् प्रभोः चित्ते कीदृशी करुणाऽऽसीत् । सूक्ष्माऽपि क्रिया न तादृशी करणीया यया भवेद दुःखी कोऽपि । तथैव गर्भावासत आरभ्य यावद्दीक्षापर्यन्तं संसारे स्थित्वाऽपि केनाऽपि सह न रुचिः अरुचिर्वा, रागो द्वेषो वा संघर्षो वा कृतः; एतादृशी न काऽपि प्रवृत्तिरादृता यतः केषाञ्चिदपि जीवानां चित्ते ग्लानिरपि भवेत्, एषैव साधना । अत्र सर्वस्यामपि घटनायां पूर्वभवानां साधनाया एव प्रभावः । अन्यथा पूर्वभवानां साधनामृते दीक्षायाः पश्चात् क्षणमात्रेणैवैवंरीत्या सहजभावेन ममतां कुटुम्बमोहं राज्यसुखं च विहाय समतायाः साधनाऽशक्या।
श्रीमहावीरविभोः साधना करुणागर्भिताऽऽसीत् । करुणां विना साधना अशक्या । करुणैव जिनशासनस्य साधनायाश्च मूलमस्ति। दया अनुकम्पा चेत्यभिधानेनाऽपि करुणोद्घष्यते। आस्तां मनुष्यादिकं प्रत्यपि तु सूक्ष्मादपि सूक्ष्मजीवं प्रत्यात्मीयतैव करुणा। अपराधिषु जीवेष्वपि न प्रातिकूल्येन वर्तनं करुणा।
सर्वैः जीवैः स्नेहिनः उपकारिणश्च जनान् प्रति तु करुणा विधीयते, किन्तु विरोधिनो निन्दकानपकारिणोऽवहेलनाकारिणश्च जीवान् प्रत्यपि करुणा करणीया, मनसाऽपि च नैतेषां जीवानामशुभचिन्तनं कार्यम् । एतत्तु केवलं जिनशासने महावीरस्य साधनायां चैवोपलभ्यते, नान्यत्र कुत्रचिदपि । भगवत ईदृशी करुणैव विश्वे तथा निखिलदर्शनेष्वपि जिनशासनस्य सर्वोपरित्वं प्रमाणीकरोति ।
न करुणां विना धर्माराधना साधना च शक्या । तथाऽपि यद्यत्र भोगसुखार्थं स्वर्गार्थं पुत्रादीष्टसिद्धयर्थं धर्मार्थं च जीवानां हिंसा क्रियेत तत्र धर्मः कथं स्थीयते ? यस्य मूले केवलं हिंसैव विद्यते स कथमपि कदाऽपि धर्म इति न व्यपदिश्यते । करुणारूपं मूलमेव
४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org