________________
३९०
षड्दर्शन समुञ्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन
કરીને ઈશ્વરના અભાવનો ઉલ્લેખ કરી શકાય નહિ. નહિતર પિશાચઆદિ અતીન્દ્રિય પદાર્થોનો પણ અભાવ માનવો પડશે, કારણ કે તે પણ દશ્ય નથી.
अत्र प्रतिविधीयते । तत्र यत्तावत् क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वसाधनमुक्तं, तत् किं सावयवत्वं १, प्रागसतः स्वकारणसत्तासमवायः २, कृतमितिप्रत्ययविषयत्वं ३, विकारित्वं ४ वा स्यात् । यदि सावयवत्वं, तदेदमपि किमवयवेषु वर्तमानत्वं १, अवयवैरारभ्यमाणत्वं २, प्रदेशवत्त्वं ३, विकारित्वं ४ वा स्यात् । तत्राद्यपक्षेऽवयवसामान्येनानैकान्तिकोऽयं हेतुः, तद्ध्यवयवेषु वर्तमानमपि निरवयवमकार्य च प्रोच्यते । द्वितीयपक्षे तु साध्यसमो हेतुः, यथैव हि क्षित्यादेः कार्यत्वं साध्यं, एवं परमाण्वाद्यवयवारभ्यत्वमपि । तृतीयोऽप्याकाशेनानैकान्तिकः, तस्य प्रदेशवत्त्वेऽप्यकार्यत्वात् । प्रसाधयिष्यते चाग्रतोऽस्य प्रदेशवत्त्वम् । चतुर्थकक्षायामपि तेनैवानेकान्तो न चास्य निरवयवत्वं, व्यापित्वविरोधात्परमाणुवत् १ । नापि प्रागसतः स्वकारणसत्तासमवायः कार्यत्वं, तस्य नित्यत्वेन तल्लक्षणायोगात् । तल्लक्षणत्त्वे वा कार्यस्यापि क्षित्यादेस्तद्वन्नित्यत्वानुषङ्गात्, कस्य बुद्धिमद्धेतुकत्वं साध्यते । किं च, योगिनामशेषकर्मक्षये पक्षान्तःपातिन्यप्रवृत्तत्वेन भागासिद्धोऽयं हेतुः, तत्प्रक्षयस्य प्रध्वंसाभावरूपत्वेन सत्तास्वकारणसमवाययोरभावात् २ । कृतमितिप्रत्ययविषयत्वमपि न कार्यत्वं, खननोत्सेचनादिना कृतमाकाशमित्यकार्येऽप्याकाशे वर्तमानत्वेनानैकान्तिकत्वात् ३ । विकारित्वस्यापि कार्यत्वे महेश्वरस्यापि कार्यत्वानुषङ्गः, सतो वस्तुनोऽन्यथाभावो हि विकारित्वम् । तचेवरस्याप्यस्तीत्यस्यापरबुद्धिमद्धेतुकत्वप्रसङ्गादनवस्था स्यात्, अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटमिति ४ ।। हैन (Gत्त२५क्ष) : श्व२-र्तृत्व सा५ युतिमान उन मा 11रे छ. તમે પૃથ્વી આદિના બુદ્ધિમાનકર્તા તરીકે ઈશ્વરની સિદ્ધિ કરવા માટે જે કાર્યવહેતુને કહ્યો છે. તેમાં તમારે નિશ્ચિત કરવું જોઈએ કે કાર્ય કાને કહેવાય ? તેના ચારવિકલ્પો થશે. (૧) શું જે અવયવવાનું હોય તેને કાર્ય કહેવાય ? (૨) પહેલા જેનો અભાવ હતો, પરંતુ સત્તાનો સંબંધ થતાં તથા પોતાના કારણોની સાથે સમવાયવિશિષ્ટસંબંધ રાખવાની કારણે “સત્' કહેવાય, તે आर्य छ ? (3) शुंठेने पवाथी ४ 'इतम्' = रायेj छ. मावी बुद्धि थाय ते आर्य उपाय छ ? (४) शुंभ वि२ छोय ते विरिपर्थ आर्य अवाय छ ? જો તમે એમ કહેશો કે “અવયવવાળા પદાર્થને કાર્ય કહેવાય છે તો અમારો પ્રશ્ન છે કે.