Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ]
प्रथमाऽधिकारविंशिका
[ ५
अक्षरगमिनिका ——अधिकारसूचना खलु प्रथमा विंशिका १ । लोकाऽनादित्वमेव बोद्धव्यमिति द्वितीया विंशिकार । कुलनीतिधर्मास्तृतीयायां विंशिकायामिति ३ । एवमग्रेऽपि विंशिकाक्रमोऽवसेयः, तथाहि — शुद्धोऽपि च धर्मश्चरमपरिवर्ते४ । 'चरमपरियट्टे' इति पाठः सम्भाव्यते ॥ ११॥
तद्बीजादिक्रमोऽपि च तदा शुद्धधर्मः अवसेय इति५ । स पुनः सम्यक्त्वमेव विज्ञेय इति६ । दानविधिश्चेति७ । ततः खलु परमो पूजाविधिरेवेति८ ||१२||
श्रावकधर्मश्चेति । ततस्तत्प्रतिमाश्च भवन्ति बोद्धव्यास्तदा श्रावको ग्राह्य इति १० । यतिधर्म इति ११ । अतः पुनर्द्विधा शिक्षा चैतस्य यतेरिति १२||१३||
यतेरेव भिक्षाया विधिः शुद्ध इति १३ । तदन्तरायाश्च शुद्धिलिंङ्गान्तास्तदा भिक्षा बोद्धव्येति १४ । तत आलोचनाविधानमिति १५ ।। प्रायश्चित्तानि शुद्धिभावश्चेति१६ ।।१४।।
ततो योगविधानमिति १७ । केवलज्ञानं च सुपरिशुद्धमिति १८ । सिद्धविभक्तिः सिद्धानां भेदा इति १६ । तथा तेषां सिद्धानामेव परमं सुखमिति २० ||१५||
एता गाथा निगदसिद्धा इति टीका न वितन्यते । अर्थाधिकारानाश्रित्यैवाह— एए इहाहिगारा वीसं वीसाहि चेव गाहाहिं । फुडवियडपायडत्था नेया पत्तेयपत्तेयं ॥१६॥
अक्षरगमनिका — एत इहाधिकारा विंशतिः प्रत्येकं प्रत्येकं विंशत्यैव गाथाभिः स्फुटविकटप्रकटार्था ज्ञेयाः ॥ १६ ॥
टीका — एते अनन्तरोक्ता अधिकारा इह प्रस्तुतग्रन्थे सङ्ख्यया विंशतिरवसेयाः । ते च प्रत्येकं प्रत्येकं विंशत्यैव न न्यूनाधिकाभिर्गाथामिः स्फुटो विशदश्च विकटः स्पष्टश्च प्रकटो व्यक्तश्चेति एकार्था वै स्फुटविकटप्रकटः अर्थो येषां ते स्फुटविकटप्रकटार्था अधिकारा अर्थाधिकारा ज्ञेया अवसेया इति ॥ १६ ॥ एवंविधाधिकारश्रवणफलमाह
एए सोऊण बुहो परिभावंतो उ तंतजुत्तीए ।
पाएण सुद्धबुद्धी जायइ सुत्तस्स जोग्ग त्ति ॥१७॥
अक्षरगमनिका — एतानधिकारान् श्रुत्वा शुद्धबुद्धिर्बुधस्तन्त्रनीत्या परिभावयन् प्रायो जायते सूत्रस्य योग्य इति ॥ १७ ॥
टीका — एतान् अनन्तरोक्तान् स्फुटविकटप्रकटार्थानधिकारान् श्रुत्वा निशम्य शुद्धा निर्दोषा बुद्धिर्मेधा यस्य स शुद्धबुद्धिर्बुधः पण्डितः परिभावयन् मुहुर्मुहुरनुप्रेक्षमाणस्तुर्विशेषे तन्त्रयुक्त्या शास्त्रनीत्या न तु स्वमनीषिकया प्रायो बाहुल्येन जायते निष्पद्यते सूत्रस्य श्रीजिनागमस्य योगमर्हतीति योग्यः अध्ययनाधिकारीति ।। १७|| अथ सूत्रस्य योग्यानुपदिशन्नाह
Jain Education International
मज्झत्थयाइ नियमा सुबुद्धिजोएण अत्थियाए य ।
नज्जइ तत्तविसेसो न अन्नहा इत्थ जइयव्वं ॥ १८ ॥
अक्षरगमनिका —— मध्यस्थतया शुद्धबुद्धियोगेनाऽर्थितया च नियमात्तत्त्वविशेषो ज्ञायते, नान्यथा तस्मादत्र यतितव्यमिति ॥ १८ ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148