Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 123
________________ ११२ सप्तदशी योगविधानविंशिका [विंशतिर्विंशिकाः तित्थस्सुच्छेयाई वि नालंबणमित्थ जं स एमेव । सुत्तकिरियाइ नासो एसो असमंजसविहाणो॥१४॥ अक्षरगमिनका—अत्र तीर्थोच्छेदाद्यपि नालम्बनं यदेवमेवाऽसमञ्जसविधानात् सूत्रक्रियानाशः स एषः ।।१४।। टीका-अत्र अविध्यनुष्ठाने तीर्थोच्छेदाद्यपि तीर्थो मोक्षमार्गस्तदनुष्ठायी वा सङ्घस्तस्योच्छेदो विनाशः, आदिपदात् तीर्थाभासग्रहणं नालम्बनं तीर्थानुच्छेदायाविध्यनुष्ठानमपि कर्तव्यमिति नालम्बनीयम् । यद् यस्माद् एवमेव अविध्यनुष्ठाने क्रियमाण एव असमञ्जसविधानाद् विहितान्यथाकरणादशुद्धपारम्पर्यप्रवृत्त्या सूत्रक्रियाया नाश आगमोक्तानुष्ठानस्योच्छेदः । स सूत्रक्रियाया नाश एव एष तीर्थोच्छेदः। आगमविहितयथोचितानुष्ठातैव तीर्थः । न हि तीर्थनाम्ना जनसमुदाय एव तीर्थम्, आज्ञारहितस्य तस्याऽस्थिसंघातरूपत्वप्रतिपादनात् ।।१४।। सूत्रक्रियाविनाशस्यैवाऽहितावहतां स्पष्टयन्नाह सो एस वंकओ चिय न य सयमयमारियाणमविसेसो। एवं पि भावियवं इह तित्थुच्छेयभीरूहि ॥१५॥ अक्षरगमनिकास एष वक्र एव, न च स्वयंमृतमारितयोरविशेषः। एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः ।।१५॥ टीका—स एष सूत्रक्रियाविनाशो वक्र एव दुरन्तदुःखफल एव तीर्थोच्छेदहेतुत्वात्। ननु यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रियाविशिष्टजनसमुदायरूपं तीर्थं न व्यवच्छिद्यते । न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोषः अविधिक्रियाकर्तुस्तस्य स्वपरिणामाधीनप्रवृत्तिकत्वात्, केवलं क्रियाप्रवर्तनेन गुरोस्तीर्थव्यवहाररक्षणाद् गुण एवेत्याशङ्कायामाह-न च स्वयं मृतमारितयोरविशेषः किन्तु विशेष एव, स्वयं मृते स्वदुष्टाशयस्याऽनिमित्तत्वात्, मारिते च मार्यमाणकर्मविपाकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात्, तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमाश्रित्य गुरोर्न दूषणम्, तदीयाऽविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूषणमेव, एतदर्थकं ग्रन्थकृता योगशतकेऽप्युक्तम्--- गुरुणो अजोगिजोगो, अच्चंतविवागदारुणी णेओ। जोगिगुणहीलणा, णट्ठणासणा धम्मलाघवओ।।३७।। एतद्वृत्ति :-गुरोः आचार्यस्य योगिन इत्यर्थः, अयोगियोगः अयोगिव्यापारो विपरीतोपदेशादिः, अत्यन्तविपाकदारुणो ज्ञेयः अतिशयेन दारुण इत्यर्थः। कुतः ? इत्याह-योगिगुणहीलनात् कारणात् । एवं हि विडम्बकप्रतिपत्तिन्यायेन तद्गुणा हीलिता भवन्ति। ___ "उत्तमपदस्थस्य तद्धर्माननुपालनमघोषणा विडम्बना" इति वृद्धाः। तथा नष्टनाशनाद् नष्टा एते प्राणिनोऽयोग्यतया विपरीतोपदेशेन नाशिता भवन्ति । तथा धर्मलाघवात् हेतोः विपरीतोपदेशाद्धि तत्त्वाप्रतिपत्त्या वितथासेवनेन धर्मलाघवम् ।।३७।। एतदर्थकं श्रुतकेवलिनोपि वचनम् जह शरणमुवगयाणं, जीवाण सिरो निकिंतए जो उ। एवं आयरिओ वि हु, उस्सुत्तं पण्णवेतो य ॥ उपदेशमाला ।। ५१८॥ किञ्च-एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः-विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग् बोधिलाभे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः, अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148