Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
१२६ ] एकोनविंशी सिद्धविभक्तिविंशिका
[विंशतिर्विशिकाः इति पाठो ग्रन्थान्तरतो गृहीत इति ।।१४।। तथा
दो चेवुक्कोसाए चउरो जहन्नाइ मज्झिमाए य।
अट्ठाहिगं सयं खलु सिज्झइ ओगाहणाइ तहा ॥१५॥ अक्षरगमनिका—उत्कृष्टायामवगाहनायां द्वावेव जघन्यायां चत्वारस्तथा मध्यमायां चाष्टाधिकं शतं खलु सिध्यति ।।१५।।
टीका-एकेन समयेनोत्कर्षत उत्कृष्टायामवगाहनायां पञ्चधनुःशतमानायां द्वावेव तथा जघन्यायां हस्तद्वयप्रमाणायां चत्वारः सिध्यन्ति तथा समुच्चये मध्यमायां चाष्टाधिकं शतं खलु अष्टोत्तरशतमेव सिध्यति निर्वाति। अवगाहनाविषयकविशेषस्तु ग्रन्थान्तरोऽवसेयो ग्रन्थगौरवभयान्नोच्यत इति ।।१५।। तथा
चत्तारि उडलोए दुए समुद्दे तओ जले चेव। __बावीसमहोलोए तिरिए अलुत्तरसयं तु॥१६॥ अक्षरगमनिका-ऊर्ध्वलोके चत्वारः, समुद्रे द्वौ, जले च त्रयः, अधोलोके द्वाविंशतिस्तिरश्चि त्वष्टोत्तरशतम् ।।१६।।
टीका-एकेन समयेनोत्कर्षत ऊर्ध्वलोके पाण्डकवनादौ चत्वारः सिध्यन्ति, तथा समुद्रे लवणोदध्यादौ द्वौ सिध्यतः, तथा जले पद्मद्रहादिजलमध्ये त्रयः सिध्यन्ति, सिद्धप्राभृते तु जले चत्वार उक्ताः 'जले चउक्कं'त्ति। तथाऽधोलोके नलिनावत्यादिविजयेषु द्वाविंशतिः सिध्यन्ति, सिद्धप्राभृते पुनर्विंशतिपृथक्त्वमुक्तं 'वीसपहुत्तं अहोलोए'त्ति तथोत्तराध्ययनेषु जीवाजीवविभक्त्यध्ययने विंशतिरिति दृश्यते। तथा तिरश्चि तु तिर्यग्लोके पुनः अष्टोत्तरशतम् अष्टाधिकं शतं सिध्यतीति ।।१६।। अथोत्कर्षतः कालमाश्रित्याष्टौ समयान्, सप्त समयान्, षट् समयान् यावदेकं समयं सिध्यन्तो निरन्तरं क्रमश एकादयो द्वात्रिंशदष्टचत्वारिंशत्षष्टिप्रभृतयो यावदष्टोत्तरं शतं प्राप्यन्ते तानाह
बत्तीसा उडयाला सही बावत्तरी उ बोद्धव्वा।
चुलसीई छनउई दुरहियमदुत्तरसयं च॥१७॥ अक्षरगमनिका—द्वात्रिंशदष्टचत्वारिंशत् षष्टि सिप्ततिश्चतुरशीतिः षण्णवतियधिकं शतमष्टोत्तरशतं च बोद्धव्यम् ।। १७॥
टीका-प्रथमे समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्ति, द्वितीयेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, एवं तृतीयेऽपि यावदष्टमेऽपि समये जघन्यत एको द्वौ वा सिध्यत उत्कर्षतो द्वात्रिंशत् सिध्यन्ति, परतोऽवश्यमन्तरं समयादिकं, न कोऽपि सिध्यतीत्यर्थः, तथा त्रयस्त्रिंशदादयः अष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं समयादिकं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः षट् समयान् यावत् प्राप्यन्ते, ततः परमवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः पञ्च समयान् यावयाप्यन्ते, ततः ऊर्ध्व नियमादन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरः समयान् यावयाप्यन्ते, परतोऽवश्यमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतस्त्रीन् समयान् यावदासाद्यन्ते, परतो नियमादन्तरं, तथा सप्तनवत्यादयो व्युत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा व्युतरशतादयःअष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148