Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
[१५]
( प्रशस्तिः
।
श्रीमद्वीरजिनेशस्य श्रीसुधर्मा गणाधिपः। तपागच्छतरोर्मूलं श्रीगणिपिटकस्य च ।।१।। तस्य परम्पराऽऽयातः प्रवचनप्रभावकः। श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु ।।२।। तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशोषणः। श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ।।३।। पट्टे तदीयके श्रीमान् कर्पूरविजयाभिधः। अभवदतिकर्पूरः प्रसरच्छीलसौरभः ।।४।। तत्पट्टाभ्रनिशानाथः सनाथः सौम्यभावतः। क्षमाभृतां पुरोगामी श्रीक्षमाविजयोऽभवत् ।।५।। जिनोत्तम-पद्म-रूप-कीर्ति-कस्तूरपूर्वकाः। विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः ।।६।। तत्पट्टे स्वतपस्तेजस्तिरस्कृतनभोमणिः। श्रीमणिविजयश्चिन्तामणिरीप्सितदोऽभवत् ।।७।। तस्य शिष्योऽभवद् बुद्धया विनिर्जितबृहस्पतिः। श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः ।।८।। तत्पट्टे न्यायपाथोधिः धिया धृत्या समन्वितः। सदैव सत्यतत्त्वान्विट् सिद्धान्त-रै-कषोपलः ।।६।। अपूर्वग्रन्थनिर्माता मिथ्यामतनिकन्दनः। नाम्नाऽपरेण विख्यात आत्मारामेति सात्त्विकः ।।१०।। भूरिसुशिष्यकः प्रौढः आद्य आचार्यनायकः। अभूच्छ्रीविजयानन्दो जगदानन्ददायकः।।११।।
॥कुलकम्॥ स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।१२।। शिष्यः श्रीविजयानन्दसूरेर्बभूव सिद्धवाक् । श्रीविरविजयो मन्येऽन्यजन्माचीर्णसंयमः ।।१३।।
आबालभाववैराग्य उपाध्यायवरः कविः। स्वस्याद्भुतचरित्रेण सज्जनस्वान्तचित्रकृत् ।।१४||युग्मम् ।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः। श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने ।।१५।। तत्कालधीश्च सज्योतिः सर्वागमरहस्यवित् । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ।।१६।। युग्मम् ।। तच्छिष्यो ब्रह्मनिष्ठोऽवि प्रशस्तचरणक्रियः। विशालगच्छनिर्माता सत्सिद्धान्तमहोदधिः ।।१७।। स्रष्टा कर्मविवृत्त्यादेः सप्तशतमुनीश्वरः। प्रेम्णाऽजातशत्रुर्जीयात् प्रेमसूरीश्वरः प्रभुः ।।१८।। युग्मम् ।। तस्य चरमशिष्याणुश्रीकुलचन्द्रसूरिणा। वैक्रमेऽब्दे शरेन्द्रियाऽभ्रनयनमिते शुभे ||१६|| व्यरचि श्रुताट्टीकेयं जयताजिनशासने। यत्स्यात् सूत्रितमुत्सूत्रं शोधयन्तु बहुश्रुताः॥२०॥ युग्मम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 144 145 146 147 148