Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 143
________________ १३२ ] विंशी सिद्धसुखविंशिका [विंशतिर्विशिकाः समत्तं सव्वद्धापिंडियं अणंतगुणं। नवि पावइ मुत्तिसहं णंताहिं वग्गवहि ।। १६३।। एतद्वृत्ति :-'सुरगणसुहं' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं समस्तं' संपूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः ‘सद्धिापिण्डितं' सर्वकालसमयगुणितं तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैर्वर्गवर्गितं तथाऽप्येवं प्रकर्षगतमपि मुक्तिसुखं सिद्धिसुखं न प्राप्नोति ।। १२ ।। अथ कालभेदेनाऽपि सिद्धानां सौख्यस्य तुल्यतामाह तुल्लं च सबहेयं सव्वेसिं होइ कालभेए वि। जह जं कोडीसत्तं तह छणभेए वि सुहुममिणं ॥१३॥ अक्षरगमनिका-कालभेदेऽपि सर्वेषामेतत् सर्वथा तुल्यम्, यथा यत् कोटिप्राप्तं क्षणभेदेऽपि तथा। सूक्ष्ममिदम् ।। १३!! टीका-आस्तां युगपत् सिद्धि प्राप्तानां सिद्धभगवतां कालभेदेऽपि मुक्तिगमनकालस्य भिन्नत्वेऽपि सर्वेषां निखिलानां सिद्धपरमात्मनाम् एतत् सिद्धिसुखं सर्वथा सर्वात्मना तुल्यं समम्, यथा यद्वद् यत् किञ्चिदपि सुखादिवस्तु कोटिसत्तं कोटि: प्रकर्षस्तं सत्तं देशीयशब्दोऽयं प्राप्तमित्यर्थः, तथा च यत् प्रकर्षप्राप्तं तत् क्षणभेदेऽपि कालभेदेऽपि तथा तुल्यं केवलज्ञानवत्। सूक्ष्म मतेरविषयत्वाद् इदं सिद्धसुखमिति ||१३|| असत्कल्पनया भावयितुमाह सव्वं पि कोडिकप्पियमसंभवठवणाइ जं भवे ठवियं । तत्तो तस्सुहसामी न होइ इह श्रेयगो कालो॥१४॥ ___ अक्षरगमनिका—असम्भवस्थापनया सर्वमपि कोटिकल्पितं यद् भवेत् स्थापितं ततस्तत्सुखस्वामी, न भवतीह कालो भेदकः ।।१४|| टीका-असंभवस्थापनया असत्कल्पनया सर्वमपि निखिलं सुखं प्रत्येकस्य सिद्धभगवतः कोटिकल्पितं कोटिः प्रकर्षः असत्कल्पनया यावत् कोटिसङ्ख्याकं १००००००० तावत् कल्पितं छिन्नं सद् यद् यदि वेद जायेत पथक स्थापितं न्यस्तं ततः तदा यदि वा तेन तप्तस्तत्सखस्वामी सर्वः सिद्धभगवान सुखेन भवति तुल्य: सुखस्य तुल्यत्वात्। न भवति जायते अत्र सुखमानविषये भेदको विशेषाऽऽपादकः कालः समयलक्षण, इति ।।१४।। एतदेव प्रकारान्तरेणापि निरूपयति जइ तत्तो अहिगं खलु होइ सरूवेण किंचि तो भेओ। न वि अज्जवासकोडीमयाण माणम्मि सो होइ ॥१५॥ अक्षरगमनिका—यदि ततः किञ्चिद् अधिकं खलु भवति स्वरूपेण ततो भेदः। न हि अद्यवर्षकोटिमृतयोनि स भवति ||१५|| टीका-यदि अभ्युपगमे ततः प्रकर्षप्राप्तात् सिद्धसुखात् सकाशात् किञ्चित् स्वल्पमपि अधिकं समधिकं खलु परमार्थतो भवति जायते स्वरूपेण सिद्धसुखत्वेन ततस्तदा भवेद् भेदो विशेषः। न चाधिकं कि. पदपि तस्मान्न भेदः । एतदेव प्रकारान्तरेणाह-न हि नैव अद्यवर्षकोटिमृतयोः एकः अद्य मृतः अपरश्च वर्षकोटेः प्राग् मृतः, एतयोर्योरपि मृतयोर्माने ध्वंसाभावप्रमाणे स भेदो भवति जायते द्वयोरसत्त्वेनाऽविशेषात्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148