Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ] एकोनविंशी सिद्धविभक्तिविंशिका
[ १२५ सत्तममहिपडिसेहो रुद्दपरिणामविरहओ तासिं।
सिद्धीए इट्ठफलो न साहुणित्थीण पडिसेहो॥११॥ अक्षरगमनिका—सप्तममहीप्रतिषेधस्तु तासां रौद्रपरिणामविरहतः। सिद्धाविष्टफलः। न साध्वीस्त्रीणां प्रतिषेधः ।।११।।
टीका-सप्तममहीप्रतिषेधस्तु सप्तमनरक भूमिगमननिषेधः पुनः तासां स्त्रीणां रौद्रपरिणामविरहतः तीव्रतमसङ्किलष्टाऽध्यवसायाभावाद् बोद्धव्यः। साध्वीस्त्रीणां संयतीनां च स रौद्रपरिणामविरहः सिद्धौ मुक्तिगमने इष्टफल इष्टफलसाधक इति भावः, परं न नैव प्रतिषेधः स्त्रीणां सिद्धिनिषेधक इत्यर्थः ।।११।। ननु स्त्रीणां चक्रयाधुत्तमपदप्रतिषेधात् सिद्धिप्रतिषेधोऽपि जायतामित्याशङ्कयाह
उत्तमपयपडिसेहो तासिं सहगारिजोगयाऽभावे ।
नियवीरिएण उ तहा केवलमवि हंदि अविरुद्धं ॥१२॥ अक्षरगमनिका-सहकारियोग्यताभावे तु तासामुत्तमपदप्रतिषेधः । निजवीर्येण तु तथा केवलमपि हन्ताऽविरुद्धम् ।।१२।।
टीका-सहकारियोग्यताभावे तु प्राकृतत्वेन विभक्तिव्यत्ययात् पुंवेदोदयादिसहकारिकारणलक्षणयोग्यताभावादेव तासां स्त्रीणाम् उत्तमपदप्रतिषेधः चक्रयादिप्रधानपदनिषेधो बोद्धव्यः, न पुनः अभव्यस्येव स्वरूपयोग्यताभावात्। एतदेव प्रकारान्तरेणाह-निजवीर्येण तु स्वकीयवीर्योल्लासेन पुनर्यथा पुरुषाणां तथा तद्वत् स्त्रीणां महिलानां न केवलं चारित्रादिभावाः केवलमपि केवलज्ञानमपि हन्त! आमन्त्रणे अविरुद्धं निर्बाधं युक्तियुक्तत्वाजिनागमसम्मतत्वाच्चेति ।। १२॥ आगमसम्मतत्वमाह
वीसित्थिगा उ पुरिसाण अट्ठसयमेगसमयओ सिज्झे।
दस चेव नपुंसा तह उवरिं समएण पडिसेहो॥१३॥ अक्षरगमनिका—एक समयतो विंशतिस्तु स्त्रियः पुरुषाणामष्टशतं सिध्येत् तथा दशैव नपुंसा उपरि समयेन प्रतिषेधः ।।१३।।
एकसमयत एकेन समयेनोत्कर्षतः स्त्रियो महिला विंशतिस्तु विंशतिरेव सिध्यन्ति, पुरुषाणामष्टशतं पुंसामष्टोत्तरशतं सिध्येत् तथा दशैव नपुंसाः नपुंसका एकेन समयेन सिध्यन्ति । उक्तसङ्ख्याया उपरि ऊर्ध्वं सर्वत्रापि समयेन एकेन कालसमयेन सिध्यतां प्रतिषेधो निषेधो ज्ञेय इति ।।१३।। प्रसङ्गतः प्रकारान्तरेण सङ्ख्यामाह
दसत्रलिंगे इय चउरो गिहिलिंगे सयं च अट्ठहियं ।
विनेयं तु सल्लिंगे समएणं सिज्झमाणाणं ॥१४॥ अक्षरगमनिका-एवं समयेन सिध्यतां चत्वारो गृहिलिङ्गे, दशाऽन्यलिङ्गे शतं चाष्टाधिकं तु स्वलिङ्गे विज्ञेयम् ।। १४॥
टीका–एवम् उत्कर्षत एकेन समयेन सिध्यतां सिद्धिसौधमारोहतां चत्वारो गृहिलिङ्गे गृहस्थलिङ्गे तथा दश अन्यलिड़े चरकपरिव्राजकादिलिने तथा शतं चाष्टाधिकं तु अष्टोत्तरशतमेव स्वलिड्ने यतिलिङ्गे विज्ञेयं बोद्धव्यम् । मुद्रितपुस्तके ‘सलिङ्गसिद्धे' इति पाठः स त्वपपाठ इति संभाव्यतेऽत एव तमनादृत्य 'दसन्नलिने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148